________________
पदं-२२, उद्देशकः, द्वार
१५५ वचनात्, शेषान् सङ्खयेयवर्षायुषः प्रति पञ्चक्रियोऽपि, तेषामवत्त्यायुष्कतया जीविताद् व्यपरोपणस्यापि सम्भवात्, तदेवमेकस्य जीवस्य एकंजीवंप्रति क्रियाश्चिन्तिताः, सम्प्रत्येकस्यैव जीवस्य बहून जीवान् प्रति क्रियाश्चिन्तयति
___ 'जीवेणंभंते! जीवेहिंतो कइकिरिए पन्नत्ते' इत्यादि, एषोऽपिदण्डकः प्राग्वद्भावनीयः, अधुना बहूनांजीवानामेकंजीवमधिकृत्य क्रियाश्चिन्तयति-‘जीवाणंभंते! जीवातो कइकिरिया पं०' इत्यादि, एषोऽपिदण्डकःप्रथमदण्डकवदवसेयः, अधुना बहूनांजीवानांबहून्जीवानधिकृत्य सूत्रमाह
_ 'जीवा णं भंते ! जीवेहिंतो कइकिरिया पं०?' इत्यादि, अत्र प्रश्नः पाठसिद्धो, निर्वचनमिदं-गौतम ! त्रिक्रिया अपि चतुष्क्रिया अपि पश्चक्रिया अपि अक्रिया अपि, कस्यापि जीवस्यकमपिजीवंप्रतित्रिक्रियत्वात्कसल्यापि चतुष्क्रियत्वात्कस्यापि पञ्चक्रियत्वात् कस्यापि मनुष्यस्य सर्वोत्तमचारित्रिणः सिद्धस्य वा शेषस्याक्रियत्वात् इति सर्वत्र बहुवचनरूप एक एव मङ्गः, एवं नैरयिकादिक्रमेण तावद् वक्तव्यं यादद्वैमानिकसूत्रं, नवरं नैरयिकान् दैवांश्च प्रति त्रिक्रिया अपि चतुष्क्रिया अपिअक्रिया अपीति वक्तव्यं, शेषान् सद्ध्येयवर्षायुषःप्रति पञ्चक्रिया अपीति, तदेवं सामान्यतोजीवपदमधिकृत्यदण्डकचतुष्टयमुक्तं, सम्प्रति नैरयिकपदमधिकृत्याह
'नेरइएणंभंते ! जीवातो कतिकिरिएपं०' इत्यादि ‘एवं जाववेमाणिएहिंतो' इति, अत्र यावत्करणात् 'नयरिको जीवान् प्रति कतिक्रिय' इति इत्यादिरूपो द्वितीयोऽपि दण्डक उक्तो द्रष्टव्यः, सर्वत्र औदारिकशरीरान् सङ्खयेयवर्षायुषः प्रति स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पञ्चक्रिय इति वक्तव्यं, नैरयिकस्य देवान् प्रति पञ्चमी जीविताद् व्यपरोपणरूपा क्रिया नास्ति, तेषामनपवायुष्कत्वात्, ततस्तान् प्रति स्यात् त्रिक्रियः स्याच्चतुष्क्रिय इति वक्तव्यं, नैरयिको देवान् प्रति कथं चतुष्क्रिय इति चेत्, उच्यते, इह भवनवास्यादयो देवास्तृतीयां पृथिवींयावत् गता गमिष्यन्ति च, किमर्थंगता गमिष्यन्तीति चेत्?, उच्यते, पूर्वसागतिकस्य वेदनामुपशमयितुं पूर्ववैरिणो वेदनामुदीरयितुं (वा) तत्र गच्छन्ति, तदानीमनन्तकालादेतदपि भवति (यद्) तद्गताः सन्तो नारकैर्बध्यन्ते इति, आह च मूलटीकाकारोऽपि
"तत्र गता नारकैर्बध्यन्ते इत्यप्यनन्तकाल एव कथञ्चित्सम्भवमात्र"मिति, अत्रापर आह-ननुनारकस्य द्वीन्द्रियादीनधिकृत्य कथं कायिक्यादिक्रियासम्भवः?, उच्यते, इह नारकैर्यस्मात् पूर्वभवशरीरं न व्युत्सृष्टं विवेकाभावात्, तदभावश्च भवप्रत्ययात्, ततो यावत् शरीरं तेन जीवेन निर्वर्तितंसततं शरीरपरिणामं सर्वथान परित्यजति तावदेशतोऽपितंपरिणामभजमानं पूर्वभावप्रज्ञापनया तस्येति व्यपदिश्यते घृतघटवत्, यथा हि घृतपूर्णो घटो घृते अपगतेऽपि घृतपट इतिव्यपदिश्यते, तथा तदपिशरीरंतेन निर्वतितमिति तस्येतिव्यपदेशमर्हति, ततस्यस्य शरीरस्य एकदेशेनास्थ्यादिना योऽन्तः प्राणातिपातं करोति, ततः पूर्वनिर्वर्तितशरीरजीवोऽपि कायिक्यादिक्रियाभियुज्यते, तेन तस्याव्युत्सृष्टत्वात,
तत्रेयंपञ्चानामपि क्रियाणांभावनातत्कायस्य व्याप्रियमाणत्वात् कायिकी कायोऽधिकरणमपि भवतीत्युक्तं प्राक् तत आधिकरणिकी, प्राद्वेषिक्यादयस्त्वेवं-यदा तमेव शरीरैकदेशं अभिघातादिसमर्थमन्यः कश्चनापि प्राणातिपातोद्यतो दृष्ट्वा, तस्मिन् घात्ये द्वीन्द्रियादौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org