SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ पदं २०, उद्देशक:-, द्वारं - ५ गो० ! नो० ति०, केवलिपनत्तं धम्मं लभेज्जा सवणयाते, एवं वाउकाइएवि, वणस्सइकाइए णं पुच्छा, गो० ! नो० ति०, अंतकिरियं पुण करेजा, बेइंदियतेइंदियचउरिदिए णं पुच्छा, गो० ! नो० ति०, मनपज्जवनाणं उप्पाडेजा, पंचिंदियतिरिक्खजोणियमणूसवाणमंतरजोइसिए णं पुच्छा, गो० ! नो० ति०, अंतकिरियं पुण करेजा, सोहम्मगदेवे णं भंते! अनंतरं चयं चइता तित्थगरत्तं लभेज्जा, गो० ! अत्थे० ल० अत्ये० नो ल०, एवं जहा रयणष्पभापुढविनेरइए एवं जाव सव्वट्टसिद्धगदेवे ॥ वृ. 'रयणप्पभापुढवीनेरइया णं भंते!' इत्यादि सुगमं, नवरं 'बद्धानि' सूचीकलाप इव सूत्रेण प्रथमतो बद्धमात्राणि, तदनन्तरमग्निसंपर्कानन्तरं सकृत् घनकुट्टितसूचीकलापवत् स्पृष्टानि 'निधतानि' उद्वर्तनापवर्तनावर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीति भावार्थ: 'कृतानि' निकाचितानि सकलकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः 'प्रस्थापितानि' मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशः कीर्तिनामसहोदयत्वेन व्यवस्थापितानीति भावः 'निविष्टानि ' तीव्रानुभावजनकतया स्थितानि 'अभिनिविष्धनि' विशिष्टविशिष्टतराध्यवसाय भावतोऽतितीव्रानुभावजनकतया व्यवस्थितानि 'अभिसमन्वागतनानि' उदयाभिमुखीभूतानि 'उदीर्णानि ' विपाकोदयमागतानि 'नोपशान्तानि' न सर्वथाऽभावमापन्नानि निकाचिताद्यवस्थोद्रेकरहितानि वा न भवन्ति, शेषं समस्तमपि कण्ठयं, एवं शर्कराप्रभावालुकाप्रभाविषये अपि सूत्रे वक्तव्ये । पङ्कप्रभापृथिवीरनैरयिकस्ततोऽनन्तरमुद्वृत्तः तीर्थकरत्वं न लभते, अन्तक्रियां पुनः कुर्यात्, धूमप्रभापृथिवीनैरयिकोऽन्तक्रियामपि न करोति, सर्वविरतिं पुनर्लभते, तमः -प्रभापृथिवीनैरयिकः सर्वविरतिमपि न लभते, विरत्यविरतिं - देशविरतिं पुनर्लभते, अधः सप्तमपृथिवीनैरयिकः पुनस्तामपि देशविरतिं न लभते, यदि परं सम्यकत्वमात्रं लभते । ११५ असुरादयो यावद्वनस्पतिकाया अनन्तरमुद्वृत्ताः तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः । वसुदेवचरिते पुनर्नागकुमारेभ्योऽप्युद्वृत्तोऽनन्तरमैरावतक्षेत्रेऽस्यामेवावसर्पिण्यां चतुविंशतितमस्तीर्थकर उपदर्शितः, तदत्र तत्त्वं केवलिनो विदन्ति । तेजोवायवोऽनन्तरमुद्वृत्ताः अन्तक्रियायामपि न कुर्वन्ति, मनुष्येषु तेषामानन्तर्येणोत्पादाभावाद्, अपि च ते तिर्यक्षूत्पान्नाः केवलिप्रज्ञप्तं धर्मं श्रवणतया लभेरन्, न तु बोधत इत्युक्तं प्राकू, वनस्पतिकायिका अनन्तरमुद्वृ त्तास्तीर्थकरत्वं न लभन्ते, अंतक्रियां पुनः कुर्युः, द्वित्रिचतुरिन्द्रिया अनन्तरमुवृ त्तास्तामपि न कुर्वन्ति, मनःपर्यायज्ञानं पुनरुत्पादयेयुः, तिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्का अनन्तरमुद्वृ त्तास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः, सौधर्मादयः सर्वार्थसिद्धिपर्यवसाना नैरयिकवद्वक्तव्याः । गतं तीर्थकरद्वारं सम्प्रति चक्रवर्त्तित्वादीनि द्वाराण्युच्यन्ते -: पर्व - २०, वाराणि (६.... ९) चक्रवर्ती आदि : मू. (५०६) रयणप्पभापुढविनेरइए णं भंते! अनंतरं उच्चट्टित्ता चक्कवट्टित्तं लभेजा, गो० ! अत्थे० लभेज्जा अत्थे० नो लभेजा, से केणट्टेणं भंते ! एवं वु० ?, गो० ! जहा रयणप्पभापुढविनेरइयस्स तित्थगरत्तं । सक्करप्पभानेरइए अनंतरं उवट्टित्ता चक्कवट्टित्तं लभेजा ?, गो० ! नो० ति०, एवं जाव अधेसत्तमापुढविनेरइए, तिरियमणुएहिंतो पुच्छा, गो० ! णो० ति०, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy