SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ १९ पदं-१५, उद्देशकः-१, द्वारकिंणा फुडे कतिहिं वा काएहिं पुच्छा, गो०! नो धम्मत्थिकारणं फुडे जाव नो आगासत्थिकारण फुडे आगासस्थिकायस्स देसेणं फुडे, नो पुढविकाइएणं फुडे, जाव नो अद्धासमएणं फुडे, एगे अजीवदव्वदेसे अगुरुलहुए अनंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वागासअनंतभागूणे ।। वृ. 'कंबलसाडएणभंते!' इत्यादि, कम्बलशाटकः-कम्बलरूपः शाटकः कम्बलशाटक इति व्युत्पत्तेः आवेष्टितपरिवेष्टितः-गाढ़तरं संवेल्लितः, एवंभूतः सन् यावदवकाशान्तरं, यावत आकाशप्रदेशानित्यर्थः, 'स्पृष्टा' अवगाह्य तिष्ठति विरल्लिएवी'तिविरल्लितोऽपि विरलीकृतोऽपि तावदेवावकाशान्तरं-तावत एवाकाशप्रदेशान् स्पृष्टा तिष्ठति ?, भगवानाह–'हंता गोयमा !' इत्यादि, हंतेति प्रत्यवधारणं, एवमेतत् गौतम ! यत् ‘कम्बलसाडए णं' इत्यादि, तदेवं एषोऽत्र सझेपार्थः-यावत एवाकाशप्रदेशान् संवेल्लितः सन् कम्बलशाटकोऽवगाह्यावतिष्ठते तावत एवाकाशप्रदेशान् ततोऽप्यवगाह्यावतिष्ठते, केवलं धनप्रतरमात्रकृतो विशेषः, प्रदेशसङ्ख्या तूभयत्रापि तुल्या, उक्तश्चायमर्थोऽन्यत्रापि नेत्रपटमधिकृत्य “जह खलु महप्पमाणो नेत्तपडो कोडिओ म(न)हग्गंमि । तंभिवि तावइए च्चिय फुसइ पएसे (विरलिएवि)" इति। एवं स्थूणासूत्रमपि भावनीयं । आगासथिग्गलेणंभंते!' इत्यादि, आकाशथिग्गलं लोकः, स हि महतो बहिराकाशस्य विततपटस्य थिग्गलमिव प्रतिभाति, भदन्त ! केन 'स्पृष्टो' व्याप्तः, एतत्सामस्त्येन पृष्टमेतदेव विशेषतः प्रश्नयति-'कतिभिः' कियत्सङ्ख्याकैःकायैः स्पृष्टः, वाशब्दः पक्षान्तारद्योतनार्थः, प्रकारान्तरं च सामान्याद्विशेषतः, तान् कायान् प्रत्येकं पृच्छति-'किं धम्मस्थिकारणंफुडे!' इत्यादि सुगम, भगवानाह-गौतम! धर्मास्तिकायेन स्पृष्टः, धर्मास्तिकायस्य सर्वात्मना तत्रावगाढत्वात्, अत एव नो धर्मास्तिकायस्य देशेन स्पृष्टो, यो हि येन सर्वात्मना व्याप्तो नासौ तस्यैव देशेन व्याप्तो भवति, विरोधात्, प्रदेशैस्तु व्याप्तः, सर्वेषामपि धर्मास्तिकायप्रदेशानांतत्रावगाढत्वात, एवमधर्मास्तिकायविषयेऽपि निर्वचनं वाच्यं, तथा नोआकाशास्तिकायेन सकलेन द्रव्येण स्पृष्टः, आकाशास्तिकायदेशमात्रत्वाल्लोकस्य, किन्तु देशेन व्याप्तः, प्रदेशैश्च पृथिव्यादयोऽपि सूक्ष्माः सकललोकापन्ना वर्तन्ते ततस्तैरपि सर्वात्मना व्याप्तः, 'तसकाएणं सिय फुडे' इति, यदा केवलीसमुद्घातंगतःसन्चतुर्थे समयेवर्तते तदा तेन स्वप्रदेशैः सकललोकपूरणात् त्रसकायेन स्पृष्टः, केवलिननसकायत्वात्, सेषकालं तुन स्पृष्टः, सर्वत्र त्रसकायाना म भावात्, एवंजम्बूद्वीपादिविषयाण्यपि सूत्राणिभावनीयानि, नवरंबहिः पुष्करार्द्धचिन्तायां अद्धासमएणं नफुडे' इति, अद्धासमयो ह्यर्द्धतृतीयद्वीपसमुद्रान्तर्वर्तीन बहिः, एतच्च धर्मसङग्रहणिटी कायांभावितं, ततो बहिर्वीपसमुद्राणामद्धासमयस्पर्शनप्रतिषेधः, जंबुद्दीवेलवणे गाहा, सर्वद्वीपसमुद्राणामभ्यन्तरवर्ती जम्बूद्वीपस्तत्परिक्षेपीलवणसमुद्रस्तदनन्तरंधातकीखण्डाभिधानो द्वीपस्ततः कालोदः समुद्रः तदनन्तरंपुष्करवरोद्वीपः, अत ऊर्ध्वंद्वीपसशनामानः समुद्राः, ततः पुष्करवरसमुद्रः तदनन्तरं वरुणवरो द्वीपो वरुणवरः समुद्रः क्षीरवरो द्वीपः क्षीरोदः समुद्रः, धृतवरो द्वीपो धृतोदः समुद्रः, इक्षुवरो द्वीपो इक्षुवरः समुद्रः, नन्दीश्वरो द्वीपो नन्दीश्वरः समुद्रः, एतेऽष्टावपि च समुद्रा एकप्रत्यवताराः, एकैकरूपा इति भावः, ___अतऊर्ध्वंद्वीपाः समुद्राश्च त्रिप्रत्यवताराः, तद्यथा-अरुणइतिअरुणोऽरुणवरो अरुण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy