________________
पदं - २२, उद्देशक:-, द्वारं
मिध्यादर्शनप्रत्यया च सर्वथा निषिध्यते, तद्भावे प्राणातिपातविरत्ययोगात्, प्राणातिपातविरतेश्च द्वे पदे, तद्यथा
'जीवो मनुष्यश्च तत्र यथा सामान्यतो जीवमधिकृत्योक्तं तथा मनुष्यमधिकृत्य वक्तव्यं, तथा चाह - 'एवं पाणाइवायविरयस्स मणूसस्सवि' इति, एवं तावद्वाच्यं यावन्मायामृषाविरतस्य जीवस्य मनुष्यस्य च, मिथ्यादर्शनशल्यविरतमधिकृत्य सूत्रं 'मिच्छादंसणसल्लविरयस्स णं भंते! जीवस्स' इत्यादि, आरम्भिकी स्याद्भवति स्यान्न भवति, प्रमत्तसंयतान्तस्य भवति शेषस्य न भवतीति भावार्थ:, पारिग्रहिकी देशविरतिं यावद्भवति, परतो न भवति, मायाप्रत्ययाऽप्यनिवृत्तबादरसम्परायं यावद्भाविनी परतो न भवति, अप्रत्याख्यानक्रियाऽपि अविरतसम्यग्ष्टिं यावन्न परतः, तत एता अपि क्रिया अधिकृत्य 'सिय कज्जइ सिय नो कज्जइ' इति वक्तव्यं, तथा चाह - एवंजाव अपञ्चक्खाणकिरिया' इति, मिथ्यादर्शनप्रत्यया पुनर्निषेध्या, मिथ्यादर्शनविरतस्य तस्या असम्भवात्,
चतुर्विंशतिदण्डकचिन्तायां नैरयिकादीनां स्तनितकुमारपर्यन्तानां चतस्रः क्रिया वक्तव्याः, मिथ्यादर्शनप्रत्यया निषेध्या, तिर्यक्पञ्चेन्द्रियस्याद्यास्तिस्रः क्रिया नियमतो वक्तव्याः, अप्रत्याख्यानक्रिया भाज्या, देशविरतस्य न भवति शेषस्य भवतीत्यर्थः, मिथ्यादर्शनप्रत्यया निषेध्या, मनुष्यस्य यथा सामान्यतो जीवस्य, व्यन्तरदीनां यथा नैरयिकस्य ।
सम्प्रत्यासामेवारम्पिक्यादीनां क्रियाणां परस्परमल्पबहुत्वमाह - 'एएसि णं भंते!' इत्यादि, सर्वस्तोका मिथ्यादर्शनप्रत्यया क्रिया, मिथ्यादृष्टीनामेव भावात्, ततोऽप्रत्याख्यानक्रिया विशेषाधिका, अविरतसम्यग्ध्ष्टीनां मिथ्याध्ष्टीनां च भावात्, ताभ्योऽपि पारिग्राहिक्यो विशेषाधिकाः, देशविरतानां पूर्वेषां च भावात्, आरम्भिक्यो विशेषाधिकाः, प्रमत्तसंयतानां पूर्वेषां च भावात्, ताभ्योऽपि मायाप्रत्यया विशेषाधिकाः अप्रमत्तसंयतानामपि भावात् ।। पदं २२ – समाप्तम्
-
"
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे
द्वाविंशतितमापवस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता ।
पर्व २३ कर्मप्रकृतिः
१६५
-
वृ. तदेवमुक्तं द्वाविंशतितमं पदं, सम्प्रति त्रयोविंशतितममारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरपदे नारकादिगतिपरिणामेन परिणतानां जीवानां प्राणातिपातादिक्रियाविशेषश्चिन्तितः सम्प्रति पुनः कर्मबन्धादिपरिणामविशेषश्चिन्त्यते तत्र चेयमधिकारद्वारगाथा-: पदं - २३ - उद्देशकः- १ :
मू. (५३४) कति पगडी १ कह बंधति २ कइहिवि ठाणेहिं बंधए जीवो ३ । कति वेदेइ य पयडी ४ अनुभावी कइविहो कस्स ५ ।।
वृ. 'कइ पगडी' इत्यादि, कति प्रकृतयो भवन्तीत्यादि प्रथमोऽधिकारः, तथा कथं केन प्रकारेण ताः प्रकृतीर्बध्नातीति द्वितीयःस कतिभिः स्थानैर्बध्नातीति तृतीयः, कति प्रकृतीर्वेदयते इति चतुर्थः, कस्य कर्मणः कतिविधोऽनुभागः पञ्चमः । तत्र प्रथमाधिकारनिरूपणार्थमाहसू. (५३५) कति णं भंते! कम्मपगडीओ पन्नत्ताओ, गो० ! अट्ठ कम्मपगडीओ पन्नत्ताओ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org