________________
प्रज्ञापनाउपाङ्गसूत्रं-१-४/-/२७/३०६
सव्वट्टसिद्धगदेवाणं भंते! केवइयं कालं टिई प० गो० जहन्नमणुक्कोसं तेत्तीसं सागरोवमाइं ठिई पत्रत्ता, सव्वसिद्धगदेवाणं अपजत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, सव्वसिद्धगदेवाणं पजत्तयाणं केवइयं कालं ठिई पत्रत्ता ?, गोयमा ! अजहन्नमणुक्कोसं तेत्तीसं सागरोवमाई अंतोमुहुत्तूणाई ठिई पन्नत्ता । (पत्रवणाए भगवईए चउत्थं ठिइपदं समत्तं) पदं – ४ – समाप्तम्
-
१८८
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापना उपाङ्ग सूत्रे
चतुर्थपदस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता । पदं - ५ - बिसेसपदं (पर्यायपदं)
वृ. तदेवं व्याख्यातं चतुर्थं पदं, इदानीं पञ्चममारभ्यते तस्य चायमभिसम्बन्धः - इहानन्तरपदे नारकादिपर्यायरूपेण सत्त्वानामवस्थितिरुक्ता, इह त्वौदयिकक्षायोपशमिकक्षायिकभावाश्रयपर्यायावधारणं प्रतिपाद्यते, तत्र चेदमादिसूत्रम्
मू. (३०७) कइविहा णं भंते! पजवा पन्नत्ता ?, गोयमा ! दुविहा पजवा पत्रत्ता, तंजहाजीवपजवाय अजीवपचवा य। जीवपञ्जवा णं भंते! किं संखेज्जा असंखेज्जा अनंता ?, गोयमा नो संखेना नो असंखेज्जा अनंता, से केणद्वेणं जीवपज्जवा नो संखेज्जा नो असंखेज्जा अनंता ?, गोयमा ! असंखिज्जा नेरइया असंखिज्जा असुरकुमारा असंखिज्जा नागकुमारा असंखिज्जा सुवण्णकुमारा असंखिजा बिज्जुकुमारा असंखिज्जा अगनिकुमारा असंखिजा दीवकुमारा असंखिजा उदहिकुमारा असंखिज्जा दिसीकुमारा असंखिञ्जा वाउकुमारा असंखिज्जा थणियकुमारा असंखिज्जा पुढविकाइया असंखिज्जा आउकाइया असंखिज्जा तेउकाइया असंखिज्जा वाउकाइया अनंता artफइकाइया असंखेजा बेइंदिया असंखेज्जा तेइंदिया असंखेज्जा चउरिदिय असंखेजा पंचिंदियतिरिक्खजोणिया असंखेखा मणुस्सा असंखेज्जा वाणमंतरा असंखेज्जा जोइसिया असंखेज्जा वेमाणिया अनंता सिद्धा, से एएणट्टेणं गोयमा ! एवं वुच्चइ-ते णं नो संखिजा नो असंखिज्जा अनंता ।।
वृ. 'कविहाणं भंते! पजवा पन्नत्ता ? ' इति, अथ केनाभिप्रायेण गौतमस्वामिना भगवानवं पृष्टः ?, उच्यते, उक्तमादौ प्रथमे पदे प्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा - जीवप्रज्ञापना अजीवप्रज्ञापना चेति, तत्र जीवाश्चाजीवाश्च द्रव्याणि द्रव्यलक्षणं चेदम्- 'गुणपर्यायवद्रव्य' मिति ततो जीवाजीवपर्यायभेदावगमार्थमेवं पृष्टवान्, तथा च भगवानपि निर्वचनमेवमेवाह
'गोयमा ! दुविहा पवा पन्नत्ता, तंजहा - जीवपज्जवा य अजीवपज्जवा य' इति, तत्र पर्याया गुणा विशेषा धर्म्मा इत्यनर्थान्तरं, ननु सम्बन्धं प्रतिपादयतेदमुक्तम्-इह त्वौदयिकादिभावाश्रयपर्यापरिमाणावधारणंप्रतिपाद्यत इति, औदयिकादयश्च भावा जीवाश्रयाः, ततो जीवपर्याया एव गम्यन्ते अथ चास्मिन्निर्वचनसूत्रे द्वयानामपि पर्याया उक्तास्ततो न सुन्दरः सम्बन्धः, तदयुक्तम्, अभिप्रायापरिज्ञानात्, औदयिको हि भावः पुद्गलवृत्तिरपि भवति, ततो जीवाजीवभेदेनौदयिकभावस्य द्वैविध्यान्न सम्बन्धकथननिर्वचनसूत्रयोर्विरोधः ।
सम्प्रति सम्बन्ध (पर्याय) परिमाणावगमाय पृच्छति - 'जीवपज्जवा णं भंते! किं संखेज्जा' इत्यादि, इह यस्माद्वनस्पतिसिद्धवर्णाः सर्वेऽपि नैरयिकादयः प्रत्येकमसङ्ख्येयाः मनुष्येष्वसङ्घयेयत्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org