________________
२४६
प्रज्ञापनाउपाङ्गसूत्र-3-90/-1-1३६५
इहयदा द्विप्रदेशिकः स्कन्धोद्वयोराकाशप्रदेशयोरवगाढो भवति समश्रेण्या व्यवस्थितया, तदा एकोऽपि परमाणुपरपरमाण्वपेक्षया चरमः, अवरोऽप्यपरपरमाण्वपेक्षया चरम इति चरमः, अचरमस्तुनम भवति, सर्वद्रव्याणमामपि केवलाचरमत्वस्यायोगात्, यदा तु स एव द्विप्रदेशिकः स्कन्धः एकस्मिन्नाकाशप्रदेशे अवगाहते तदा स तथाविधैकत्वपरिणामपरिणततया परमाणुवत् चरमाचरमव्यपदेशकारणशून्यत्वान्न चरमशब्देन व्यपदेष्टुशक्यतेनाप्यचरमशब्देनेतिअवक्तव्यः, शेषास्तु भङ्गाः प्रतिषेध्याः, तथा च वक्ष्यति “पढमो तइओ य होइ दुपएसे" अस्यायमर्थःद्विप्रदेशिके स्कन्धेप्रथमो भङ्गः-चरम इति, तृतीयः-अवक्तव्य इति भवतिशेषास्तुप्रतिषेध्याः, असंभवात्, स चासंभवःसुप्रतीत एव।
'तिपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनं 'गोयमा ! सिय चरमे' इत्यादि, इहयदा त्रिप्रदेशिकः स्कन्धो द्वयोराकाशप्रदेशशयोः समश्रेण्या व्यवस्थितयोरेवमवगाढो भवति, तदाऽसौचरमः, सा चरमत्वभावना द्विप्रदेशिकस्कन्धवद् भावनीया, अचरमप्रतिषेधः प्राग्वत्, ‘स्यादवक्तव्य' इति यदा स एव त्रिप्रदेशिकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते तदा परमाणुवत् चरमाचरमव्यपदेशकारणशून्यतया चरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्यत्वात् अवक्तव्यःचतुर्थादयोऽष्टमपर्यन्ताःप्रतिषेध्यः,असंभवात, असभवस्तुसुप्रतीतत्वात्स्यवमुपयुज्य वक्तव्य;, नवमस्तु ग्राह्यः, तथा चाह-सिय चरमाइंच अचरमे य' प्राकृते द्वित्वेऽपि बहुवचनं, ततोऽयमर्थः-स्यात्-कदाचिदयं मङ्ग:-चरमौ अचरमश्च, तत्र यदा स त्रिप्रदेशिकः स्कन्धः त्रिष्वाकाशप्रदेषेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते,
__तदाऽऽदिमान्तिमौ द्वौ परमाणूपर्यन्तवर्तित्वाच्चरमौ मध्यमस्तुमध्यवर्तित्वादचरम इति, दशमस्तु प्रतिषेध्यः, स्कन्धस्य त्रिप्रदेशिकतया चरमाचरमशब्दयोर्बहुवचननिमित्तासंभवात्, एकादशस्तु ग्राह्यः, तथा चाह–'सियचरमेय अवत्तव्वएय' स्यात्-कदाचिदयं भङ्गश्चरमश्चावक्तव्यश्च, तत्र यदा स त्रिप्रदेशिकः समश्रेण्या विश्रेण्या चैवमगाहते स्थापना-तदा द्वौ परमाणू समश्रेण्याव्यवस्थितावितिद्विप्रदेशावगाढद्विप्रदेशस्कन्धवच्चरमव्यपदेशकारणभावतश्चरमः, एकश्च परमाणुर्विश्रेणिस्थश्चरमाचरमशब्दाभ्या व्यपदेष्टुमशक्य इत्यवक्तव्यः, शेषास्तु भङ्गाः सर्वेऽपि प्रतिषेध्याः, वक्ष्यति च “पढमो तइओ नवमो इक्कारसमो य तिपएसे" अस्यायमर्थः-त्रिप्रदेशे स्कन्धेप्रथमो भङ्गश्चरम इति, तृतीयोऽवक्तव्य इति, नवमश्चरमौ चाचरमश्च, एकादशश्चरमश्चावक्तव्यश्चेतिचि भवति, शेषा भङ्गा न घटन्ते।।
"चउपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह-'गोयमा ! सिय चरमे' इत्यादि,अत्र प्रथमतृतीयनवमदशमैकादशद्वादशत्रयोविंशतितमरूपाः सप्त भङ्गा ग्राह्याः, शेषाः प्रतिषेध्याः, तत्र प्रथमभङ्गोऽयम्-‘स्याच्चरम' इति, इह यदा चतुष्प्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमगाहते, तदा चरमः, सा चचरमत्वाभावना समश्रेण्या व्यवस्थितद्विप्रदेशावगाढद्विप्रदेशस्कन्धवद्भावनीया, तृतीयोभङ्गः स्यादवक्तव्य इति, सचैवं यदा स एव चतुष्प्रदेशकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते, तदा परमाणुवदवक्तव्यः,
नवमः ‘स्याच्चरमौ चाचरमश्च स चैवं यदा स चतुष्प्रदेशात्मकः स्कन्धः त्रिष्वाकाशप्रदेशेष्वेवमवगाहते, तदाआद्यन्तप्रदेशावगाढौ चरमौमध्यप्रदेशावगाढस्त्वचरमः, दशमः स्याच्चरमौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org