SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७६ प्रज्ञापनाउपाङ्गसूत्र-१-३/-२७/२९७ सूक्ष्मनिगोदा अपर्याप्तका असङ्खयेयगुणाः ७२ तेभ्योऽपि पर्याप्ता; सूक्ष्मनिगोदाः सङ्घयेयगुणाः ७३ यद्यपिचापर्याप्ततेजःकायिकादयः पर्याप्तसूक्षमनिगोदपर्यन्ता अविशेषेणान्वत्रासङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणा उक्तास्तथाऽपि लोकासङ्घयेयत्वस्यासङ्घयेयभेदभिन्नत्वाद् इत्थमल्पबहुत्वमभिधीयमानमुपपन्नं द्रष्टव्यं, तेभ्योऽभवसिद्धिका अनन्तगुणाः जघन्ययुक्तानन्तकप्रमाणत्वात् ७४ तेभ्यः प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणाः ७५ तेभ्यः सिद्धा अनन्तगुणाः ७६ तेभ्योऽपि बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः ७७तेभ्योऽपिसामान्यतोबादरपर्याप्ताविशेषाधिकाः, बादरपर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ७८।। -तेभ्यो बादरापर्याप्तवनस्पतिकायिका असङ्ख्येयगुणाः, एकैकबादरनिगोदपर्याप्तनिश्रया असङ्घयेयगुणाना बादरापर्याप्तनिगोदानां संभवात् ७९ तेभ्यः सामान्यतो बादरापर्याप्ता विशेषाधिकाः, बादरापर्याप्तपृथिवीकायिकादीनामपितत्र प्रक्षेपात् ८० तेभ्यः सामान्यतो बादरा विशेषाधिकाः पर्याप्तापर्याप्तानांतत्र प्रक्षेपात् ८१ तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ताअसङ्ख्येयगुणाः ८२ तेभ्यः सामान्यतः सूक्ष्माअपर्याप्तका विशेषाधिकाः सूक्ष्मापर्याप्तपृथिवीकायिकादीनामपि तत्रप्रक्षेपात्८३ तेभ्यः सूक्ष्मवन्स्पतिकायिकाः पर्याप्ताःसजयेयगुणाः, पर्याप्तसूक्ष्माणामप्याप्तेभ्यः सूक्ष्मेभ्यः स्वभावतः सदैव सङ्ख्येयगुणतया प्राप्तमाणत्वात्, तथाकेवलवेदसोपलब्धेः ८४ तेभ्योऽपि सामान्यतः सूक्ष्मपर्याप्ता विशेषाधिकाः, पर्याप्तसूक्ष्मपृथीवाकियाकीदीनामपि तत्र प्रक्षेपात् ८५ तेभ्यः पर्याप्तपर्याप्तविशषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्याप्तसूक्ष्मपृथिव्यप्तेजोवायुवनस्पतिकायिकानामपितत्र प्रक्षेपात् ८६तेभ्योऽपि भवसिद्धिका' भवेसिद्धिर्येषांते भवसिद्धिकाभव्या विशेषाधिकाः, जघन्ययुक्तानन्तकमात्रामव्यपरिहारेण सर्वजीवानां भव्यत्वात् ८७ । -तेभ्यः सामान्यतो निगोदजीवा विशेषाधिकाः, इह भव्या अभव्याश्चातिप्राचुर्येण सूक्ष्मबादर-निगोदजीवराशावेवप्राप्यन्ते नान्यत्र अन्येषां सर्वेषामपि मिलितानामसंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात्, अभव्याश्च युक्तानन्तकसंख्यामात्रपरिमाणास्ततो भव्यापेक्षया ते किञ्चिन्मात्राः भव्याश्च प्रागभव्यपरिहारेण चिन्तिताः इदानींतुबादरसूक्षामनिगोदचिन्तायां तेऽपि प्रक्षिप्यन्ते इति विशेषाधिकाः ८८ तेभ्यः सामन्यतो वनस्पतिजीवा विशेषाधिकाः, प्रत्येकशरीराणामपिवनस्पति-जीवानांतत्रप्रक्षेपात् ८९ तेभ्यः सामान्यत एकेन्द्रिया विशेषाधिकाः, बादरसूक्ष्मपृथिवीकायिकादीनामपितत्र प्रक्षेपात्९० तेभ्यः सामान्यतस्तिर्यग्योनिका विशेषाधिकाः, पर्याप्तापर्याप्तद्वित्रिचतुरि-न्द्रियतिर्यक्पञ्चेन्द्रियाणमपि तत्र प्रक्षेपात् ९१ । -तेभ्यश्चतुर्गतिभाविनो मिथ्यादृष्टयो विशेषाधिकाः, इह कतिपयाविरतसम्यग्दृष्टादिसंज्ञिव्यतिरेकेण शेषाः सर्वेऽपि तिर्यञ्चो मिथ्यादृष्टयः,चातुर्गतिकमिथ्याष्टिचिन्तायांचासंख्येया नारकादयस्तत्र प्रक्षिप्यन्ते ततस्तिर्यग्जीवराश्यपेक्षया चतुर्गतिकमिथ्यादष्टयश्चिन्त्यमाना विशेषाधिकाः ९२ तेभ्योऽप्यविरता विशेषाधिकाः, अविरतसम्यग्दृष्टीनां तत्र प्रेपात् ९३ तेभ्यः सकषायिणो विशेषाधिकाः, देशविरतादीनामपि तत्र प्रक्षेपात् ९४ तेभ्यः छद्मस्था विशेषाधिकाः, उपशान्तमोहादीनामपि तत्र प्रक्षेपात् ९५ तेभ्यः सयोगिनो विशेषाधिकाः, सयोगिकेवलिनामपि तत्र प्रक्षेपात् ९६ तेभ्यः संसारस्था विशेषाधिकाः, अयोगिकेवलिनामपि तत्र प्रक्षेपात् ९७ तेभ्यः सर्वजीवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy