SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ११८ प्रज्ञापनाउपाङ्गसूत्रम्-२-२०/-/६-९/५०७ जीविनस्त्रिदण्डिन;, अथवाचरकाः कच्छोटकादयः परिव्राजकाः कपिलमुनिसूनवः, चरकाश्च परिव्राजकाच तेषां, तथा “किदिवसियाणं ति किल्बिषं-पापं तदस्ति येषां ते किल्बिषिकास्ते च व्यवहारतश्चरणवन्त एव ज्ञानाद्यवर्णवादिनः, उक्तंच "नाणस्स केवलीणं धम्मायरियस्स सव्वसाहूणं । माई अवण्णवाई किदिवसियं भावनं कुणइ ॥ ॥२॥ काया वया यते च्चियतेचेव पमाय अप्पमाया य | मोक्खाहिगारियाणं जोइसजोणीहिं किं कजं? ।। एगंतरमुप्पाए अन्नोन्नावरणया दुवेण्हंपि । केवलदसणनाणाणमेगकाले व एगत्तं ॥ ॥४॥ जच्चाईहि अवण्णं विहसइ वट्टइ नयावि उववाए। ___ अहिओ छिद्दप्पेही पगासवाई अननुकूलो ।। अविसहणातुरियगई अनानुवत्तीय अवि गुरूणंपि । खणमेत्तपीइरोसा गिहवच्छलगा य संजइया । गूहइ आयसहावं धायइ य गुणे परस्स संतेवि । चोरोव्व सव्वसंकी गूढायारो वितहभासी॥" तेषां, तिरिच्छियाणं'ति तिरश्चां-गवादीनां देशविरतिभाजां 'आजीवियाण'ति आजीविकाः-पाखण्डविशेषाःगोशालमतानुसारिणः अथवाऽऽजीवन्ति ये अविवेकतो लब्धिपूजाख्यात्यादिभिश्चरणादीनिइत्याजीविकाः तेषां, तथा 'आभियोगिणं'तिअभियोजन-विद्यामन्त्रादिभिः परेषां वशीकरणादि अभियोगः, स च द्विधा, यदाह॥१॥ "दुविहो खलु अभिओगो दब्वे भावे य होइ नायव्यो । ___दव्वंमि होंति जोगा विजा मंता य भावम्मि ।।" सोऽस्तियेषां तेन वाचरन्ति येतेअभियोगिका आभियोगिका वा, तेच व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, उक्तं च॥१॥ “कोउय भूईकम्मे पसिणापसिणे निमित्तमाजीवी। इद्धिरससायगरुओ अभिओगं भावणं कुणइ॥" कौतुकं-सौभाग्याद्यर्थ स्नपनंभूतिकर्म-ज्वरितादिभूतिदानंप्रश्नाप्रश्नः-स्वप्नविद्यादि, 'सलिंगीण मिति रजोहरणादिसाधुलिङ्गवतां, किंविधानामित्याह-'दसनवावण्णगाणं'ति दर्शनं सम्यकत्वं व्यापन-भ्रष्टं येषां ते तथा तेषां, निलवानामित्यर्थः, 'देवलोगेषु उववजमाणाणं'ति अनेन देवत्वादन्यत्रापि यथाऽध्यवसायमुत्पादो भवतीति प्रतिपादितं, 'विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे' इति, अत्र कश्चिदाहविराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते?, द्रौपद्याः सुकुमालिकाभवे विराधितंसयमाया अपि ईशानकल्पेउत्पादश्रवणात्, नैष दोषः, तस्या हि संयमविराधनाउत्तरगुणविषया बकुशत्वमात्रकारिणी न मूलगुणविराधना, सौधर्मोत्पादश्च प्रभूततरसंयमविराधनायां भवति, यदि पुनर्विराधनामात्रमपि सौधर्मोत्पत्तिकारणं स्यात् तदा बकुशादीनामुत्तरगुणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy