________________
पदं-१७, उद्देशकः-३, द्वारनैरयिकः सप्तमपृथिवीगतं कृष्णलेश्याकमतिमन्दानुभागावधिनैरयिकमपेक्ष्यातिप्रभूतं पश्यति, मागधिकत्रिगुणक्षेत्रसम्भवात् ।।
सम्प्रतिनीललेश्याकविषयं सूत्रमाह-'नीललेसेणंभंते! नेरइएकण्हलेसंनेरइयंपणिहाए' इत्यादि, अक्षरगमनिका सुगमा, नवरं 'वितिमिरतरागं खत्तं जाणइ' इति विगतं तिमिरंतिमिरसम्पाद्यो भ्रमो यत्र तद्वितिमिरं, इदं वितिमिरमदं वितिमिरमनयोरतिशयेन वितिमिरं वितिमिरतरं 'द्वयोर्विभज्ये तरबि'तितरप्प्रत्ययः, ततः प्राकृतलक्षणात् स्वार्थे कप्रत्ययः पूर्वस्य च दीर्घत्वं, अत एव विशुद्धतरं-निर्लमतरं अतीव स्फुटप्रतिभासमितियावत्, भावना त्वियं यथा घरणितलगतं पुरुषमपेक्ष्य पर्वतारूढः पुरुषो ऽतिदूरं क्षेत्रं पश्यति तदपि प्रायः स्फुटप्रतिभासं तथा विवक्षितोऽपि नीललेश्याको नैरयिको योग्यतानुसारेणातिविशुद्धावधिः कृष्णलेश्याकं नैरयिकमपेक्ष्यातिदूरंवितिमिरतरंस्फुटप्रतिभासंच क्षेत्रंजानातीति, अत्र पर्वतस्थानीया उपरितनी तृतीया पृथिवी अतिविशुद्धा च स्वभूमिकानुसारेण नीललेश्या घरणितलस्थानीया अधस्तनी कृष्णलश्या चक्षुःस्थानीयमवधिज्ञानमिति ॥ सम्प्रति नीललेश्याकमपेक्ष्य कापोतलेश्याविषयं सूत्रमाह- 'काउलेस्सेणं भंते! नेरइए नीलसेस्सं नेरइयं पणिहायेत्यादि, अक्षरगमनिका सुगमा, नवरं 'दोविपाए उच्चावइत्ता' इति द्वावपि पादौ उच्चैः कृत्वा, द्वावपि पाष्णी उत्पाटयेत्यर्थः, भावना त्वियं यथा पर्वतस्योपरि वृक्षमारूढः सर्वतः समन्तादवलोकमानोबहुतरं पश्यति स्पष्टतरंच तथा कापोतलेश्यो नैरयिकोऽपरं नीललेश्याकमपेक्ष्य प्रभूतं क्षेत्रमवधिना जानाति पश्यति च तदपि च स्पष्टतरमिति, इह वृक्षस्थानीया कापोतलेश्या उपरितनी चपृथिवी पर्वतस्थानीया नीललेश्या तृतीया च पृथिवी चक्षुःस्थानीयमवधिज्ञानमिति॥
सम्प्रति का लेश्याः कतिषु ज्ञानेषु लभ्यन्ते इति निरूपयितुकाम आह
मू. (४६१) कण्हलेसे गं भंते ! जीवे कइसु नाणेसु होजा?, गो० ! दोसु वा तिसु वा चउसु वा नाणेसु होजा, तिसु होमाणे आभिनिबोहियसुयनाणे होजा, तिसुहोमामे आभिनिबोहियसुयनाणओहिनाणेसुहोजा, अहवा तिसु होमाणे आभिनिबोहियसुयनाणमनपजवनाणेसु होजा, चउसु होमाणे आभिनिबोहियसुयओहिमनपजवनाणेसु होजा, एवं जाव पम्हलेसे,
सुक्कलेसेणं भंते ! जीवे कइसु नाणेसु होजा?, गो० ! दोसु वा तिसु वा चउसु वा होजा, दोसु होमाणे आभिनिबोहियनाण एवं जहेव कण्हलेसाणं तहेव भाणियब्वं जाव चउहि, एगमि नाणे होजा, एगमि केवलनाणे होजा (पन्नवणाए भगवइएलेस्सापए तइओ उद्देसओ समत्तो।।)
वृ. 'कण्हलेसेणंभंते! जीवेकइसुनाणेसु होज्जा' इत्यादि प्रश्नसूत्रसुगमं, भगवानाह-गौतम द्वयोस्त्रिषु चतुर्युचज्ञानेष। भवति, तत्र द्वयोराभिनिबोधिकश्रुतज्ञानयोः त्रिषुआभिनिबोधिकश्रुतावधज्ञानेषुयदिवाऽऽभिनिबोधिकश्रुतमनःपर्यायज्ञानेषु, इहावधिरहितस्यापिमनः"पर्यवज्ञानमुपजायते, सिद्धप्राभृतादावनेकशस्तथा प्रतिपादनात्, अन्यच्च विचित्रा प्रतिज्ञानंतदावरणक्षयोपशमसामग्री, तत्र कस्यापि चारित्रिणोऽप्परमत्तस्यामाँषध्याद्यन्यतमकतिपयलब्धिसमन्वितस्य मनःपर्यायज्ञानावरणक्षयोपशमनिमित्ता सामग्री तथारूपाध्यवसायादिलक्षणा सम्पद्यते न त्ववधित्रानावरणक्षयोपशमनिमित्ता ततस्तस्य मनःपर्यवज्ञानमेव भवति, ननु मनःपर्यवत्रानमतिविशुद्धस्योपजायते कृष्णलेश्या च संक्लिष्टाध्यवसायरूपा ततः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org