SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०२ प्रज्ञापनाउपाङ्गसूत्र-१-२/-/-/२०९ छायाला छत्तीसा उत्तरओ हुंति भवणाई।। मू. (२१०) चउसठ्ठी सट्टी खलु छच्छ सहस्साइं असुरवजाणं। सामाणिआ उ एए चउग्गुणा आयरक्खा उ॥ मू. (२११) चमरे धरणे तह वेणुदेवे हरिकंत अग्गिसीहे य। पुग्ने जलकंते या अमिय विलंबे य घोसे य।। भू. (२१२) बलि भूयनंदे वेणुदालि हरिस्सहे अग्गिमानव विसिड्ढे । जलपह तहऽमियवाहणे पभंजणे य महाघोसे ।। वृ.'चउसट्ठी सट्ठी खलु इत्यादि, दाक्षिणात्यस्यासुरकुमारेन्द्रस्य सामानिकादेवाः चतुःषष्टिसहस्राणि, उत्तराहस्य षष्टिसहस्राणि,असुरवर्जानाम्-असुरकुमारेन्द्रवर्जानां शेषाणां सर्वेषामपि दाक्षिणात्यानामौत्तराहाणांचषट्पट्सहस्राणि प्रत्येकं सामाणिआउएए' इति एतेऽनन्तरोक्तसंख्यायका देवाः सामानिका ज्ञातव्याः,आत्मरक्षकाः पुनःसर्वत्रापिसामानिकचतुर्गुणाः प्रतिपत्तव्याः इदानींदाक्षिणात्यानामौत्तराहाणांचासुरकुमारादीनां यथाक्रमिन्द्रादन् निर्दिशति-'चमरे धरणे' इत्यादि, दाक्षिणात्यानामसुरकुमाराणामधिपतिश्चमरः, नागकुमाराणां धरणः, सुवर्णकुमाराणां वेणुदेवः, विद्युत्कुमाराणां हरिकान्तः,अग्निकुमाराणामग्निसिंहः द्वीपकुमाराणां पूर्णः, उदधिकुमाराणां जलकान्तः, दिक्कु माराणाममितः, वायुकुमाराणां वेलम्बः, स्तनितकुमाराणां घोषः । 'बलिभूयानंदे' इत्यादि, उत्तरिदिग्वर्तिनामसुरकुमाराणामिन्द्रो बलिः, नागकुमाराणां भूतानन्दः, सुवर्णकुमाराणां वेणुदालिः, विद्युत्कुमाराणां हरिस्सहः,अग्निकुमाराणामग्नेिमाणवः, द्वीपकुमाराणां विशिष्टः उदधिकुमाराणां जलप्रभः, दिक्कुमाराणाममितवाहनः, वायुकुमाराणां प्रभञ्जनः, स्तनितकुमाराणां महाघोषः॥ मू. (२१३) उत्तरिल्लाणं जाव विहरंति काला असुरकुमारा नागा उदही य पंडुरा दोवि। वरकणगनिहसगोरा हुँति सुवन्ना दिसा धणिया ।। मू. (२१४) उत्तत्तकणगवन्ना विजू अग्गी य होति दीवा य। सामा पियंगुवत्रा वाउकुमारा मुणेयव्वा ।। इ.सम्प्रतिवर्णसंग्रहार्थमाह-'कालाअसुरकुमारा' इत्यादिगाथाद्वयं, असुरकुमाराः सर्वेऽपि कालाः-कृष्णवर्णाः, नागकुमारा उदधिकुमाराश्चैतेउभयेऽपि पाण्डुराः-श्वेतवर्णाः, वरं-जात्यं यत्कनकंतस्यनिघर्षः-कषपट्टकेरेखा तद्वद् गौरा भवन्ति सुवर्णकुमारादिक्कुमाराः स्तनितकुमाराश्च, तथा विद्युत्कुमारा अग्नुकुमारा द्वीपकुमारा भवन्त्युत्तप्तकनकवर्णाः, ईषद्रक्तवर्णा इति भावः, वायुकुमाराः श्यामाः, श्यामत्वमेव स्पष्टयति-प्रियङ्गुवर्णः॥ मू. (२१५) असुरेसु हुंति रत्ता सिलिंधपुप्फप्पभा य नागुदही। आसासगवसणधरा होति सुवन्ना दिसा थणिया ।। मू. (२१६) नीलाणुरागवसणा विजू अग्गी य हुँति दीवा य। संज्ञाणुरागवसणा वाउकुमारा मुणेयव्वा ।। वृ.सम्प्रति वस्त्रगतवर्णप्रतिपादनार्थमाह-'असुरेसुहंतिरत्ता' इत्यादि गाथाद्वयं, असुरेषुअसुरकुमारेषुभवन्तिवस्त्राणि रक्तानि, नागकुमारेषूदधिकुमारेषुचशिलिन्ध्रपुष्पप्रभाणि नीलवर्णा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy