SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५८ प्रज्ञापनाउपाङ्गसूत्र-१-१91-1-1३७५ हितः स तत्र साधुरिति सत्सु साध्वी सत्या, 'तत्र साधो विति यःप्रत्ययः, यदिवासन्तो-मूलोत्तरगुणास्तेषामेवजगति मुक्तिपदप्रापकतया परमशोभनत्वात् अथवा सन्तो-विद्यमानास्ते च भगवदुपदिष्टा एव जीवादयः पदार्थाः अन्येषां कल्पनामात्ररचितसत्ताकतयातत्त्वतोऽसत्त्वात् तेभ्योहिता तेषु साध्वी वा यथावस्थितवस्तुतत्त्वप्ररूपणेन सत्या, विपरीतस्वरूपा मृषा, उभयस्वभावा सत्यामृषा, या पुनस्तिसृष्वपि भाषास्वनधिकृता-तल्लक्षणायोगतस्तत्रानन्त विनीसा आमन्त्रणाज्ञापनदिविषयाअसत्यामृषा, उक्तंच॥१॥ "सच्चा हिया सयामिह संतो मुनयो गुणा पयत्था वा। तव्विवरीया मोसा मीसा जा तदुभयसहावा ॥ अणहिगया जा तीसुवि सद्दो चिय केवलो असचमुसा" इति, भगवानाह-गोतम ! सियसच्चा' इत्यादि,स्यात्सत्यासत्याऽपि भवतीत्यर्थः, एवंस्यादसत्या स्यात्सत्यामृषा स्यादसत्यामृषेति, अत्रैवार्थे प्रश्नमाह से केणटेणं भंते !' इत्यादि, सुगम, भगवानाह-गौतम ! आराधनी सत्या, इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठापनुबध्या या सर्वज्ञमतानुसारेण भाष्यते अस्त्यात्मा सदसन्नित्यानित्याधनेकधर्मकलापालिङ्गित इत्यादि सा यथावस्थितवस्त्वभिधायिनी आराध्यते मोक्षमार्गोऽनयेत्याराधनी, आराधिनीत्वात्सत्येति, विराधिनी मृषेति, विराध्यतेमुक्तिमार्गोऽनयेति विराधिनी, विप्रतिपत्तौ सत्यांवस्तुप्रतिष्ठाशयासर्वज्ञत्रमतप्रातिकूल्येन या भाष्यते यथा नास्त्यात्मा एकान्तनित्यो वेत्यादि तथा सत्याऽपि परीपीडोत्पादिका सा विपरीतवलस्त्वभिधानात् परपीडाहेतुत्वाद्वामुक्तिविराधनाद्विराधनी विराधिनीत्वाच मृषेति, यातुकिञ्चननगरंपत्तनं वाऽधिकृत्य पञ्चसुदारकेषु जातेष्वेवमभिधीयते, यथाऽस्मिन् अद्यदशदारका जाताइतिसा परिस्थूरव्यवहारनयमतेन आराधनविराधिनी, इयं हि पञ्चानां दारकाणां यज्जन्म तावताउंशेन संवादनसम्भवादाराधिनी, दश न पूर्यन्ते इत्येतावताऽशेन विसंवादसम्भवाविराधिनी, आराधिनीचासौ विराधिनीच आराधनविराधिनी, कर्मधारयत्वात्पुंवद्भावः, आराधनविराधिनीत्वाचसत्यामृषा, यातुनौवाराधनीतल्लक्षणविगमात् नापि विराधिनी विपरीतवत्स्वभिधानाभावात् परपीडाहेतुत्वाभावाच नाप्याराधनविराधिनी एकदेशसंवादविसंवादाभावात्, हे साधो ! प्रतिक्रमणं कुरु स्थण्डिलानि प्रत्युपेक्षस्वेत्यादिव्यवहारपतिता आमन्त्रिण्यादिभेदभिन्ना सा असत्यामृषा नाम चतुर्थी भाषा, से एएणतुणमित्याघुपसंहारवाक्यं । इह यथावस्थितवस्तुतत्त्वामधायिनी भाषा आराधिनीत्वात् सत्येत्युक्तं, ततः संशयापनस्तदपनोदाय पृच्छति मू. (३७६) अह मंते ! गाओ मिया पसू पक्खी पन्नवणी णं एसा भासा न एसा भासा मोसा?, हंता गो०! जायगाओ मिया पसू पक्खी पन्नवणी णं एसा भासा, [पन्नवणी] नएसा भासा मोसा, अह भंते ! जा य इत्थीवऊ जाय पुरिसवऊ जा य नपुंसगवऊ पन्नवणी णं एसा भासा न एसा भासा मोसा?, हंता गो० ! जाय इत्थीवऊ जा य पुमवऊ जा य नपुंसगवऊ गन्नवणी णं एसा भासा न एसा भासा मोसा, अह भंते ! जा य इथिआणमणी जा य पुमआणवणी जा य नपुंसगआणमणी पन्नवणी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy