________________
१४८
प्रज्ञापनाउपाङ्गसूत्रम्-२-२२/-1-1५२५
तं०-काइया १ अहिगरणिया २ पादोसिया ३ पारियावणिया ४ पाणाइवायकिरिया,
काइया णं भंते! किरिया कतिविहा पं०?, गो० ! दुविहा पं०, तं०-अनुवरयकाइयाय दुप्पउत्तकाइया य, अहिंगरणिया णं भंते ! किरिया कइविहा पं०?, गो० ! दुविहा पं०, तं०-संजोयणाहिकरणिया य निव्वत्तणाधिगरणिया य,
पादोसियाणंभंते! किरिया कतिविहा पं०?, गो०! तिविहा पं०, तं०-जेणंअप्पणो वा परस्स वा तदुभयस्स वा असुभं मनं संपधारेति, सेतं पादोसिया किरिया,
पारियावणियाणंभंते! किरिया कतिविहा पं०?, गो०! तिवि० सं०-जेणं अप्पणो वा परस्स वा तदुभयस्स वा अस्यसायं वेदणं उदीरेति, सेत्तं पारियावणिया किरिया,
पाणातिवायकिरिया णं भंते! कतिविहा पं०?, गो० ! ति० पं०, तं०-जेणं अप्पाणं वा परं वा तदुभयं वा जीवियाओ ववरोवेइ, से तं पाणाइवायकिरिया।
वृ. 'कइणं भंते!' किरियाओ पं०' इत्यादि, करणंक्रिया, कर्मबन्धनिबन्धनचेष्टा इत्यर्थः, सा पञ्चधा, तद्यथा-'काइया' इत्यादि, चीयते इति कायः-शरीरं, काये भवा कायेन निर्वृत्ता वा कायिकी १,
तथा अधिक्रियते-स्थाप्यते नरकादिष्वात्माऽनेनेति अधिकरणं-अनुष्ठानविशेषो बाह्य वा वस्तु चक्रखङ्गादि तत्र भवा तेन वा निर्वृत्ता आधिकरणिकी, 'पाउसिया' इति प्रद्वेषो-मत्सरः कर्मबन्धहेतुरकुशलोजीवपरिणामविशेष इत्यर्थः तत्रभवा तेन वा निकृततास एव वा प्रद्वेषिकी ३,
'पारियावणिया' इति परितापनं परितापः पीडाकरणमित्यर्थः तस्मिन् भवा तेन वा निर्वृत्ता परितापनमेव वा पारितापनिकी ४,
_ 'पाणाइवायकिरिया इतिप्राणा-इन्द्रियादयस्तेषामतिपातो-विनाशस्तद्विषया प्राणातिपात एववा क्रिया प्राणातिपातक्रिया, तत्रकायिकी द्विभेदा, तद्यथा-अनुपरतकायिकी दुष्प्रयुक्तकायिकी च, उपरतो-देशतः सर्वतो वा सावधयोगाद्विरतः नोपरतोऽनुपरतः कुतश्चिदप्यनिवृत्त इत्यर्थः तस्यकायिकीअनुपरतकायिकी क्रियेति वर्तते, इयंप्रतिप्राणिनि वर्तते, इयमविरतस्य वेदितव्या, न देशविरतस्य सर्वविरतस्य वा, तथा दुष्टं प्रयुक्तं-प्रयोगः कायादीनां यस्य स दुष्प्रयुक्तस्तस्य कायिकी दुष्प्रयुक्तकायिकी, इयं प्रमत्तसंयतस्यापि भवति, प्रमत्ते सति कायदुष्प्रयोगसम्भवात्,
आधिकरणिक्यपि द्विभेदा, तद्यथा संयोजनाधिकरणिकी निर्वर्तनाधिकरणिकी च, तत्र संयोजनं-पूर्वनिर्वतितानां हलगरविषकूटयन्त्राद्यङ्गानां मीलनंतदेव संसारहेतुत्वादाधिकरणिकी संयोजनाधिकरणिकी, इयं हलाद्यङ्गानि पूर्वनिर्वतितानि संयोजयितुर्भवति, तथा निवर्त्तनंअसिशक्तिकुन्ततोमरादीनां मूलतोनिष्पादनंतदेवाधिकरणिकी निर्वर्तनाधिकरणिकी, पञ्चविधस्य वा शरीरस्य निष्पादनं निर्वर्तनाधिकरणिकी, देहस्यापि दुष्प्रयुक्तस्य संसारवृद्धिहेतुत्वात् ।
प्राद्वेषिकी त्रिभेदा, तद्यथा- 'जेणअप्पणो' इत्यादि, येनप्रकरणजीवाआत्मनोवा-स्वस्य वाअन्यस्यवा-आत्मव्यतिरिक्तस्य उभयस्यवा-स्वपरलक्षणस्योपरिअशुभं-अकुशलं मनःअन्तःकरणंप्रधारयति-प्रकर्षाणंधारयतिकरोतीत्यर्थः तेन कारणेन विषयस्य त्रैविध्यात् त्रिविधा प्राद्वेषिकी क्रिया, तथाहि कश्चित् कस्मिन् प्रयोजने स्वयमनुष्ठिते पर्यन्ते विपाकदारुणे संवृते सति अविवेकादात्मन एवोपरि अकुशलं मनः सम्प्रधारयति, एवं कश्चित् परस्य, कश्चित् स्वप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org