SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १६५ पद-३, उद्देशकः-, द्वारं-२५ तथा सर्वस्तोकाः सुप्ताः,जागराः सङ्ख्येयगुणाः, एतदपिसूक्ष्मानेकेन्द्रियानधिकृत्य वेदितव्यं, यस्मादपर्याप्ताः सुप्ता एव लभ्यन्ते, पर्याप्ताजागरा अपि, [उक्तंच मूलटीकाया-“जम्हा अपज्जत्ता सुत्ता लब्मंति, केइ अपज्जत्तगा जेसिं संखिज्जा समया अतीता ते य थोवा इयरेऽवि थोवगा चेव सेसा, जागरा पजत्ता ते संखिज्जगुणा" इति] जागराः पर्याप्तस्तेन सङ्घयेयगुणा इति । तथा समवहताःसर्वस्तोकाः, यत इह समवहता मारणान्तिकसमुद्घातेन परिगृह्यन्ते, मारणान्तिकश्च समुद्घातो मरणकाले न शेषकालं, तत्रापि न सर्वेषामिति सर्वस्तोकाः, तेभ्योऽसमवहता असङ्ख्येयगुणाः, जीवनकालस्यातिबहुत्वात्। तथा सर्वस्तोकाः सातवेदकाः, यत इह बहवः साधारणशरीरा अल्पेच प्रत्येकशरीरिणः, साधारणशरीराश्च बहवोऽसातवेदकाः स्वल्पाः सातवेदिनःप्रत्येकशरीरिणस्तुभूयांसः सातवेदकाः स्तोका असातवेदिनः, ततः स्तोकाः सातवेदकाः तेभ्योऽसातवेदकाः सङ्घयेयगुणाः । तथा सर्वस्तोका इन्द्रियोपयुक्ताःतेभ्यो नोइन्द्रियोपयुक्ताः सङ्घयेयगुणाः,इन्द्रियोपयोगो हि प्रत्युत्पन्नाकालविषयः ततस्तदुपयोगकालस्य स्तोकत्वात् पृच्छासमये स्तोका अवाप्यन्ते, यदा तुतमेवार्थमिन्द्रियेण दृष्ट्वाविचारयत्योघसंज्ञयाऽपि तदा नोइन्द्रियोपयुक्तः स व्यपदिश्यते ततो नोइन्द्रियोपयोगस्यातीतानागतकालविषयतया बहुकालत्वात् सङ्ख्येयगुणा नोइन्द्रियोपयुक्ताः तथा सर्वस्तोकाअनाकारोपयुक्ताः,अनाकारोपयोगकालस्यस्तोकत्वात्, साकारोपयुक्ताः सङ्ख्येयगुणाः,अनाकारोपयोगकालात् साकारोपयोगकालस्य सङ्खयेयगुणत्वात् ॥ इदानीं समुदायगतं सूत्रोक्तमल्पबहुत्वं भाव्यते सर्वस्तोकाजीवा आयुःकर्मणो बन्धकाः, आयुर्बन्धकालस्यप्रतिनियतत्वात्, तेभ्योऽपर्याप्ताः सङ्ख्येयगुणाः, यस्मादपर्याप्ताअनुभूयमानभवत्रिभागाद्यवशेषायुषः पारभविकमायुर्बध्नान्तिततो द्वौ त्रिभागावबन्धकाल एको बन्धकाल इति बन्धकालादबन्धकालःसङ्खयेयगुणः तेन सङ्घयेयगुणा एवापर्याप्ता आयुर्बन्धकेभ्यः, तेभ्योऽपर्याप्तेभ्य सुप्ताः सङ्घयेयगुणाः, यस्मादपर्याप्तेषु पर्याप्तेषु च सुप्तालभ्यन्ते, पर्याप्ताश्चापर्याप्तेभ्यः सङ्खयेयगुणा इत्यपप्तिभ्यः सुप्ताः सङ्ख्येयगुणाः,तेभ्यः समवहताःसङ्ख्येयगुणाः, बहूनांपर्याप्तेष्वपर्याप्तेषुमारणान्तिकसमुद्घातेन समवहतानांसदालभ्यमानत्वात्, तेभ्यः सङ्घयेयगुणाः, आयुर्बन्धकापर्याप्तसुप्तेष्वपि सातवेदकानां लभ्यमानत्वात्, -तेभ्य इन्द्रियोपयुक्ताः स ययगुणाः असातवेदकानामपि इन्द्रियोपयोगस्यलभ्यमानत्वात्, तेभ्योऽनाकारोपयोगोपयुक्ताः स ययगुणाः,इन्द्रियोपयोगेषुनोइन्द्रियोपयोगेषुचानाकारोपयोगस्य लभ्यमानत्वात, तेभ्यःसाकारोपयुक्ताः सङ्घयेयगुणाः, इन्द्रियोपयोगेषुनोइन्द्रियोपयोगेषुच साकारोपयोगकालस्य बहुत्वात्, तेभ्यो नोइन्द्रियोपयोगोपयुक्ता विशेषाधिकाः, नोइन्द्रियानाकारोपयुक्तानामपि तत्र प्रक्षेपात्, अत्र विनेयजनानुग्रहार्थमसमभावस्थापना निदर्शनमुच्यते-इह सामान्यतः किल साकारोपयुक्ता द्विनवत्यधिकं शतं ते च किल द्विधा-इन्द्रियसाकारोपयुक्ता नोइन्द्रियासाकारोपयुक्ताश्च, तत्रेन्द्रियसाकारोपयुक्ताः किलातीव स्तोका इति विंशतिसञ्जयाः कल्प्यन्ते, शेषं द्विसप्तत्युत्तरशतं नोन्द्रियसाकारोपयुक्ताः, नोइन्द्रियानाकारोपयुक्ताश्च द्विपञ्चाशत्कल्पाः, ततः सामान्यतः साकारोपयुक्तेभ्यः इन्द्रियासाकारोपयुक्तेषुविंशतिकल्पेष्वपनीतेषु द्विपञ्चाशत्कल्पेषु अनाकारोपयुक्तेषु तेषु मध्ये प्रक्षिप्तेषु द्वे शते चतुर्विंशत्यधिके भवतः, ततः साकारोपयुक्तेभ्यो नोइन्द्रियोपयुक्ता विशेषाधिकाः, तेभ्योऽसातवेदका विशेषाधिकाः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy