________________
२५६
प्रज्ञापनाउपाङ्गसूत्र-१-१०/-1-1३७४ ठिइचरमेणं' इत्यादि, नैरयिको भदन्त ! तत्रैव नरकेषु चरमसमये स्थितिपर्यायरूपेण चरमेण चिन्त्यमानः किं चरमोऽचरमोवा?, भगवानाह-स्याचरमः स्यादचरमः, किमुक्तं भवति? यो भूयोऽपि नरकमागत्य स्थितिचरसमयं प्राप्यस्यति सोऽचरमः शेषस्तुचरमः, एवं निरन्तरं यावद् वैमानिकः,बहुत्वदण्डकचिन्तायां 'रमाविअचरमावि' इति, इह ये पृच्छासमये स्थितिचरमसमये वर्तन्ते, तेचिन्त्यन्तेइत्येतन, अन्यथा उद्वर्तनाया विरहस्यापि सम्भवात् एकादीनामपिचोद्वर्तनाया भावात् 'चरमावि अचरमावी' त्युभयत्राप्यवश्यंभाविना बहुवचनेन निर्वचनं नोपपद्यते, किन्तु ये पृच्छासमये वर्तन्ते ते क्रमेण स्वस्वस्थितिचरमसमयं प्राप्ताः सन्तस्तेन रूपेण चरमा अचरमा वा इत्येतच्चिन्तनेन उपपद्यते यथोक्तं निर्वचनमिति, भवचरमसूत्रं गतिचरमसूत्रवत्, 'नेरइएणंभंते ! भासाचरमेण मित्यादि, भाषाचरमंचरमभाषा, ततोऽयमर्थः-नैरयिको भदन्त!चरमाया भाषाय किं चरमोऽचरमो वा?, शेषं सुगम, बहुवचनसूत्रे प्रश्नभावार्थो-ये पृच्छासमये नारका ते स्वकालक्रमेण चरमां भाषां प्राप्ताः सन्तः तया चरमया भाषया चरमा अचरमा वा इति, ततो निर्वचनसूत्रमप्युपपन्नं, एवमुच्छ्वासाहारसूत्रे अपि भावनीये, भाव औदयिकः, शेषं सुगमं ।।
पदं - १०-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपागसूत्रे दशमपदस्य मलयगिरिआचार्येण विरचिताटीका परिसमाप्ता
(पदं-११- "भाषा" वृतदेवं व्याख्यातंदशमपदं, इदानीमेकादशमारभ्यते, तस्यचामभिसम्बन्धः, इहानन्तरपदे सत्त्वानां यदुपपा तक्षेत्रं रत्नप्रभादि तस्य चरमाचरमविभागः प्रतिपादितः इह [सत्या १ मृषा २ सत्यामृषा ३ असत्यामृषा४] भाषा पर्याप्तानां सत्यादिभाषाविभागोपदर्शनं क्रियते, तत्र चेदमादिसूत्रम्
म. (३७५) से नूनं भंते ! मण्णामीतिओहारिणी भासा चिंतेमीति ओहारिणी भासा अह मण्णामीति ओधारिणी भासा अह चिंतेमीति ओधारणी भासा तह मण्णामीति ओधारिणी भासा तह चिंतेमीति ओहारिणी भासा?, हंता गो० ! मण्णामीति ओधारिणी भासा चिंतेमीतिओधारिणी भासा अह मण्णामीति ओधारिणी भासा अह वितेमीति ओधा० तह मण्णामीति ओधा० तह चिंकतेमीति ओधा०, ओहारिणी णं भंते ! भासा कि सच्चा मोसा सच्चामोसा असच्चामोसा?, गो० ! सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असचामोसा,
-सेकेणटेणं भंते! एवं बुच्चति-ओधारिणी णंभासा सिय सच्चा सिय मोसासिय सत्रामोसा सिय असच्चामोसा?, गो० ! आराहिणी सच्चा विराहिणी मा सा आराहणविराहिणी सच्चामोसा जाणेव आराहणी नेवविरहिणी ने वाराहणविराहिणीसा असच्चमोसा नामंसा चउत्थी भासा, से तेणडेणं गोयामा! एवं वुचतिओहारिणी णंभासा सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असच्चामोसा ।।
वृ. से नूनं भंते ! मण्णामि इति ओहारिणी भासा' इत्यादि, सेशब्दो अथशब्दार्थः, सच वाक्योपन्यासे, नूनमुपमानावधारणतर्कप्रश्नहेतुषु इहावधारणे, भदन्त ! इत्यामन्त्रणे, मन्ये
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only