SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ पदं-१७, उद्देशकः-२, द्वार ५७ प्राकृतत्वात्तृतीयायामपि कतरेहिंतोनिर्देशोऽयं भवतीत्येवं व्याख्यायामदोषः, तथा कतरेकतरेभ्यो विशेषाधिकाः?, एवं गौतमेन प्रश्ने कृते भगवानाह-- गौतम! सर्वस्तोकाः शुकललेश्याः,शुक्ला शुक्लद्रव्यजनिती वा लेश्या येषां तेशुक्ललेश्याः, एवं शेषपदेष्वपि विग्रहभावना कार्या, सर्वस्तोकाः, कतिपयेषु पञ्चेन्द्रियतिर्यक्षु मनुष्येषु च लान्तकादिदेवेषुच तस्याः सद्भावात्, तेभ्यः पद्मलेश्याः सङ्खयेगुणाः, सङ्खयेयगुणेषुतिर्यक्पञ्चेन्द्रियेषु मनुष्येषु सनत्कुमारमाहेन्द्रब्रह्मलोककल्पवासिषु च देवेषुपद्मलेश्याभावात्, अथलान्तकादिदेवेभ्यः सनत्कुमारादिकल्पत्रयवासिनो देवा असङ्ख्यातगुणाः ततः शुक्ललेश्येभ्यः पद्मलेश्याः असङ्ख्येयगुणाः प्राप्नुवन्ति कथं सङ्घयेयगुणा उक्ताः?, उच्यते, इह जघन्यपदेऽप्यसङ्ख्यातानां सनत्कुमारादिकल्पत्रयवासिदेवेभ्योऽसङ्घयेयगुणानां पञ्चेन्द्रियतिरश्चांशुक्ललेश्या ततः पद्मलेश्याचिन्तायां सनत्कुमारादिदेवप्रक्षेपेऽप्यसङ्खयेयगुणत्वं न भवति किं तु यदेव तिर्यक्पञ्चेन्द्रियापेक्षयैव सङ्ख्येयगुणत्वं तदेवास्तीति। मू. (४५३) एतेसिणं भंते! जीवाणं सलेस्साणंकण्हलेसाणंजाव सुक्कलेसाणं अलेस्साण य कयरे २ अप्पा वा ४ ?, गो० ! सव्वत्थोवा जीवा सुक्कलेस्सा पम्हलेस्सा संखेजगु० तेउलेस्सा संखेजगु० अलेस्साअनंतगु० काउलेसाअनंतगु० नीललेसा विसेसाहिया कण्हलेसा विसेसाहिया लेस्सा विसेसाहिया। वृ.सङ्खयेयगुणाःशुक्ललेश्यभ्यः पद्मलेश्याः, तेभ्योऽपि सङ्घयेयगुणाः तेजोलेश्या,बादरपृथिव्यपप्रत्येकवनस्पतिकायिकेषुसङ्ख्येयगुणेषुतिर्यक्पञ्चन्द्रियमनुष्येषुभवनपतिव्यन्तरज्योतिष्कतसौधर्मेशानदेवेषुचतेजोलेश्याभावात्, भावना सङ्घयेयगुणत्वे प्राग्वदत्रापि कर्तव्या, तेभ्योऽप्यनन्तगुणा अलेश्याः, सिद्धानामलेश्यानां प्राक्तनेभ्योऽनन्तगुणत्वात्, तेभ्योऽपि कापोतलेश्या अनन्तगुणाः, सिद्धेभ्योऽप्यनन्तगुणानां वनस्पतिकायिकानां कापोतलेश्यावतां सद्भावात्, तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, क्लिष्टक्लिष्टतराध्यवसायानां प्रभूततराणां सद्भावात्, कृष्णलेश्येभ्योऽपि सलेश्या विशेषाधिकाः नीललेश्यादीनामपितत्र प्रक्षेपात् तदेवं सामान्यतोऽल्पबहुत्वं चिन्तितं, सम्प्रति नैरयिकेषु तदल्पबहुत्वं चिन्तयन्नाह मू. (४५४) एएसिणं भंते ! नेरइयाणं कण्हलेसाणं नीललेस्साणं काउलेस्साण य कयरे २ हिंतो अप्पा वा ४?, गो०! सव्वधोवा नेरइया कण्हलेसा नीललेसा असं० काउले० असं० । वृ. 'एएसिणंभंते! नेरइयाण'मित्यादि, नैयरिकाणां हि तिस्प्रे लेश्याः, तद्यथा-कृष्णलेश्या नीललेश्या कापोतलेश्या, उक्तंच॥१॥ “काउय दोसु तईयाए मीसिया नीलिया चउत्थीए। पंचमियाए मिस्सा कण्हा तत्तो परमकण्हा ।।" ततोऽत्रत्रयाणामेवपदानांपरस्परमल्पबहुत्वचिन्ता, तत्र सर्वस्तोकाः कृष्णलेश्यानैरयिकाः, कतिपयपञ्चमपृथिवीगतनरकावासेषुषष्ठयांसप्तम्यांचपृथिव्यांनैरयिकाणांकृष्णलेश्यासद्भावात, ततोऽसङ्खयेयगुणा नीललेश्याः, कतिपयेषुतृतीयपृथिवीगतनरकावासेषु चतुथ्यांसमस्तायां पृथिव्यां कतिपयेषु च पञ्चमपृथिवीगतनरकावासेषु नैरयिकाणां पूर्वोक्तेभ्योऽसङ्खयेयगुणानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy