________________
मू. (४१)
पदं-१, उद्देशकः-, द्वारंअथ के ते वृक्षाः ?, सूरिराह--वृक्षा द्विविधाः प्रज्ञप्ताः, तद्यथा-एकास्थिकाश्च बहुबीजकाच, तत्र फलं फलं प्रति एकमस्थि येषां ते एकास्थिकाः, चशब्दो वक्ष्यमाणस्वगतानेकभेदसूचकः, तथा प्रायोऽस्थिबन्धमन्तरेणैवमेव फलान्तर्वर्तीनि बहूनि बीजानियेषां ते वहुबीजकाः, शेषाद्वे' तिकप्रत्ययः,अत्रापि चशब्दोवक्ष्यमाणस्वगतानेकभेदसूचकः॥तत्रैकास्थिकप्रतिपादनार्थमाहअथ के ते एकास्थिकाः ?, २ अनेकविधाः प्रज्ञप्ताः, तद्यथा-'निबंबे'त्यादि गाथात्रयं, मू. (३९) निबंबजंबुकोसंबसालअंकुल्ल पीलु सेलू य।
सल्लइमोइमालुय बउल पलासे करंजे य॥ मू. (४०) पुत्तंजीवयऽरिटे बिहेलए हरिडए य भिल्लाए।
उंवेभरिया खीरिणि बोद्धव्वे धायइ पियाले । पूइनिंबकरे सुण्हा तहसीसवा य असने य ।
पुन्नागनागरुक्खे सीवण्णि तहा असोगे य॥ वृ.तत्र निम्बाम्रजम्बुकोशम्बाःप्रतीताः शालः-सजः ‘अङ्कोल्ल'त्ति अङ्कोठः प्राकृतत्वात्सूत्रे ठकारस्यलादेशः, 'अङ्कोल्ल' इति वचनात्, पीलुः-प्रतीतः शेलुः-स्लेष्मातकः सल्लकी-गजप्रिया मोचकीमालुकौ देशविशेषप्रतीतौ बकुलः-केसरः पलाशः-किंशुकःकरो-नक्तमालः पुत्रजीवको-देशविशषप्रसिद्धः अरिष्ट:--पिचुमन्दःबिभीतकः-अक्षःहरीतकः-कोङ्कणदेशप्रसिद्धः कषायबहुलः भल्लातको यस्य भल्लातकाभिधानानि फलानि लोकप्रसिद्धानि उम्बेभरिकाक्षीरणीघातकीप्रियालपूति (निम्ब) करनश्लक्ष्णाशिंशपाऽशनपुन्नागनागश्रीपण्यशोका लोकप्रतीताः ।
मू. (४२) जे यावन्ने तहप्पगारा, एएसि णं मूलावि असंखेजजीविया कंदावि खंधावि तयावि सालाविपवालाविपत्ता पत्तेयजीविया पुप्फा अनेगजीविया फलाएगट्ठिया, सेतंएगट्टिया
वृ. 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः-एवंप्रकारास्तत्तद्देशविशेषभाविनः ते सर्वेऽप्येकास्थिका वेदितव्याः, एतेषाम्-एकास्थिकानां मूलन्यप्यसङ्खयेयजीवकानि-असङ्खयेयप्रत्येकशरीरजीवात्मकानि, एवं खन्दाअपि स्कन्धा अपि त्वचोऽपिशाखा अपि प्रवाला अपि प्रत्येकमसङ्खयेयप्रत्येकशरीरजीवकाः,
तत्र मूलानि यानि कन्दस्याघस्ताद् भूमेरन्तः प्रसरन्ति, तेषामुपरि कन्दास्ते च लोकप्रतीताः,स्कन्धाः स्थुडाः, त्वचः-छल्लयः शालाः-शाखाः प्रवालाः-पल्लवङ्कुराः, 'पत्ता पत्तेयजीवय'त्ति पत्राणि प्रत्येकजीविकानि-एकैकं पत्रमे (कै)केनजीवेनाधिष्ठितमिति भावः, 'पुष्फा अनेगजीविय'त्ति पुष्पानयनेकजीवानि, प्रायः प्रतिपुष्पपत्रं जीवभावात्, फलान्येकास्थिकानि, उपसंहारमाह-‘से तं एगट्टिया' सुगमं ।। बहुबीजकप्रतिपादनार्थमाह-- मू. (४२/१) से कंतं बहुबीयगा?, बहुबीयगा अनेगविहा पं० तं०
वृ.अथ के ते बहुबीजकाः?, सूरिराह-बहुबीजका अनेकविधाः प्रज्ञप्ताः,तद्यथामू. (४३) अस्थिय तेंदु कविढे अंबाडमाउलिंग बिल्ले या।
आमलग फणिस दालिम आसोठे उंबर वडे य ।। मू. (४४) नग्गोह नंदिरुक्खे पिप्परी सयरी पिलुक्खरुखे य ।
काउंबरि कुत्युंभरि बोद्धव्वा देवदाली य ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org