SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रं - १- ५/-/-/३२४ यादिस्थितिकाः तदनन्तरमेकगुणकालकादयः ततो जघन्याद्यवगाहनाप्रकारेण तदनन्तरं जघन्यस्थित्यादिभेदेन ततो जघन्यगुणकालकादिक्रमेण तदन्तरं जघन्यप्रदेशादिना भेदेनेति, उक्तं च"अणुमाइ ओहियाणं खेत्तादिपएससंगयाणं च । जहनाऽवगाहणाइण चतेव जहन्नादिदेसाणं ।।” 119 11 अस्याक्षरगमनिका - प्रथमतोण्वादीनां परमाण्वादीनां चिन्ता कर्त्तव्या, तदनन्तरं क्षेत्रादिप्रदेशसङ्गतानां, अत्रादिशब्दात्कालभावपरिग्रहः ततोऽयमर्थः - प्रथमतः क्षेत्र प्रदेशैरेकादिभिः सङ्गतानां चिन्ता कर्तव्या, तदनन्तरं कालप्रदेशः - एकादिसमयैस्ततो भावप्रदेशैः - एकगुणकालकादिभिरिति, तदनन्तरं जघन्यावगाहनादीनामिति, अत्रादिशब्देन मध्यमोत्कृष्टावगाहनाजधन्यमध्यमोत्कृष्टप्रदेशानामिति ॥ तत्र प्रथमतः क्रमेण परमाण्वादीनां चिन्तां कुर्वन्नाह--' परमाणुपोग्गलाणं भंते!' इत्यादि, स्थित्या चतुःस्थानपतितत्वं, परमाणोः समयादारभ्योत्कर्षतोऽसङ्घयेयकालमवस्थानभवात्, कालादिवर्णपर्यायैः षट्स्थानपतितत्वं एकस्यापि परमाणोः पर्यायानन्तायविरोधात्, ननु परमाणुरप्रदेशो गीयते ततः कथं पर्यायानन्त्याविरोधः ?, पर्यायानन्त्ये नियमतः सप्रदेशत्वप्रसक्तेः, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात् परमाणुर्हि अप्रदेशो गीयते द्रव्यरूपतया सांशो न भवतीति, न तु कालभावाभ्यामिति, 'अपएसो दव्वट्टयाए' इति वचनात्, ततः कालभावाभ्या सप्रदेशत्वेऽपि न कश्चिद्दोषः, २१२ तथा परमाण्वादीनामसङ्ख्यातप्रदेशस्कन्धरपर्यान्तानां केषांचिदनन्तप्रादेशिकानामपि स्कन्धानां तथैकप्रदेशावगाढानां यावत् सङ्ख्यातप्रदेशावगाढानां शीतोष्णस्निग्धरूक्षरूपाश्चत्वार एव स्पर्शा इति तैरेव परमाण्वादीनां षट्स्थानपतितता वक्तव्या, न शेषैः, द्विप्रदेशस्कन्धसूत्रे 'ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए' इत्यादि, यदा द्वावपि द्विप्रदेशिकी स्कन्धौ द्विप्रदेशावगाढावेकप्रदेशावगाढी वा भवतस्तदा तुल्यावगाहनी, यदा त्वेको गद्विप्रदेशवगाढोऽपरस्त्वेकप्रदेशावगाढस्तदा एकप्रदेशावगाढो द्विप्रदेशावगाढापेक्षया प्रदेशहीनो द्विप्रदेशावगाढस्तु तदपेक्षया (प्रदेशा) ऽभ्यधिकः शेषं प्राग्वत्, त्रिप्रदेशस्कन्धसूत्रे 'ओगाहणट्टयाए सिय हीणे' इत्यादि, यदा द्वावपि त्रिप्रदेशकी स्कन्धी त्रिप्रदेशावगाढी द्विप्रदेशावगाढो एकप्रदेशावगाढी वा तदा तुल्यौ यदा त्वेकस्त्रिप्रदेशावगाढी वा द्विप्रदेशावगाढो वा अपरस्तु द्विप्रदेशावगाढ एकप्रदेशवगाढो वा तदा द्विप्रदशवाढैकप्रदेशावगाढी यथाक्रमं त्रिप्रदेशावगाढद्विप्रदेशावगाढापेक्षया एकप्रदेशहीनी त्रिप्रदेशावगाढगद्विप्रदेशावगाढी तु तदपेक्षया एकप्रदेशाभ्यधिकी, यदा त्वेकस्त्रिप्रदेशावगाढोऽपर एकप्रदेशावगाढस्तदा एकप्रदेशावगाढस्त्रिप्रदेशावगाढपेक्षया द्विप्रदेशहीनः त्रिप्रदेशावगाढस्तु तदपेक्षया द्विप्रदेशाभ्यधिकः, एवमेकैकप्रदेशपरिवृध्या चतुः प्रदेशादिषु स्कन्धेष्ववगाहनामधिकृत्य हानिर्वृद्धिर्वा तावनद् वक्तव्या यावद्दशप्रदेशस्कन्धः, तस्मिंश्च दशप्रदेशके स्कन्धे एवं वक्तव्यं 'जइ हीणे पएसहीणे वा दुपएसहीणे वा जाव नवपएसहीणे वा अह अब्महिए पएसमब्महिए वा दुपएसमब्भहिए वा जाव नवपएसमब्भहिए वा' इति भावना पूर्वोक्तानुसारेण स्वयं कर्त्तव्या, सङ्ख्यायप्रादेशिकस्कन्धसूत्रे 'ओगाहणट्टयाए दुट्ठाणवडिए' इति सङ्घयेयभागेन सङ्घयेयगुणेन चेति, असङ्ख्यातप्रदेशकस्कन्धे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy