SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ पदं-१७, उद्देशकः-१, द्वारचहस्तमानतयाऽल्पशरीराणांत्रयस्त्रिंशद्वर्षसहस्पणित्रस्त्रिंशदेवचपक्षा इति, एषांचमहाशरीराणामभीक्ष्णाहारोच्छ्वासभिधानेनाल्पस्थितिकत्वमवसीयते इतरेषां तु विपर्ययः वैमानिकवदेवेति, अथवा लोमाहारापेक्षयाऽभीक्ष्णम्-अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायां उच्छ्वासस्तु यथोक्तमनानेनापि भवन् परिपूर्णभवापेक्षया पुनः पुनरित्युच्यते, अपर्याप्तकावस्थायां त्वल्पशरीरालोमाहारतोनाहारयन्ति ओजाहारतएवाहरणात्ततस्ते कदाचिदाहारयन्तीत्युच्यते, अपर्याप्तकावस्थायां च नोच्छ्वसन्ति अन्यधा तूच्छ्वसन्ति तत उच्यते आहच्चोच्छ्व सन्तीति ॥ कर्मसूत्रमाह–'असुरकुमाराणं भंते! सव्वे समकम्मा' इत्यादि, अत्र नैरयिकसूत्रापेक्षया विपर्यासः नैरयिका हि पूर्वोत्पना अल्पकाण उक्ता इतरे तु महाकाणः असुरकुमारास्तु ये पूर्वोत्पन्नास्ते महाकाणः इतरेऽल्पकम्मणः,कथमिति चेद्, उच्यते, इहासुरकुमाराः स्वभवादुध्धृतास्तिर्यसूत्पद्यन्ते मनुष्येषु च, तिर्यक्षुत्पद्यमानाः केचिदेकेन्द्रियेषु पृथिव्यब्वन्स्पतिषूत्पद्यन्ते केचित्पञ्चेन्द्रियेषु, मनुष्येष्वपिचोत्पद्यमानाः कर्मभूमिकगर्भव्युत्क्रान्तिकमनुष्येषूत्पद्यन्तेन शेषेषु षण्मासावशषायुषश्च सन्तः पारभविकमायुर्बध्नन्ति, पारभविकायुर्बन्धकाले च या एकान्ततिर्यग्योनिकयोग्याएकान्तमनुष्ययोग्या वा प्रकृतयस्ताउपचिन्वन्ति, ततः पूर्वोत्पन्नामहाकर्मतराः, येतुपश्चादुत्पन्नास्तेनाद्यापि पारभविकमायुर्बनध्नन्तिनापि तिर्यग्मनुष्ययोग्याः प्रकृतीरुपचिन्वन्ति ततस्तेऽल्पकर्मतराः, एतदपि सूत्रं समानस्थितिकसमानभवपरिमितासुरकुमारविषयमवसेयं, पूर्वोत्पन्नकाअपिबद्धपारभविकायु, पश्चादुत्पन्नाअपिअबद्धपारभविकायुषः स्तोककालन्तरिता ग्राह्याः,अन्यथा तिर्यग्मनुष्ययोग्यप्रकृतिबन्धेऽपिपूर्बोत्पन्नकात्पश्चादुत्पन्न उत्कृष्टस्थितिकोऽभिनवोत्पन्नोऽनन्तसंसारिकश्च महाकर्ममतर एव भवति। _ 'वर्णसूत्रे येतेपूर्वोत्पन्नकास्तेअविशुद्धवर्णतराः, कथमिति चेदुच्यते-एतेषां हि भवापेक्षः प्रशस्तवर्णनाम्नःशुभस्तीव्रानुभाग उदयः, सच पूर्वोत्पन्नानांप्रभूतः क्षयमुपगत इति तेअविशुद्धतरवर्णाः, इतरेतुपश्चादुत्पन्नतयानाद्यापि प्रभूतो निर्जीर्ण इति विशुद्धवर्णाः, एतच्च समानस्थितिकासुरकुमारविषयंसूत्रं, ‘एवं लेस्साएऽवी'ति एवंवर्णसूत्रवत् लेश्यासूत्रमपिवक्तव्यं, पूर्वोत्पन्नाः अविशुद्धलेश्या वक्तव्याः पश्चादुत्पन्ना विशुद्धलेश्या इति भावः, काऽत्र भावनेति चेदुच्यते-इह देवानां नैरयिकाणां च तथाभवस्वाभाव्यात् लेश्यापरिणाम उपपातसमयात्, प्रभृत्यामवक्षयाद् भवति, यतो वक्ष्यति तृतीये लेश्योद्देशके-‘से नूनं भंते ! कण्हलेसे नेरइए कण्हलेसेसु नेरइएसु उववज्जइ कण्हलेसे उवट्टइ ?, जल्लेसे उववज्झइ तल्लेसे उवट्टइ ?' इति, अस्यायं बावार्थःपञ्चेन्द्रियतिर्यग्योनिको मनुष्यो वा नरकेषूत्पद्यमानो यथाक्रमं तिर्यगायुषि मनुष्यायुषि वा क्षीणे नैरयिकाषुः संवेदयमान ऋजुसूत्रनयदर्शनेन विग्रहेऽपि वर्तमानो नारक एव लक्ष्यते तस्य च कृष्णादिलेश्योदयः पूर्वभवायुषि अन्तर्मुहूर्तावशेषशायुष्के एव वर्तमानस्य भवति, तथा चोक्तम्॥१॥ "अन्तमुत्तम्मि गए अन्तमुत्तम्मि सेसए चेव । लेस्साहि परिणयाहिं जीवा वच्चंति परलोयं ।।" एवंदेवेष्वपि भावनीयं, तथा लेश्याध्ययने नेरयिकादिषु कृष्णादिलेश्यानां जघन्योत्कृष्टा च स्थितिरियमुक्ता[114] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy