SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ पदं–९, उद्देशकः--, द्वार कवैमानिकानांचोपपातक्षेत्राणि शीतोष्णरूपोभयस्पर्शपरिणतानि तेन तेषां योनिरुभयस्वभावा न शीता नाप्युष्णा एकेन्द्रियाणामकायिकवर्जानां द्वित्रिचतुरिन्द्रियसंमूर्छिमतिर्यक्पञ्चेन्द्रियसंमूर्छिममनुष्याणां चोपपातस्थानानि शीतस्पर्शान्युष्णस्पर्शान्युभयस्पर्शान्यपि भवन्तीति तेषां त्रिविधा योनिः । तेजःकायिका उष्णोयोनिकाः (तथा अप्कायिकाः शीतयोनिकाः) तथा प्रत्यक्षत उपलब्धः अल्पबहुत्वचिन्तायां सर्वस्तोकाः शीतोष्णयोनयः-शीतोष्णरूपोभययोनिकाः, भवनवासिगर्भजतिर्यक्पञ्चेन्द्रियगर्भजमनुष्यव्यन्तरज्योतिषवैमानिकानामेवोभययोनिकत्वात्, तेभ्योऽसङ्खयेयगुणा उष्णयोनिकाः, सर्वेषां सूक्ष्मबादरभेदभिन्नानां तेजःकायिकानांप्रभूततराणां नैरयिकाणां कतिपयानां पृथिव्यब्वायुप्रत्येकवनस्पतीनां चोष्णयोनिकत्वात्, अयोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यः शीतयोनिका अनन्तगुणाः, अनन्तकायिकानां सर्वेषामपि शीतयोनिकत्वात्, तेषां च सिद्धेभ्योऽपि अनन्तगुणत्वात्। भूयः प्रकारान्तरेण योनीः प्रतिपिपादयिषुराह मू. (३५८) कतिविहाणं भंते! जोणी पं०?, गोयमा! तिविहाजोणी प०, तं०-सचित्ता अचित्ता मीसिया। नेरइयाणं भंते ! कि सचित्ता जोणी अचित्ता जोणी मीसिया जोणी?. गोयमा! नो सचित्ता जोणी अचित्ता जोणी नो मीसिया जोणी । असुरकुमाराणं भंते ! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी?, गोयमा! नो सचित्ता जोणी अचित्ता जोणी नो मीसिया जोणी, एवं जाव थणियकुमाराणं। पुढवीकाइआणं भंते ! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी?, गोयमा ! सचित्ता जोणी अचित्ता जोणी मीसियावि जोणी, एवं जाब चउरिदियाणं ।। संमुच्छिमपंचेदियतिरिक्खजोणियाणं समुच्छिममणुस्साण य एवं वेव । गब्भवतियपंचिंदियतिरिक्खजोणियाणं गब्भवतियमणुस्साण य नो सचित्ता नो अचित्ता मीसिया जोणी __ वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं । एतेसिणं भंते! जीवाणं सचित्तजोणीणं अचित्तजोणीणं मीसजोणीणं अजोणीण य कयरे २ हिंतो अ० ब० तु० वि०?, गोयमा सब्वत्थोवा जीवामीसजोणिया अचित्तजोणिया असंखेनगुणा, अजोणिया अनंतगुणा, सचित्तजोणिया अनंतगुणा। वृ. 'कतिविहा णं भंते ! जोणी पन्नत्ता' इत्यादि, सचित्ता जीवप्रदेशसंबद्धा, अचित्ता सर्वथा जीवविप्रमुक्ता, मिश्रा जीवचिप्रमुक्ताविप्रमुक्तस्वरूपा । तत्र नैरयिकाणां यदुपपातक्षेत्रं तन्न केनचिजीवेन परिगृहीतमिति तेषामचित्ता योनिः, यद्यपिसूक्ष्मैकेन्द्रियाः सकललोकव्यापिनस्तथाऽपिन तत्प्रदेशैरुपपातस्थानपुद्गला अन्योऽन्यानुगमसंबद्धा इत्यचित्तैव तेषां योनिः। एवमसुरकुमारादीनां भवनपतीनां व्यन्तरज्योतिष्कवैमानिकानांचाचित्तायोनिर्भावनीय पृथिवीकायिकादीनां संमूर्छिमनुष्यपर्यन्तानामुपपातक्षेत्रं जीवैः “परिगृहीतमपरिगृहीतमुभयस्वभावंच संभवतीति त्रिविधाऽपि योनिः, गर्भव्युत्क्रान्तितिर्यक्पञ्चेन्द्रियाणां गर्भव्युत्क्रान्तिक www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy