________________
२८२
प्रज्ञापनाउपाङ्गसूत्र-१-१२/-1-1४०१
लोकाः, अनन्तेषुलोकप्रमाणेष्वाकाशखण्डषुयावन्तआकाशप्रदेशास्तावप्रमाणानीत्यर्थः, द्रव्यतः परिमाणमभवसिद्धिकेभ्यः-अभव्येभ्योऽनन्तगुणानि, यद्येवंतर्हि सिद्धराशिप्रमाणानि भविष्यन्ति तत आह-सिद्धानामनन्तभागः-अनन्तभागमात्राणि, ननुद्वयोरपि राश्योरभवसद्धिकसिद्धिरूपयोर्मध्ये पठ्यन्तेप्रतिपतितसम्यग्दृष्टयः तकिंतद्राशिप्रमाणानि भवेयुः?, उच्यते, यदितप्रमाणानि स्युस्तर्हि तथैव निर्देशः क्रियेत, सुखप्रतिपत्तिकृतप्रतिज्ञा हि भगवन्त आर्यश्यामाः, ततस्तथा निर्देशाभावादवसीयते-न तद्राशिप्रमाणानि, ननु तर्हि तेषां प्रतिपतितसम्यग्दृष्टीनामधस्ताद् भवेयुरुपरिवा?,उच्यते, कदाचिदधस्तात्कदाचिदुपरि कदाचित्तुल्यान्यपि अनियतप्रमाणत्वात्, नतु सर्वकालं तप्रमाणानीति, आह च चूर्णिकृत
"तो किं परिवडियसम्मद्दिट्टिरासिप्पमाणाई होज्जा ते ?, तेर्सि दोण्हवि रासीणं, मज्झे पढिजंतित्तिकाउं?, भन्नइ, जइ तप्पमाणाईहोताइंतोतेसिंचेव निद्देसोहोंतो तम्हान तप्पमाणाई, तो किं तेसिं हिट्ठा होज्जा उवर होज्जा ?, भनइ, कयाई हेट्ठा कयाइ उवरि होति कयाइ तुल्लाईन निच्चकालंतप्पमाणाई' इति, अपरः प्राह-कथं मुक्तानि यथोक्तानन्तसङ्ख्यापरिमाणान्युपपद्यन्ते यतो यदि तावदीदारिकादिशरीराणि यावदविकलानि तावद् गृह्यन्ते ततस्तेषामनन्तकालमवस्थानाभावादनन्तत्वं न घटते, यदि ह्यनन्तमपि कालमवस्थानं भवेत् ततोऽनन्तेन कालेन तत्तच्छरीरगणनादनन्तानि भवेयुः, यावताऽनन्तं कालमवस्थानं नास्ति, पुद्गलानामुत्कर्षतोड़प्यसङ्ख्येयकालावस्थानाभिधानात्, अथच ये पुद्गदलाजीवैरीदारिकत्वेन गृहीत्वा मुक्ता अतीताद्धायां तेषां ग्रहणं तर्हि सर्वेऽपि पुद्गलाः सर्वैरपि जीवैः प्रत्येकमौदारिकत्वेन गृहीत्वा मुक्ता इति सर्वपुद्गलग्रहणमापन्नं, तथा च सति यदुक्तम्
अभवसिद्धिकेभ्योऽनन्तगुणानि सिद्धानामनन्तभागमात्राणीति तद् विरुध्यते, सर्वजीवेभ्योऽनन्तानन्तगुणकारेणानन्तगुणत्वस्य प्रसक्तत्वादिति चेत्, उच्यते, इह मुक्तानामौदारिकशरीराणां नाविकलानामेव केवलानां ग्रहणं नाप्यौदारिकत्वेन गृहीत्वा मुक्ताः पुद्गलाः, तेषामुक्तदोषप्रसङ्गात्, किन्तुयच्छरीरमौदारिकंजीवेन गृहीकत्वा मुक्तंत विशरारुभावं विभ्राणमनन्तभेदभिन्नं भवति ते चानन्ता भेदा भवन्तो यावते पुद्गला औदारिकपरिणामं न जहति तावत्प्रत्येकमौदारिकशरीरव्यपदेशं लभन्ते, ये पुनरौदारिकपरिणामं त्यक्तवन्तस्ते न गण्यन्ते, तत एवमेकस्यापि शरीरस्यानन्तानि शरीराणिजातानि, एवं सर्वशरीरेष्वपि भावनीयं, तथा च सत्येकैकस्य शरीरस्यानन्तभेदभिन्नत्वादेकस्मिन्नपि समये प्रभूतान्यनन्तानि शरीराण्यवाप्यन्ते, तेषांचासङ्ख्येयकालमवस्थान, तेनचासङ्ख्येयेन कालेनान्यानिजीवैर्विप्रमुक्तान्यसद्धयेयान्यवाप्यन्ते, तान्यपि च प्रत्येकमनन्तभेदभिन्नानि, तेषु च मध्ये तावता कालेन यान्यौदारिकशरीरपरिणाम विजहति तानि परित्यज्यन्ते शेषाणि गण्यन्ते, तत एवं मुक्तानि यथोक्तप्रमाणानन्तसङ्ख्याकान्यौदारिकशरीराण्युपपद्यन्ते इति, न चैतस्वमनीषिकाविजृम्भितं, यत आह चूर्णिकृत्
“नविअविगलाणमेव केवलाणंपि गहणं एवं नयओरालियगहणमुक्काणं सव्वपुग्गलाणं, किन्तुजंसरीरमोरालिकंजीवेण मुकंतंचेवअणंतभेयभिन्नं [च] होइजावतेपुग्गलांतंजीवनिव्वत्तियं ओरालियसरीरकायप्पओगं न मुंचंति न ताव अन्नपरिणामेणं परिणमंति ताई पत्तेयं सरीराई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org