SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ १०३ पदं-१८, उद्देशकः, द्वार-११ विभङ्गज्ञानं सामान्यविषयमधिदर्शनं, यथा सम्यग्दृष्टेः विशेषविषयमवधिज्ञानं सामान्यविषयमवधिदर्शनमुच्यते केवलं विभङ्गज्ञानिनोप्यवधिदर्शनं, यथा सम्यग्दृष्टेः विशेषविषयमवधिज्ञानं सामान्यविषयमवधिदर्शनमुच्यत केवलं विभङ्गज्ञानिनोप्यवधिदर्शनमनाकारमात्रत्वेनाविशिष्टत्वात् अवधिज्ञानिनोऽवधिदर्शनतुल्यमिति तदप्यवधिदर्शनमुच्यते, न विभङ्गदर्शनमिति, आह च मूलटीकाकारोऽप्येतद्भावनायाम्-“दंसणंच विभंगोहीणंजतोतुल्लमेव, अतो चेवदोछावट्ठीओ साइरेगाओ' इति, ततोऽस्माभिरपि विभेङ्गेऽवधिदर्शनंभावितं, कार्मग्रन्थिकाः पुनराहुः-यद्यपि साकारेतरविशेषभावेन विभङ्गज्ञानमवधिदर्शनंचपृथगस्तितथापिनसम्यग्निश्चयो विभङ्गज्ञानेन, मिथ्यात्वरूपत्वात्, नाप्यवधिदर्शनेन तस्यानाकारमात्रत्वादतःकिं तेन पृथग्विवक्षितेनापीति तदभिप्रायेण न विभङ्गावस्थायामवधिदर्शनं, न चैतत् स्वमनीषिकाविजृम्भितं, पूर्वसूरिभिरप्येवं मतविभागस्य व्यवस्थापितत्वात्, उक्तं च विशेषणवत्यं जिनभद्रगणिक्षमाश्रमणपूज्यापादै:॥१॥ “सुत्ते विभंगस्सविपरूवियं ओहिदसणं बहुसो। कीस पुणो पडिसिद्धं कम्मप्पगडीपगरणंमि॥ ॥२॥ विभंगेवि दरिसणं सामण्णविसेसविसयओ सुत्ते। तंचऽविसिट्ठमनागारमेत्तं तोऽवहिविभंगाणं ।। कम्मपगडीमयं पुन सागरेयरविसेसमावेवि। नविभंगनाणदंसणविसेसणमणिच्छयत्तणओ।" इति, __ अन्येतुव्याचक्षते-किं सप्तमनरकपृथिवीनिवासिनारककल्पनया?, सामान्येनैव नारकतिर्यग्नरामरभवेषु पर्यटतः खल्ववधिविभङ्गौ एतावन्तं कालं भवतस्तत उर्ध्वंभपवर्ग इति । केवलदर्शनिनः सूत्रं केवलज्ञानिनः सूत्रवद्भावनीयं, । गतं दर्शनद्वारम्, इदानीं संयतद्वारं, तत्रेदमादिसूत्रम - पदं-१८, दारं-१२ "संयतः":मू. (ver) संजएणं भंते! संजतेत्तिपुच्छा, गो० ज० एगसमयंउक्को० देसूणंपुव्वकोडिं, असंजते गंभंते! असंजएत्ति, पुच्छा, गो०! असंजतेतिविधेपं०, तं०-अणातीएवाअपजवसिते अणातीए वा सपञ्जवसिते सातीए वा सपञ्जव सिते, तत्थ णं जे से सातीए सपज्जवसिते से जह० अं० उक्को० अनं० अनंताओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्ततो अवडं पोग्गलपरियट्ट देसूणं, संजतासंजते णं पुच्छा, गो० ! जह० अंतो० उक्को० देसूणं पुव्वकोडिं, नोसंजतेनोअसंजतेनोसंजतासंजते णं पुच्छा, गो० ! सादीए अपञ्जवसिते।। वृ. 'संजए णं भंते' इत्यादि, जघन्यत एकसमयता संयतस्य चारित्रपरिणामसमय एव कस्यापिकालकरणात, असंयतस्तुत्रिधा-अनाद्यपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्र यः संयमकदाचनापि न प्राप्स्यति सोऽनाद्यपर्यवसितो, यस्तुप्राप्यस्यतिसोऽनादिसपर्यवसितो, यस्तु संयमं प्राप्य ततः परिभ्रष्टः स सादिसपर्यवसितः, सच जघन्येनान्तर्मुहूर्त, ततः परंकस्यापिपुनरपि संयमप्रतिपत्तिभावातू, उत्कर्षतोऽनन्तंकालमित्यादिप्राग्वत्तत ऊर्ध्वमवश्यं संयमप्राप्तिः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy