SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ पदं-१, उद्देशकः--, द्वारं २१ याविलोहियवण्णपरिणयावि हालिद्दवण्णपरिणयावि सुक्किालवण्णपरिणयाविगन्धओ सुब्भिगंधपरिणयावि दुब्मिगंधपरिणयाविरसओ तित्तरसपरिणताविकडुयरसपरिणताविकसायरसपरिणताविअंबिलरसपरिणयाविमहुररसपरिणयावि फासओ कक्खडफासपरणयाविमउयफासपरिणयाविगुरुयफासपरिणयावि लहुयफासपरिणयाविसीयफासपरिणयाविउसिणफासपरिणयावि निद्धफासपरिणयावि लुक्खफासपरिणतावि २०, १००। सेत्तं रूविअजीवपन्नवणा, सेत्तं अजीवपन्नवणा । वृ. ये स्कन्धा दयो 'वर्णतो' वर्णमाश्रित्य कालवर्णपरिणता अपि भवन्ति ते 'गंधतो' गन्धमाश्रित्य सुरभिगन्धपरिणता अपि भवन्ति, दुरभिगन्धपरिणता अपि, किमुक्तं भवति?गन्धमधिकृत्य ते भाज्याः,केचित् सुरभिगन्धपरिणता भवन्ति केचिद्दुरभिगन्धपरिणताः, न तु प्रतिनियतैकगन्धपरिणामपरिणता एवेति, एवं च रसतः स्पर्शतः संस्थानतश्च वाच्याः, तत्र द्वौ गन्धौ पञ्च रसा अष्टौ स्पर्शाः पञ्च संस्थानानीति, एते च मीलिता विंशतिरिति कृष्णवर्णपरिणता एतावतो भङ्गाल्लभन्ते २०, एवं नीलवर्णपरिणता अपि २०, लोहितवर्णपरिणता अपि २०, हारिद्रवर्णपरिणता अपि २०, शुक्लवर्णपरिणता अपि २०, एवं पञ्चभिर्वर्णेलब्धं शतम् १००। ___ गन्धमधिकृत्याह- ये गंधतो' इत्यादि, ये 'गन्धतो' गन्धमधिकृत्य सुरभिगनधपरिणामपरिणतास्ते वर्णतः कालवर्णपरिणता अपि नीलवर्णपरिणता अपि लोहितवर्णपरिणता अपि हारिद्रवर्णपरिणता अपि शुक्लवर्णपरिणता अपि ५, एवं रसतः ५ स्पर्शतः ८ संस्थानतः ५, एते च मीलितास्त्रयोविंशतिः २३ इति सुरभिगन्धपरिणतास्त्रयोविंशतिभङ्गालभन्ते, एवं दुरभिगन्धपरिणता अपि २३, ततो गन्धपदेन लब्धा भङ्गानां षट्चत्वारिंशत् ४६ । रसमधिकृत्याह-ये रसतो रसमधिकृत्यतिक्तरसपरिणतास्तेवर्णतः ५ गन्धतः २ स्पर्शतः ८ संस्थानतः ५ एते सर्वेऽप्येकत्र मीलिता विंशतिः इति तिक्तरसपरिणता विंशतिभङ्गाल्लभन्ते, एवंकटुकरसपरिणताः२० कषायरसपरिणताः२० अम्लरपसरिणताः२०मधुररसपरिणताश्च २०, एवं रसपश्चटकसंयोगे लब्धं भङ्गकानां शतम् १०० इत्यादि। स्पर्शमधिकृत्याह-'जे फासतो कक्खडफासपरिणया' इत्यादि, ये स्पर्शतः कर्कस्पर्शपरिणतास्ते वर्णतः ५ गन्धतः २ रसतः ५ स्पर्शतः ६ प्रतिपक्षस्पर्शयोगाभावात् संस्थानतः ५, एते सर्वेऽप्येकत्र मीलितास्त्रयोविंशतिः २३, एतावतो भङ्गान् कर्कशस्पर्शपरिणता लभन्ते २३, एतावत एव मृदुस्पर्शपरिणताः २३ गुरुस्पर्शपरिणताः २३ लघुस्पर्शपरिणताः २३ शीतस्पर्शपरिणताः २३ उष्णस्पर्शपरिणतः २३ स्निग्धस्पर्शपरिणताः २३ रूक्षस्पर्शपरिणताः २३, एतैषामेकत्र मीलने जातं भङ्गकानां चतुरशीत्यधिकं शतं १८४ इत्यादि । संस्थानमधिकृत्याह-'जेसण्ठाणओ परिमण्डलसण्ठाणपरिणया' इत्यादि, ये संस्थानतछः परिमण्डलसंस्थानपरिणतास्ते वर्णतः ५ गन्धतः २ रसतः ५ स्पर्शतः ८ एते सर्वेऽप्येकत्र मीलिताः विंशतिः २० एतावतो भङ्गान् परिमण्डलसंस्थानपरिणता लभन्ते, एवं वृत्तसंस्थानपरिणताः २० यस्त्रसंस्थानपरिणताः २० चतुरनसंस्थानपरिणताः२० आयतसंस्थानपरिणताः २०, अमीषां चैकत्र मीलने लब्धं भङ्गाकानां शतम्, एतेषां च वर्णगन्धरसस्पर्शसंस्थानानां सकलभङ्गसङ्कलने जातानि पञ्च शतानि त्रिंशदधिकानि ४३० । इह यद्यपि बादरेषु स्कन्धेषु पञ्चापि वर्णा द्वावपि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy