________________
१२२
प्रज्ञापनाउपाङ्गसूत्रम्-२-२१/-1-1५१०
॥२॥ "पाणिदयरिद्धिदंसणसुहुमपयत्थावगहणहेउं वा ।
संसयवोच्छेयत्थं गमणं जिनवायमूलंमि॥" तच्च वैक्रियशरीरापेक्षया अत्यन्तशुभं स्वच्छस्फटिकशिलेव शुभ्रपुद्गलसमूहघटनात्मकं,
तेज इति-तैजसं तेजसः-तेजःपुद्गलानांविकारस्तैजसं 'विकार' इत्यण, तत् ऊष्मलिङ्गं भुक्ताहारपरिणमनकारणं, तद्वशाच विशिष्टतपःसमुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः, उक्तंच॥१॥ “सव्वस्स उम्हसिद्धं रसाइयआहारपाकजणगं च |
तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं ॥" 'कम्मए' इति कर्मणोजातं कम्मंज, किमुक्तं भवति?-कर्मपरमाणव एवात्मप्रदेशैः सह ये क्षीरनीरवत् अन्योऽन्यानुगताः सन्तः शरीररूपतया परिणतास्ते कर्मजं शरीरमिति, अत एवैतदन्यत्र कार्मणमित्युक्तं, कर्मणो विकारः कार्मणमिति, तथा चोक्तम्॥१॥ “कम्मविगारो कम्मणमट्ठविहविचित्तकम्मनिष्फनं ।
सव्वेसिं सरीराणं कारणभूतं मुणेयव्वं ॥" अत्र ‘सव्वेसि मिति सर्वेषामौदारिकादीनांशरीराणां कारणभूतं-बीजभूतं कार्मणशरीरं, नखल्वामूलसमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसङ्कङ्कान्तौ साधकतमं करणं, तथाहि-कर्मजेनैव वपुषा तैजससहितेन परिकरितोजन्तुर्मरणादेशमपहायोत्पत्तिदेशमभिसर्पति, ननुयदितैजससहितकार्मणवपुःपरिकरितो गत्यन्तरं सङ्कामति तर्हि सगच्छन्नागच्छन्वा कस्मान्न हेष्टिपथमवतरति ?, उच्यते, कर्मपुद्गलानां चातिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात्, तथा च परतीर्थिकैरप्युक्तम् ॥१॥ “अन्तरा भवदेहोऽपि, सूक्ष्मत्वानोपलभ्यते ।
निष्कामन प्रविशन वापि, नाभोवोऽनीक्षणादपि ॥" इति। ___ सम्प्रति औदारिकशरीरस्य जीवजातिभेदतोऽवस्थाभेदतश्च भेदानभिधित्सुराह'ओरालियसरीरे णं भंते !' इत्यादि, औदारिकशरीरमेकद्वित्रिचतुःपञ्चेन्द्रियभेदात् पञ्चधा, एकेन्द्रियौदारिकशरीरमपि पृथिव्यप्तेजोवायुवनस्पतिएकैन्द्रियभेदात् पञ्चविधं, पृथिवीकायिकैकेन्द्रियौदारिकशरीरमपि सूक्ष्मेतरभेदाद् द्विधा, पुनरेकैकं द्विधा पर्याप्तापर्याप्तभेदात्, एवमत्तेजोवायुवनस्पत्येकेन्द्रियौदारिकशरीराण्यपि प्रत्येकं चतुर्विधानीति सर्वत्ययैकेन्द्रियोदारिकशरीराणि विंशतिधा, द्वित्रिचतुरिन्द्रियौदारिकशरीराणि प्रत्येकंपर्याप्तापर्याप्तभेदाद्विभेदानि,
पञ्चेन्द्रियौदारिकशरीरं द्विविधं-तिर्यग्मनुष्यभेदात्, तिर्यक्पञ्चेन्द्रिययौदारिकशरीरंविधा, जलचरस्थलचरखचरभेदात्, जलचरतिर्यक्पञ्चेन्द्रियौदारिकशरीरं द्विविधं-सम्मूर्छिमगर्भव्युत्क्रान्तिकभेदात्, एकैकमपि पुनर्द्विभेदं-- पर्याप्तापर्याप्तभेदात्, स्थलचरतिर्यक्पञ्चेन्द्रियौदारिकशरीरमपि द्विधा-चतुष्पदपरिसर्पभेदात्, चतुष्पदस्थलचरतिर्यक्पञ्चेन्द्रियौदारिकशरीरमपि द्विधा-सम्मूर्छिमगर्भव्युतक्रान्तिकभेदात्, पुनरेकैकंद्विधा-पर्याप्तापर्याप्तभेदात्, परिसर्पस्थलचरतिर्यग्योनिकपञ्चेन्द्रियौदारिकशरीरमपि उरःपरिसर्पभुजपरिसर्पभेदतो विभेदं, पुनरेकैकं द्विधा-सम्मूर्छिमगर्भव्युत्क्रान्तिकभेदात्, तत्रापि पुनः प्रत्येकं वैविध्यं पर्याप्तापर्याप्तभेदात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org