________________
२४७
पदं-१०, उद्देशकः-, द्वारंचाचरमौच, तत्रयदाचतुष्प्रदेशात्मकः स्कन्धः समश्रेण्या व्यवस्थितेषु चतुष्वाकाशप्रदेशेषुएवमगाहते, तदाऽऽद्यन्तद्विप्रदेशावगाढौ द्वौ परमाणू चरमौ द्वयोस्तु मध्यमयोराकाशप्रदेशयोरगाढौ द्वौ परमाणू अचरमाविति, एकादशः स्याच्चरमश्चावक्तव्यश्च, स चैवं-, यदा स चतुष्प्रदेशकः स्कन्धः त्रिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते स्थापना, तदा समश्रेणियव्यवस्थितद्विप्रदेशावगाढाम्रयः परमाणवो द्विप्रदेशवगाढद्विप्रदेशस्कन्धवत् चरमः एकश्च विश्रेणिस्थः परमाणुरिवचरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्यत्वात्अवक्तव्यइति, द्वादश; स्याञ्चरमश्चावक्तव्यौ च, स चैवं-, यदा स चतुष्प्रदेशात्मकः स्कन्धश्चतुष्वाकाशप्रदेशेषु एवमवगाहते-द्वौ परमाणू द्वयोः समश्रेण्या व्यवस्थितयोराकाशप्रदेशयोः द्वौ परमाणू द्वयोर्विश्रेण्या व्यवस्थितयोः, तदा द्वी परमाणू समश्रेण्या व्यवस्थितौ द्विप्रदेशावगाढद्विप्रदेशस्कन्धवत् चरमः द्वौ च परमाणू विश्रेणिव्यवस्थितौ केवलपरमाणुवच्चरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्यावित्यवक्तव्यौ, त्रयोविंशतितमः स्याचरमौ चाचरमश्चावक्तव्यश्च, कथमिति चेद्, । उच्यते, इह यदा स चतुष्प्रदेशकः स्कन्धः चतुष्वाकाशप्रदेशेष्वेवमवगाहते-त्रयःपरमाणवस्त्रिषुसमश्रेण्या व्यवस्थितेष्वाकाशप्रदेशेषुएको विश्रेणिस्थे प्रदेशे, तदा त्रिषु परमाणुषु समश्रेणिव्यवस्थितेषु मध्ये आघन्तौ परमाणू पर्यन्तवर्तित्वाचरमौ मध्यमस्त्वचरमः विश्रेणिस्थस्व-वक्तव्य इति, वक्ष्यति च॥१॥ “पढमो तइओ नवमो दसमो इक्कारसोय बारसमो।
भङ्गा चउप्पएसे तेवीसइमो य बोद्धब्बो।" गतार्था ।। 'पंचपएसिए णं भंते!' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह-'गोयमा ! सिय चरमे' इत्यादि, इह प्रथमतृतीयसप्तमनवमदशमैकादशद्वादशत्रयोदशत्रयोविंशतितमचतुर्विंशतितमपञ्चविंशतितमरूपा एकादश भङ्गा ग्राह्याः, शेषाः प्रतिषेध्याः, वक्ष्यति च॥१॥ “पढमो तइओ सत्तम नवदसइक्कारबारतेसमो।
तेवीसचउव्वीसा पणवीसइमो य पंचमए ।।" । ___ तत्रायंप्रथमो भङ्गः-स्याञ्चरम इति, इह यदापञ्चप्रदेशात्मकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमगाहते, त्रयः परमाणव एकस्मिनाकाशप्रदेशे द्वौ द्वितीये, - तदा द्विप्रदेशावगा प्रदेशस्कन्धवचरमः, तृतीयोऽवक्तव्यः,सचैवं-यदासपञ्चमप्रदेशात्मकःस्कन्धः एकस्मिन् आकाशप्रदेशेअवगाहते, -तदासपरमाणुवदवक्तव्यः, सप्तमः स्याचरमश्चाचरमश्च, स चैवम्- यदा स पञ्चप्रदेशकः स्कन्धः पञ्चस्वाकाशप्रदेशेष्वेवमवगाहते, स्थापना-, तदा ये चरमाश्चत्वारः परमाणवस्तेषामेकसंबन्धिपरिणामपरिणतत्वादेकवर्णत्वादेकगन्धत्वादेकरसत्वादेकस्पर्शत्वाचैकत्वव्यपदेशे चरम इति व्यापदेशः, मध्यस्तु परमाणुर्मध्यवर्तित्वाद्चरमइति, नवमः चरमौ चाचरमश्च, तत्र यदा स पञ्चपदेशकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्तितेष्वेवमवगाहते द्वौ-परमाणू अधे आकाशप्रदेशे द्वावन्ते एके मध्ये, तदाऽऽद्यप्रदेशावगाढौ द्वौ चरमो द्वावन्त्यप्रदेशावगाढो चरम इति चरमौ मध्यस्तु मध्यवर्तित्वादचरमः, दशमः चरमौ चाचरमौच,तत्र यदा सपञ्चप्रदेशात्कमः स्कन्धश्चतुष्वाकाशप्रदेशेषुसमश्रेणय्या व्यवस्थितेष्वेवमवगाहते-त्रयः परमाणवस्त्रिष्वाकाशप्रदेशेषुएकस्मिन्दाविति, तदाआद्यप्रदेशवर्ती परमाणुश्वरमः द्वौ चान्त्यप्रदेशस्तिनौ चरम इति चरमौ द्वौ चमध्यवर्तित्वादचरमौ, एकादशः चरमश्चाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org