SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपामसूत्र-१-१/-1-1१३ गन्धौपञ्चापि रसाःप्राप्यन्ते, ततोऽ-वधिकृतवर्णादिव्यतिरेकेण शेषवर्णादिभिरपिभङ्गाः सम्भवन्ति, तथापि तेष्वेव बादरेसु स्कन्धेषु ये व्यवहारतः केवलकृष्णवर्णाधुपेता अपान्तरालस्कन्धा यथा देहस्कन्ध एवलोचनस्कन्धः कृष्णस्तदन्तर्गतएव कश्चिल्लोहितोऽन्यस्तदन्तर्गत एव शुक्ल इत्यादि ते इह विवक्ष्यन्ते, तेषां चान्यद्वर्णान्तरादि न सम्भवति, स्पर्शचिन्तायां त्ववधिकृतस्पर्श प्रति प्रतिपक्षव्यतिरेकेणान्ये स्पर्शा लोकेऽप्पविरोधिनो श्यन्ते ततो यथोक्तैव भङ्गसङ्ख्या, साऽपिच परिस्थूरन्यायमङ्गीकृत्याभिहिता, अन्यथा प्रत्येकमप्येषां तारतम्येनानन्तत्वादनन्ता भङ्गाः संभवन्ति, एतेषां च वर्णादिपरिणामानां जघन्यतोऽवस्थानमेकं समयमुत्कर्षतोऽसङ्ख्येयं कालम्, सम्प्रत्युपसंहारमाह ‘सेत्तं रूविअजीवपन्नवणा, सेत्तं अजीवपन्नवणा' सैषा रूप्यजीवप्रज्ञापना, सैषाऽजीवप्रज्ञापना ।। साम्प्रतं जीवप्रज्ञापनामभिधित्सुस्तद्विषयं प्रश्नसूत्रं चा(त्रमा)ह मू. (१४) से किंतंजीवपन्नवणा?, २ दुविहा पन्नत्ता, तंजहा-संसारमावण्णजीवपन्नवणा य असंसारसमावण्णजीवपन्नवणा य वृ.अथकासाजीवप्रज्ञापना?, सूरिराह-जीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-संसारसमापन्नजीवप्रज्ञापना चासंसारसमापन्नजीवनज्ञापना च, तत्र संसरणं संसारो-नारकतिर्यगनरामरभवानुभवलक्षणस्तं सम्यग-एकीभावेनापत्राः संसारसमापन्नाः, संसारवर्त्तिन इत्यर्थः, ते च ते जीवाश्च तेषां प्रज्ञापना संसारसमापन्नजीवप्रज्ञापना, नसंसारोऽसंसारो-मोक्षस्तं समापन्ना असंसारसमापन्ना मुक्ता इत्यर्थः, ते च तेजीवाश्च तेषां प्रज्ञापनाऽसंसारसमापन्नदजीवप्रज्ञापना, चशब्दौ प्राग्वत् । तत्राल्पवक्तव्यत्वाप्रथम तोऽसंसारसमापन्नजीवप्रज्ञापनाभिधित्सुस्तद्विषय प्रश्नसूत्रमाह मू. (१५) से किं तं असंसारसमावणअणजीवपन्नवणा?, असंसारसमावण्णजीवपन्नवणा दुविहा पन्नत्ता, तंजहा-अनन्तरसिद्धअसंसारसमावन्नजीवपन्नवणा य परम्परसिद्धअसंसारसमावन्नजीवपन्नवणा य। वृ.अथका सा असंसारसमापनजीवप्रज्ञापना?, सूरिराह-असंसारसमापन्नजीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापनाच परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापनाच, तत्र न विद्यतेऽन्तरं-व्यवधानमर्थात्समयेन येषां तेऽनन्तरास्तेच तेसिद्धाश्चानन्तरसिद्धाः, सिद्धत्वप्रथमसमये वर्तमाना इत्यर्थः, ते च तेऽसंसारसमापन्नजीवाश्चानन्तरसिद्धासंसारसमापन्नजीवास्तेषां प्रज्ञापनाऽनन्तरसिद्धाऽसंसारसमापन्नजीवप्रज्ञापना, चशब्दः स्वगतानेकभेदसूचकः, तथा विवक्षिते प्रथमे समये यःसिद्धस्तस्य यो द्वितीयसमयसिद्धः स परस्तस्यापि यस्तृतीय- समयसिद्धः स परः, एवमन्येऽपि वाच्याः, परे च परे चेति वीप्सायां 'पृषोदरादय' इति परम्परशब्द-निष्पत्तिः, परम्पराश्चते सिद्धाश्च परम्परसिद्धाः विवक्षितसिद्धस्य प्रथमसमयात् प्राग् द्वितीयादिषु समयेष्वनन्तामतीताद्धां यावद्वर्तमाना इति भावः, ते च तेऽसंसारसमापन्नाश्च परम्परसिद्धा- संसारसमापन्नास्ते च ते जीवाश्च तेषां प्रज्ञापना परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना, अत्रापि चशब्दः स्वगतानेकभेदसूचकः ।। मू. (१६) से किं तं अनन्तरसिद्धअसंसारसमावण्णजीवपन्नवणा?, अनन्तरसिद्धअ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy