________________
प्रज्ञापनाउपाङ्गसूत्रम्-२-१७/३/-/४५९ ॥२॥ नारकव्यतिरिक्तश्च, नरके नोपपद्यते ।
नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते ।।" इत्यादि, ‘एवं जाव वेमाणिए' एवं-नैरयिकोक्तप्रकारेण तावद्वक्तव्यं यावद्वैमानिकोवैमानिकविषयं सूत्रं, तच्च सुगमत्वात् स्वयं परिभावनीयं ॥
अधुना उद्वर्तनाविषयंनैरयिकेषुसूत्रमाह-'नेरइएणंभंते!' इत्यादि, एतदपि ऋजुसूत्रनयदर्शनेन वेदितव्यं, तथाहि-परभवायुषि उदयमागते तत उद्वर्त्तते यद्भवायुश्चोदयमागतं तेन भवेन व्यपदेशः, यथा नारकायुषि उदयमागते नारकभवेन नारक इति, ततो नैरयिकेभ्योऽनैरयिक एवोद्वर्तते न नैरयिक इति।एवं चतुर्विंशतिदण्डकक्रमेण तावत्सूत्रं वक्तव्यं यावद्वैमानिकविषयं, नवरंज्योतिष्कवैमानिकविषयेच्यवनंइत्यभिलापः वक्तव्यः, तेभ्य उद्वर्तनस्य च्यवनमिति प्रसिद्धेः, तथा चाह-‘एवं जाव वेमाणिए नवर'मित्यादि ।।
___ अधुना कृष्णलेश्याविषयमुत्पत्ती सूत्रमाह- से नूनं भंते!' इत्यादि, सेशब्दोऽथशब्दार्थः स चेह प्रश्ने नूनं-निश्चितमेतत् भदन्त ! कृष्णलेश्यो नैरयिकः कृष्णलेश्येषु नैरयिकेषु मध्ये उत्पद्यते तेभ्यश्च कृष्णवलेश्येभ्यो नैरयिकेभ्य उद्वर्तमानः कृष्णलेश्य एवोद्वर्तते, एतदेव निश्चयदाढ्योत्पादनार्थ प्रकारान्तरेणाह-यल्लेश्य उत्पद्यते तल्लेश्य उद्वर्तते न लेश्यान्तरगत इति भगवानाह-'हंता गोयमा!' इत्यादि, हन्तेत्यनुमतौ अनुमतमेतत् मम गौतम! _ 'कण्हलेसेसुनेरइए' इत्यादि, अथ कथं कृष्णलेश्यःसन् कृष्णलेश्यषु नैरयिकेषूत्पद्यतेन लेश्यान्तरोपेतः?, उच्यते, इह तिर्यक्पञ्चेन्द्रियोमनुष्योवा बद्धायुष्कतया नरकेषूत्पत्ति(तितुकामो यथाक्रमं तिर्यगायुषि मनुष्यायुषि च साकल्येनाक्षीणेऽन्तर्मुहूर्त्तशषे यल्लेश्येषु नरकेषूत्पत्स्यते तद्गतलेश्यया परिणमति, ततस्तेनैवाप्रतिपतितेन परिणामेन नरकायुःप्रतिसंवेदयते, तत उच्यते कृष्णलेश्यः कृष्णलेश्येषु नैरयिकेषूत्पद्यतेनलेश्यान्तरयुक्तः, अथ कथं कृष्णलेश्याक एवोद्वर्तते उच्यते, देवनैरयिकाणां हि लेश्यापरिणाम आभवक्षयाद्भवति, एतच्च प्रागेवप्रपञ्चत उपपादितं, एवं नीललेश्याविषयं कापोतलेश्याविषयं च सूत्रं वक्तव्यं, एवं असुरकुमारादीनामपि सनत्कुमारपर्यवसानानां वक्तव्यं, नवरंतेजोलेश्यासूत्रतत्राभ्यधिकमभिधेयं, तेजोलेश्याया अपि तेषां भावात् ।।
अधुनापृथिवीकायिकेषु कृष्णलेश्याविषयं सूत्रमाह-‘से नूनं भंते!' इत्यादि, इह तिरश्चा मनुष्याणां च लेश्यापरिणाम आन्तर्मुहूर्तिकस्ततः कदाचित्यल्लेश्य उद्वर्ततते कदाचिल्लेश्यान्तरपरिणतोऽपि उद्वर्तते, एष पुनर्नियमो यो यल्लेश्येषूत्पद्यते स नियमतस्तल्लेश्य एवोत्पद्यते, ॥१॥ “अंतमुहुत्तम्मि गए अंतमुहुत्तम्मि सेसए आउं (चेव)।
लेसाहिं परिणयाहिं जीवा वचंति परलोयं ।।" इति वचनात्, तत उक्तं 'गोयमा ! कण्हलेसे पुढविकाइए कण्हलेसेसु पुढविकाइएसु उववज्जइ सिय कण्हलेसे उव्वट्टइ' इत्यादि, एवं नीललेश्याविषयं कापोतलेश्याविषयं च सूत्रं वक्तव्यं, तथा यदा भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवाः तेजोलेश्यावन्तः स्वभवाच्युत्वा पथिवीकायिकेषूत्पद्यन्ते तदा कियत्कालमपर्याप्तावस्थायांतेषुतेदजोलेश्याऽपि लभ्यते तत ऊद्धर्वं उन भवति, तथा भवस्वभावतया तेजोलेश्यायोग्यद्रव्यग्रहणशक्त्यसम्भवात्, ततस्तेजोलेश्यासूत्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org