SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ पदं-३, उद्देशकः-, द्वारं-४ १३७ जलेषुसवापिच भावात्, पनकसेवालादयो हिजलेऽवश्यंभाविनः तेच बादरानन्तकायिका इति, तेभ्योऽपि बादरपृथिवीकायिका असङ्ग्येयगुणाः, अष्टासु पृथिवीषु सर्वेषु विमानभवन पर्वतादिषुभावात्, तेभ्योऽसङ्ग्येयगुणा बादराप्कायिकाः समुद्रेषुजलप्राभूत्यात्, तेभ्यो बादरवायुकायिका असङ्घययेगुणाः, सुषिरे सर्वत्र वायुसंभवात्, तेभ्यो बादरवनस्पतिकायिका अनन्तगुणाः, प्रतिबादरनिगोदमनन्तानंजीवानां भावात्, तेभ्यः सामान्यतो बादराजीवा विशेषाधिकाः, बादरत्रसकायिकादीनामपि तत्रप्रक्षेपात्।गतमेकमौधिकानांबादराणामल्पबहुत्वम्, इदानीमेतेषामेवापर्याप्तानां द्वितायमाह- 'एएसिणंभंते! बायरापजत्तगाणं' इत्यादि, सर्वस्तोका बादरत्रसकायिका अपर्याप्तकाः, युक्तिरत्र प्रागुक्तैव, तेभ्यो बादरतेजःकायिका अपर्याप्ता असङ्खयेयगुणाः, असङ्ख्ययेलोकाकाश-प्रदेशप्रमाणत्वात्, इत्येवं प्रागुक्तक्रमेणेदमप्यल्पबहुत्वं भावनीयं । गतं द्वीतीयमल्पबहुत्वम्, इदानीमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह _ 'एएसिणं भंते ! बायरपज्जत्तगाणं' इत्यादि, सर्वस्तोका बादरतेजःकायिकाः पर्याप्ताः, आवलिकासमयवर्गस्य कतिपयसमन्यूनैरावलिकासमयैर्गुणितस्य यावान्यसमयराशिर्भवति तावप्रमाणत्वात्तेषा, उक्तंच-“आवलियवग्गो ऊणावलिए गुणिओहुबायरा ते उ" इति तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्खयेयगुणाः, प्रतरे यावन्त्यङ्गुलसङ्ख्येयभागमात्राणि खण्डानि तावप्रमाणत्वात्तेषां, तेभ्यःप्रत्येकशरीरबादरवनस्पतिकायिकाः पर्याप्ताः असङ्ख्येयगुणाः, प्रतरे यावन्त्यालासङ्खयेयभागमात्राणिखण्डानितावामाणत्वात्तेषां, उक्तंच-“पत्तेयपञ्जवणकाइयाओ पयरं हरति लोगस्स । अङ्गुलअसंखभागेण भाइय"मिति तेभ्यो बादरनिगोदाः पर्याप्तका असङ्खयेयगुणातः, तेषामत्यन्तसूक्ष्मावगाहनन्तावजलाशयेषु च सर्वत्र भावात्, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ताः असङ्खयेयगुणाः, अतिप्रभूतसञ्जयप्रतराङ्गुलासङ्ख्येयभागखण्डमानत्वात्, तेभ्योऽपिवादराकायिकाः पर्याप्ताअसङ्ख्येयगुणाः,अतिप्रभूततरसङ्ख्यप्रतराहुलासङ्घयेयभागखण्डमानत्वात्, तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्ख्येयगुणाः, धनीकृतस्य लोकस्यासङ्ख्येयेषु सङ्ख्याततमभागवर्तिषु यावन्त आकाशप्रदेशास्तावप्रमाणत्वात्तेषां, तेभ्यो बादरवनस्पतिकायिकाः पर्याप्ताअनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, बादरतेजःकायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । गतं तृतीयमल्पबहुत्वम्, इदानीमेतेषामेव पर्याप्तपर्याप्तगतान्यल्पबहुत्वान्याह ___ “एएसिणंभंते १ बायराणंपञ्जत्तापज्जत्ताणं इत्यादि, इह बादरैकैकपर्याप्तनिश्रयाअसङ्ख्येया बादरा अपर्याप्ताउत्पद्यन्ते, पजत्तगनिस्साए अपज्जत्तगावक्कमंति, जत्थएगोतत्तनियमाअसंखेजा' इतिवचनात्, ततः सर्वत्र पर्याप्तेभ्योऽपर्याप्ताअसङ्खयेयगुणा वक्तव्याः, त्रसकायिकसूत्रप्रागुक्तयुक्त्या भावनीयं गतंचतुर्थमल्पबहुत्वम्, सम्प्रत्येतेषामेव समुदितानांपर्याप्तापर्याप्तानांपञ्चममल्पबहुत्वमाह- 'एएसि णं भंते ! बायराणं बायरपुढवीकाइयाणं' इत्यादि, सर्वस्तोकाः बादरतेजःकायिकाः पर्याप्तकाः तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्खयेयगुणाः तेभ्यो बादरत्रसकायिका अपर्याप्ता असङ्खयेयगुणाः तेभ्यो बादरुप्रत्येकवनस्पतिकायिकाः पर्याप्ता असङ्ख्येयगुणाः तेभ्योबादरनिगोदा; पर्याप्तकाअसङ्घयेयगुणाः तेभ्योबादरप्रत्येकवनस्पतिकायिकाः पर्याप्ता असङ्खयेयगुणाः तेभ्यो बादरनिगोदाः पर्याप्तका असङ्खयेयगुणाः तेभ्योबादरपृथिवीकायिकाः For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy