SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ पदं-१२, उद्देशकः-, द्वारं २९१ स्थानानां यमलपदमिति संज्ञा, चतुर्विंशत्या चाङ्कस्थानैः त्रीणि यमलपदानि लब्धानि, उपरि पञ्चाङ्कस्थानानि तिष्ठन्ति, अथ च यमलपदमष्टभिरङ्कस्थाननैस्ततश्चतुर्थ यमलपदं न प्राप्यते तत उक्तं त्रयाणां यमलपदानामुपरि-पञ्चभिरङ्गस्थानैर्वर्द्धमानत्वात् चतुर्थस्य च यमलपदस्याधस्तात्-त्रिभिरङ्कस्थानीनत्वात्, अथवा द्वौ द्वौ वर्गौसमुदिती एक यमलं चत्वारोवर्गाः समुदिता द्वे यमले षड्वर्गाः समुदिताम्राणि यमलपदानि अष्टौ वर्गाः समुदिताश्चत्वारि यमलपदानि, तत्र यस्मात् षण्णां वर्गाणामुपरि वर्तन्ते सप्तमस्य च वरणस्याधस्तात् तत उक्तं-त्रिमलपदस्योपरि चतुर्यमलपदस्याधस्तादिति, त्रियमलपदस्येति-त्रितयानांयमलपदानांसमाहारस्त्रियमलपदंतस्य, तथा चतुर्णा यमलपदानां समाहारश्चतुर्यमलपदं तस्य, सम्प्रति स्पष्टतरं सङ्ख्यानमुपदर्शयति 'अहवंणंछट्ठवग्गो पंचमवग्गपडुप्पण्णो' इति अथवेति पक्षान्तरे णमिति वाक्यालङ्कारे षष्ठो वर्गः पञ्चमवर्गेण प्रत्युत्पन्नो-गुणितः सन्यावान् भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, तत्र एकस्य वर्ग एक एव सच वृद्धिं न गत इति वर्गोन गण्यते, द्वयोर्वर्गश्चत्वारः एष प्रथमो वर्गः चतुर्णां वर्गः षोडश एष द्वितीयो वर्गः षोडशानां वर्गे द्वेशते षट्पञ्चाशदधिके एष तृतीयो वर्गः द्वयोः शतयोः षट्पञ्चाशदधिकयोर्वर्गः पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिशदधिकानि, एष चतुर्थो वर्गः एतस्य वर्गश्चात्वारिकोटिशतानि एकोनत्रिंशत्कोट्यः एकोनपञ्चाशल्लक्षाः सप्तषष्टिः सहस्राणि द्वे शते षन्नवत्यधिके एष पञ्चमो वर्गः उक्तंच॥१॥ “चत्तारिय कोडिसया अउणत्तीसंच होंति कोडीओ। ___ अउणावन्नं लक्खा सत्तट्ठी चेव य सहस्सा ॥ ॥२॥ दो य सया छन्नउया पंचमवग्गो समासओ होइ । एयस्स कतो वग्गो छट्टो जो होइतंवोच्छं।" एतस्य पञ्चचमस्य वर्गस्य यो वर्गःसषष्टो वर्गः, तस्य परिमाणमेकं कोटीकोटीशतसहस्रं चतुरशीतिः कोटीकोटीसहस्राणि चत्वारि सप्तषष्टयधिकानि कोटीकोटीशतानि चतुश्चत्वारिंशकोटिलक्षाणि सप्तकोटीसहस्राणि त्रीणि सप्तत्यधिकानि कोटिशतानि पञ्चनवतिर्लक्षाः एकपञ्चाशत्सहस्राणि षट्शतानि षोडशोत्तराणि, एष षष्ठो वर्गः, उक्तंच॥१॥ "लक्खं कोडोकोडी चउरासीइ भवे सहस्साई। चत्तारिय सत्तट्ठा होंति सया कोडीकोडीणं ॥ ॥२॥ चउयालं लक्खाइ कोडीणं सत्तचेव य सहस्सा। तिन्नि सया सत्तयरी कोडीणं हुंति नायव्वा ।। ॥३॥ पंचानउई लक्खा एकावन्नं भवे सहस्साई। छसोलसुत्तरसया एसो छट्ठो हवइ वग्गो।।" इति, एष षष्ठो वर्गः पञ्चमवर्गेण गुण्यते, गुणिते च सति यावान् राशिर्भवति तावप्रमाणा जघन्यपदे मनुष्याः, तेच एतावन्तो भवन्ति, ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ एतान्येकोनत्रिंशदङ्कस्थानानि, एतानि च कोटीकोट्यादिद्वारेण कथमपि अभिधातुं न शक्यन्ते ततः पर्यन्तवर्त्तिनोऽङ्कस्थानादारभ्य अङ्कस्थानसङ्गहमात्र पूर्वपुरुषप्रणीतेन गाथाद्वयेनाभिधीयते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy