________________
२६०
॥२॥
प्रज्ञापनाउपाङ्गसूत्र-१-११/-1-1३७६ पुंस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते।। मेहनं खरता दाढ्यं, शौण्डीर्यं श्मश्रुघृष्टता। स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते।।
स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ।।" तथाऽन्यत्राप्युक्तम्॥१॥ “स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः।
उभयोरन्तरं यच, तत्र भावे नपुंसकम् ।।" नचैवंरूपाणिस्त्र्यादिलक्षणानिखट्वादिषूपलभ्यन्ते, तथाहि-यद्येकैकावयवपृथक्करणेन सम्यग निभालनं क्रियते तथापि न तेषां स्व्यादिलक्षणानां तत्रोपलम्भोऽस्ति ततः प्रज्ञापनीयं भाषानवेतिजातसंशयः तदपनोदाय पृच्छति,अत्र भगवानाह–“हंता गोयमे त्यादिअक्षरगमनिका प्राग्वत्, भावार्थस्त्वयं-नेह शब्दप्रवृत्तिचिन्तायां यथोक्तानि स्त्र्यादिलक्षणानि स्त्रीलिङ्गादिशब्दाभिधेयानि किन्वभिधेयधर्मा इयमयभिदंशब्दव्यवस्थाहेतवः गुरूपदेशपारम्पर्यसम्याः स्त्रीलिङ्गादिशब्दाभिधेयाः, न चैते कल्पनामात्रं, वस्तुतस्तत्तच्छब्दाभिधेयतया परिणमनभावात्, तेषामभिधेयधर्माणां तत्वतस्तात्तविकत्वात्, आह च शकटसूनुरपि-"अयमियमिदमितिशब्दव्यवस्थाहेतुरभिधेयधर्म उपदेशगम्यः स्त्रीपुंनपुंसकत्वानी"ति, व्यवस्थापितश्चायमों विस्तरकेण स्वोपज्ञशब्दानुशासनविवरण इति, ततः शाब्दव्यवहारापेक्षया यथावस्थितार्थप्रतिपादनात प्रज्ञापनीयं भाषा, दुष्टविवक्षातःसमुत्पत्तेरभावात् परपीडाहेतुत्वाभावाच न मृषेति।
___ 'अह भंते!' इत्यादि, अथभदन्त! याचस्त्र्याज्ञापनीआज्ञाप्यते-आज्ञासम्पादनेप्रयुज्यतेऽनया सा आज्ञापनी स्त्रिया आज्ञापनी स्त्र्याज्ञापनी, स्त्रियाआदेशदयिनीत्यर्थः, याच पुमाज्ञापनी नपुंसकाज्ञापनी, प्रज्ञापनीयं भाषा नैषा भाषा मृषेति?, अत्रेदं संशयकारणं-किल सत्या भाषा प्रज्ञापनी भवति, इयं च भाषा आज्ञासम्पादनक्रियायुक्ताभिधायिनी, आज्ञाप्यमानश्च स्त्र्यादिः तथा कुर्यान वा?,ततः संशयमापन्नो विनिश्चयाय पृच्छति, अत्र भगवानाह-'हंता गोयमा !' इत्यादि, अक्षरगमनिका सुगमा, भावार्थस्त्वयं-आज्ञापनी भाषा द्विधा-परलोका बाधिनी इतरा च, तत्रया स्वपरानुग्रहबुध्या शाठ्यमन्तरेणआमुष्मिकफलसाधनायप्रतिपन्नैहिकालम्बनप्रयोजना विवक्षितकार्यप्रसाधनसामथ्ययुक्ता विनीतस्त्रायादिविनेयजनविषयासापरलोकाबाधिनी एषैव च साधूना प्रज्ञापनी परलोकाबाधनात्, इतरा वितरविषया, सा च स्वपरसङ्कलेशजननात् मृषेत्यप्रज्ञापनी साधुवर्गस्य, उक्तंच॥१॥ "अविनीयमाणवंतो किलिस्सई भासई मुसं तह य।
घंटालोहं नाउं को कडकरणे पवत्तेज्जा ? ॥"
क्रिया हि द्रव्यं विनमयति नाद्रव्यमित्यभिप्रायः। 'अह भंते ! जा य इस्थिपन्नवणी' इत्यादि अथ भदन्त ! या च भाषा स्त्रीप्रज्ञापनीस्त्रीलक्षणप्रतिपादिका, 'योनिर्मुदुत्वमस्थैर्य मुग्धते'त्यादिरूपा, या च पुंप्रज्ञापनी-पुरुषलक्षणप्रतिपादिका मेहनखरता दाढ्य इत्यादिरूपायाचनपुंसकप्रज्ञापनी-नपुंसकलक्षणाभिधायिनी 'स्तनादिश्मश्रुकेशादिभावाभावसमन्वितमित्यादिलक्षणाप्रज्ञापनीयं भाषा नैषा भाषा मषेति ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org