________________
६८
प्रज्ञापनाउपाङ्गसूत्रम् - २- १७/३/-/४६०
विसुद्धतरागं खेत्तं जाणइ विसुद्धतरागं खेत्तं पासइ,
सेकेणणं भंते! एवं वुइ- नीललेसे णंनेरइए कण्हलेस नेरइयं पणिहाय जाव विसुद्धतरागं खेत्तं जाणइ विसुद्ध तरागं खेत्तं पासइ ?, से जहा नामए केइ पुरिसे बहुसमरमणिज्जाओ भूमिभागाओ पव्वयं दुरूहित्ता सव्वओ समंता समभिलोएज्जा तए णं से पुरिसे घरणितलगयं पुरिसं पणिहाय सव्वओ समंता समभिलोएमाणे २ बहुतरागं खेत्तं जाणइ जाव विसुद्धतरागं खेत्तं पासइ, से तेणट्टेणं गोयमा ! एवं वुइ- नीललेस्से नेरइए कण्हलेस जाव विसुद्धतरागं खेत्तं पासइ,
--
काउलेस्से णं भंते ! नेरइए नीललेस्सं नेरइयं पणिहाय ओहिणा सव्वओ समंता समभिलोएमाणे २ केवतियं खेत्तं जाणइ पासइ ?, गो० ! बहुतरागं खेत्तं जाणइ पासइ जाव विसुद्धतरागं खेत्तं पासति, से केणट्टेणं भंते! एवं बु० - काउलेस्से णं नेरइए जाव विसुद्धतरागं खेत्तं पासइ ?, गो० से जहा नामए केइ पुरिसे बहुसमरमणिज्जाओ भूमिभागाओ पव्वयं दुरुहइ २ दोवि पाए उच्चाविया (वइत्ता) सव्वओ समंता समभिलोएञ्जा तए णं से पुरिसे पव्वगयं धरणितलगयं च पुरिसं पणिहाय सव्वओ समंता समभिलोएमाणे बहुतरागं खेत्तं जाणइ बहुतरागं खेत्तं पासइ जाव वितिमिरतरागं पासइ, से तेणट्टेणं गोयमा ! एवं वुइ-काउलेस्से णं नेरइए नीललेस्सं नेरइयं पणिहाय तं चैव जाव वितिमिरतरागं खेत्तं पासइ ॥
वृ. 'कण्हलेसे णं भंते!' इत्यादि, कृष्णलेश्यो भदन्त कश्चिनैरयिकोऽपरं कृष्णलेश्याकं प्रणिधाय - अपेक्ष्यावधिना अवधिज्ञानेन सर्वतः सर्वासु दिक्षु समन्ततः - सर्वासु विदिक्षु समभिलोकमानो - निरीक्षणमाणः कियत्- किंपरिमाणं क्षेत्रं जानाति कियट्टा क्षेत्रमवधिदर्शनेन पश्यति भगवानाह - गौतम ! न बहुक्षेत्रं जानाति नापि बहुक्षेत्रं पश्यति, किमुक्तं भवति ? - अपरं कृष्णलेश्याकं नैरयिकमपेक्ष्य न विवक्षितः कृष्णवलेश्याको योग्यतानुसारेणातिविशुद्धोऽपि नैरयिकोऽतिप्रभूतं क्षेत्रमविधिना जानाति पश्यति, तदेवाह-न दूरम् - अतिविप्रकृष्टं क्षेत्रं जानाति नाप्यतिविप्रकृष्टं क्षेत्रं पश्यति, किं तु इत्वरमेव स्वल्पमेवाधिकं क्षेत्रं जानाति इत्वरमेवाधिकं क्षेत्रं पश्यति, एतच्च सूत्रं समानपृथिवीककृष्णलेश्यनैरयिकविषयमवसेयमन्यथा व्यभिचारसम्भवात्, तथाहि
सप्तमपृथिवीगतः कृष्णलेश्याको नैरयिको जघन्यतो गव्यूतार्द्धं जानाति उत्कर्षतो गव्यूतं, षष्ठपृथिवीगतः कृष्णलेश्याको जघनयतो गव्यतमुत्कर्षतः सार्द्ध पञ्चमपृथिवीगतः कृष्णलेश्याको जघन्यतः सार्द्धं गव्यूतमुत्कर्षतः किञ्चिदूने द्वे गव्यते, ततो द्विगुणत्रिगुणाधिकक्षेत्रमसंमवाद् भवत्यधिकृतसूत्रस्य व्यभिचारः, यथा समानपृथिवीकमपरं कृष्णलेश्याकं न२ रयिकमपेक्ष्यातिविशुद्धोऽपि कृष्णलेश्याको नैरयिको मनागधिकं पश्यति नातिप्रभूतं तथा दृष्टान्तेनोपपिपदयिषुराह - 'सेकेणणं भंते!' इत्यादि, इयमत्र भावना--यथा समभूभागव्यवस्थित एव कश्चित् विवक्षितः पुरुषः चक्षुर्नैर्मल्यवशात् मनागधिकं पश्यति न प्रभूततरं तथा विवक्षितोऽपि कश्चित् कृष्णलेश्याको नैरयिकः स्वभूमिकानुसारेणातिविशुद्धोऽपि समानपृथिवीकमपरं कृष्णले श्याकं नैरयिकमपेक्ष्य यदि परमवधिना मनागधिकं पश्यति न तु प्रभूततरं, अत्र समभूभागस्थानीया समाना पृथिवी स्वभूमिकासमाना च कृष्णरूपा लेश्या चक्षश्रुः “स्थानीयमवधिज्ञानमेतावता चैतदपि ध्वनितं-यथा समभूभागव्यवस्थितः पुरुषः सर्वतः समन्तादभिलोकमानो गर्त्तागतं पुरुषमपेक्ष्यातिप्रभूततरं पश्यति तथा पञ्चमपृथिवीगतः स्वभूमिकानुसारेणातिविशुद्धः कृष्णलश्याको विवक्षितोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org