SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ १५८ प्रज्ञापनाउपाङ्गसूत्रम्-२-२२/-1-1५२९ चिन्तयति- 'जस्स णं भंते ! नेरइयस्स काइयाकिरिया कजति' इत्यादि प्रतीतं, भावितत्वात् । तदेवमेको दण्डक उक्तः, सम्प्रति कालमधिकृत्योक्तप्रमारेणैव द्वितीयदण्डकमाह ‘जंसमयंणंभंते! जीवस्सकाइया किरिया काइतं समयं अहिंगरणिया कजइ जं समयं अहिगरणिया कन्नई' इत्याद्यारभ्य सर्वं पूर्वोक्तं तदवस्थं तावद्वक्तव्यं यावद्वैमानिकसूत्रं, तथा चाह-“एवं जहेव आइल्लतो दंडओ तहेव भाणियव्वो जाव वेमाणियस्स' इति, समयग्रहणेन चेह सामान्यतः कालो गृह्यते, न पुनः परमनिरुद्धो यथोक्तस्वरूपो नैश्चयिकः समयः, परितापनस्य प्राणातिपातस्य वा बाणादिक्षेपजन्यतया कायिक्याः प्रथमसमये एवासम्भवात्, एष द्वितीयो दण्डकः, सम्प्रति द्वौ दण्डकौ क्षेत्रमधिकृत्याह ___'जंदेसेणं भंते ! जीवस्स' इत्यादि, अत्रापि सूत्रं पूर्वोक्तं तदवस्थं तावद्वक्तव्यं यावद्वैमानिकसूत्रं, तथा चाह-तहेब जाव वेमाणियस्स' एष तृतीयदण्डकः, 'जंपएसेणंभंते! जीवस्स काइया किरिया कञ्जई इत्यादिकश्चतुर्थः, अत्रापि सूत्रप्रागुक्तक्रमेण तावद्द्वक्तव्यं यावद्वैमानिकसूत्रं, यथा चाह--‘एवं तहेव जाव वेमाणिए'इति, दण्डकसकलनामाह-"एवमेते' इत्यादि, एताश्च यथा ज्ञानावरणीयादिकर्मबन्धकारणंतथा संसारकारणमपि, ज्ञानावरणीयादिकर्मबनधस्य संसारकारणतया तद्धेतुत्वेन तासामपि संसारकारणत्वोपचारात्, तथा चाह- 'कइ णं भंते ! आजोजियाओ किरियाओ पन्नत्ताओ'इत्यादि, आयोजयन्ति जीवं संसारेइत्यायोजिका:-कायिक्यादिकाः शेषं सर्वसुगम, सूत्रपाठस्तुपूर्वोक्तप्रकारेण तावद्वक्तव्यो यावत्यस्येतियंसमयमितियंदेशमितियंप्रदेशमिति परिपूर्णाश्चत्वारोदण्डकाः, यसमय'मित्यादौ, तु 'कालाध्वनोव्याप्ता' वित्यधिकरणे द्वितीया, ततो यस्मिन् समये यस्मिन् देशे यस्मिन् प्रदेशे इति व्याख्येयं, ‘जीवेणंभंते! जंसमयंकाइयाए अहिगरणियाए इत्यादि, अत्रापि समयग्रहणेनसामान्यतः कालो गृह्यते, प्रश्नसूत्रं सुगमं, निर्वचनसूत्रे भङ्गत्रयी कञ्चिजीवमधिकृत्य कश्चिजीवो यस्मिन् समये काले क्रियात्रयेण स्पृष्टस्तस्मिन् समये पारितापनिक्याऽपिस्पृष्टः प्राणातिपातक्रियया चेत्येको भङ्गः,पारितापनिक्या स्पृष्टः प्राणातिपातेनास्पृष्टइति द्वितीयः, पारितापनिक्याप्राणातपातक्रियया चास्पृष्ट इति तृतीयः, एषच तृतीयोभङ्गोबाणादेर्लक्षात्परिभ्रंशेन घात्यस्य मृगादेः परितापनाद्यसम्भवे वेदितव्यः, यस्तु यस्मिन् समये यंजीवमधिकृत्याद्यक्रियात्रयेणास्पृष्टः सतस्मिन् समये तमधिकृत्य नियमात् पारितापनिक्या प्राणातिपातक्रियया चास्पृष्टः, कायिक्याधभावे परितापनादेरभावात् तदेवमुक्ताः क्रियाः, साम्प्रतं प्रकारन्तरेण क्रिया निरूपयति मू. (५३०) कति णं भंते ! किरियाओ पन्नत्ताओ?, गो० ! पंच किरियाओ पं०, तं०-आरंभिया परिग्गहिया मायावत्तिया अपचरखाणकिरिया मिच्छादसणवत्तिया, आरंभिया णं भंते ! किरिया कस्स कजति ?, गो० ! अन्नयरस्सवि पमत्तसंजयस्स, परिग्गहिया णं भंते ! किरिया कस्स कजइ?, गो० ! अन्नयरस्सवि संजयासंजयस्स, मायावत्तियाणं भंते! किरिया कस्स कञ्जति?, गो०! अन्नयरस्सावि अपमत्तसंजयस्स, अपञ्चखाणकिरिया णं भंते! कस्स कति?, गो० ! अन्नयरस्सवि अपञ्चक्खाणिस्स, मिच्छादसणवत्तिया णं भंते ! किरिया कस्स कजति ?, गो० ! अन्नयरस्सावि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy