SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३२ प्रज्ञापनाउपाङ्गसूत्रं - १- १/-1-/28 या विधानानि - भेदाः, तद्यथा-वर्णाः कृष्णादिभेदात्पञ्च गन्धौ सुरभीतरभेदाद्वौ रसाः तिक्तादयः पञ्च स्पर्शा मृदुकर्क शादयोऽष्टौ, एकैकस्मिंश्च वर्णादौ तारतम्यभेदेनानेकेऽवान्तरभेदाः, तथाहि - भ्रमरकोकिलकज्ञ्जलादिषु तरतमभावात् कृषणकृष्णतरकृष्णतमेत्यादिरूपतया अनेके कृष्णभेदाः, एवं नीलादिष्वप्यायोज्यं, तथा गन्धरसस्पर्शेष्वपि, तथा परस्परं वर्णानां संयोगतो घूसरकर्बुरत्वादयोऽनेकसङ्ख्या भेदाः, एवं गन्धादीनामपि परस्परं गन्धादिभिः समायोगाद्, अतो भवन्ति वर्माद्यादेशैः सहस्राग्रशो भेदाः, 'सज्जाई जोणिप्पमुहसयसहस्साई 'ति सङ्घयेयानि योनिप्रमुखाणि - योनिद्वाराणि शतसहस्राणि, तथाहि एकैकस्मिन् वर्णे गन्धे रसे स्पर्शे च संवृता योनिः पृथिवीकायिकानां, सा पुननधासचित्ता अचित्ता मिश्रा च पुनरेकैका त्रिधा - शीता उष्णा शीताष्णा, शीतादीनामपि प्रत्येकं तारतम्यभेदादनेकभेदत्वं, केवलमेवं विशिष्टवर्णादियुक्ताः सङ्ख्यातीता अपि स्वस्थाने व्यक्तिभेदेन योनयो जातिमधिकृत्यैकैव योनिर्गण्यते, ततः सङ्घयेयानि पृथिवीकायिकानां योनिशतसहस्राणि भवन्ति, तानि च सूक्ष्मबादरगतसर्वसङ्ख्यया सप्त, 'पज्जत्तगनिस्साए ' इत्यादि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति - उत्पद्यन्ते, क्रियन्त इत्याह-यत्रैकः पर्याप्तकस्तत्र नियमात्तन्निश्रयाऽसङ्घयेयाः- सङ्ख्यातीता अपर्याप्तकाः, उपसंहारमाह- 'सेत्त' मित्यादि निगमनत्रयं सुगमम् ॥ तदेवमुक्ताः पृथिवीकायिकाः, सम्प्रत्यपूकायिकप्रतिपादनार्थमाह मू. (३०) से किं तं आउक्काइया ?, आउक्काइया दुविहा पन्नत्ता, तंजहा - सुहुम आउक्काइया य बादर आउक्काइयाय । से किं तं सुहुम आउकाइया ?, सुहुमाउका० दुविहा पन्नत्ता, तंजहा-पत्तसुहुम आउकाइया य अपज्जत्तसुहुम आउकाइया य, सेत्तं सुहुम आउकाइया । से किं तं बादर आउकाइया ?, २ अनेगविहा पन्नत्ता, तंजहा-उस्सा हिमए महिया करए हरतणुए सुद्धोदए सीतोदए उसिणोदए खारोदए खट्टोदए अम्बिलोदए लवणोदए वारुणोदए खीरोद घओदए खोतोदए रसोदए, - - जे यावत्रे तहप्पगारा ते समासओ दुविहा पन्नत्ता तं०-पजत्तगा य अपजत्तगा य, तत्थ गंजे ते अपजत्तगा ते णं असंपत्ता, तत्थ णं जे ते पज्जत्तगा एतेसिं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेज्जाई जोणिप्पमुहसयसहसाई, पञ्जत्तगनिस्साए अपजत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखिज्जा, से तं बादर आउक्कायिया, सेतं आउकाइया । वृ. सुगममू, 'उस्सा' इत्यवश्यायः त्रेहः 'हिमं' स्त्यानोदकं 'महिका' गर्भमासेषु सूक्ष्मवर्षः करको - धनोपलः हरतनुर्यो भुवमुद्भिद्य गोधूमाङ्कुरतॄणाग्रादिषु बद्धो बिन्दुरुपजायते 'शुद्धोदकं' अन्तरिक्षसमुद्मवं नद्यादिगतं च तच स्पर्शरसादि भेदादनेकभेदं तदेवानेकभेदत्वं दर्शयति'शीतोदकं' नदीतडागावटवापीपष्करिण्यादिषु शीतपरिणामं 'उष्णोदकं' स्वभावत एव कवचिन्निर्झरा- दावुष्णपरिणामं 'क्षारोदकं' ईषल्लवणस्वभावं यथा लाटदेशादौ केषुचिदवटेषु 'खट्टोदकम् ' ईषदम्लपरिणामं 'अम्लोदकं' स्वभावत् एवाम्लपरिणामं काञ्जिकवत् लवणोदकं लवणसमुद्रे वारुणं वारुणसमुद्रे क्षीरोदकं क्षीरसमुद्रे क्षोदोदकं इक्षुसमुद्रे रसोदकं पुष्करवरसमुद्रादिषु येऽपि चान्ये तथाप्रकाराः - रसस्पर्शादिभेदभिन्ना घृतोदकादयो बादरा अकायिकाः ते सर्वे बादराकायिकतया प्रतिपत्तव्याः, ते समासओ इत्यादि प्राग्वत्, नवरं सङ्घयेयानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy