________________
पदं - १८, उद्देशक:-, द्वारं - २,
अंतोमुहुत्तं, एवं जाव देवी अपजत्तिया ।
नेरइयपत्तणं भंते! नेरइयपजत्तएत्ति कालतो केवच्चिरं होइ ?, गोयमा ! जहनेणं दस वाससहस्साइं अंतीमुहुत्तूणाई उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई ।
तिरिक्खजोणियपञ्जत्तए णं भंते! तिरिक्खजोणियपज्जत्तएत्ति कालतो केवचिरं होइ ?, गोयमा ! जहत्रेणं अंतोमुहुत्तं उक्कोसेणं तिनि पलिओवमाई अंतोमुहुत्तूणाई, एवं तिरिक्खजोणिणिपज्जत्तियावि, एवं मणुस्सेवि मणुस्सवी, एवं चैव देवपजत्तए जहा नेरइयपञ्जत्तए, देवीपञ्जत्तिया णं भंते! देवीपजत्तियत्ति कालतो केवचिरं होइ ?, गोयमा ! जहनेणं दस वाससहस्साइं अंतोमुहुत्तूणाई उक्कोसेणं पणपन्नंपलिओवमाई अंतोमुहुत्तूणाई ॥
वृ. सम्प्रति तस्यैव जीवस्य नैरयिकत्वादिपर्यायैरादिष्टस्य तैरेव पर्यायैरव्यवच्छेदेनावस्थानं चिन्तयन्नाह - 'नेरइएणं भंते!' इत्यादि, सुगमं, नवरं नैरयिकास्तथाभवस्वाभाव्यात् स्वभवाच्युत्वा अनन्तरं न भूयो नैरयिकत्वेनोत्पद्यन्ते, ततो यदेव तेषां भवस्थितेः परिमाणं तदेव कायस्थितेरपि इत्युपपद्यते जघन्यत उत्कर्षतश्च यथोक्तपरिमाणा कायस्थितिः ।
'तिरिक्खजोणिए णं भंते !' इत्यादि, तत्र यदा देवो मनुष्यो नैरयिको वा तिर्यक्षुत्पद्यते तत्र चान्तुहुर्त स्थित्वा भूयः स्वगतौ गत्यन्तरे वा सङ्क्रामति तदा लभ्यते जघन्यतोऽन्तर्मुहूर्तप्रमाणा कायस्थितिः, उत्कर्षतोऽनन्तरं कालं यावत्, तस्य चानन्तस्य कालस्य प्ररूपणा द्विधा, तद्यथाकालतः क्षेत्रतश्च तत्र कालतोऽनन्ता उत्सर्पिण्यवलसर्पिणयः, उत्सर्पिणयवसर्पिणीपरिमाणं च नन्द्यध्ययनटीकातोऽवसेयं तत्र सविस्तरमभिहितत्वात्, क्षेत्रतोऽनन्तालोकाः, किमुक्तं भवति ? - अनन्तेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे क्रियमाणे यावत्योऽनन्ता उत्सर्पिण्यवसर्पिण्यो भवन्ति तावतीर्यावत् तिर्यक् तिर्यकत्वेनावतिष्ठते,
८७
एतदेव कालपरिमाणं पुद्गलपरावर्त्तसङ्ख्यातो निरूपयति- असङ्घयेयाः पुद्गलपरावर्त्ताः, पुद्गलपरावर्त्तस्वरूपं च पञ्चसङ्ग्रहटीकायां विस्तरतरकेणाभिहितचमिति ततोऽवधार्यं, इह तु नाभिधीयते, ग्रन्थगौरवभयात्, असङ्ख्याता अपि पुद्गलपरावर्त्ताः कियन्त इति विशेषसङ्ख्यायनिरूपणार्थमाह- 'ते णं' इत्यादि, ते पुद्गलपरावर्त्ता आवलिकाया असङ्घयेयभागः, किमुक्तं भवति ? - आवलिकाया असङ्घयेयतमे भागे यावन्तः समयास्तावत्प्रमाणा असङ्घयेयाः पुद्गलपरावर्त्ता इति एतच्चैवं कायस्थितिपरिमाणं वनस्पत्यपेक्षया द्रष्टव्यं न शेषतिर्यगपेक्षया, वनस्पतिव्यतिरेकेण शेषतिरश्चामेतावत्कालप्रमाणकायस्थितेरसंभवात्,
‘तिरिक्खजोणिणी णं भंते !' इत्यादि, इहोत्तरत्र च जघन्यान्तर्मुहूर्त भावना प्रागुक्तान्तमुहूर्त भावनानुसारेण स्वयं भावनीया, उत्कर्शतस्त्रीणि पल्योपमानि पूर्वकोटीपृथकत्वाभ्यधिकानि, कथं इति चेत् ?, उच्यते, इह तिर्यङ्गनुष्याणां संज्ञीपञ्चेन्द्रियाणामुत्कर्षतोऽप्यष्टौ भवाः कार्यस्थितिः "नरतिरियाण सत्तट्ठ भवा" इति वचनात्, तत्रोत्कर्षस्य चिन्तयमानत्वात् अष्टावपि भवा यथासंभवमुत्कृष्टस्थितिकाः परिगृह्यन्ते, असङ्घयेयवर्षायुष्कस्तु मृत्वा नियमतो देवलोकेषूत्पद्यते न तिर्यक्षु, ततः सप्त भवाः पूर्वकोट्यायुषो वेदितव्याः अष्टमस्तु पर्यन्तवर्त्ती देवकुर्वादिष्विति त्रीणि पल्योपमानि पूर्वकोटीपृथकत्वाभ्यधिकानि भवन्ति - 'एवं मणुस्सेवि मणुस्सीवि' इति,
एवं तिर्यक्स्त्रीगतेन प्रकारेण मनुष्योऽपि मानुष्यपि च वक्तव्या, किमुक्तं भवति मनुष्यसूत्रे,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International