SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - २, पञ्चत्थिमउत्तरेणं असंखेज्जगुणा, दाहिणेणं असंखेज्जगुणा । दाहिणिल्लेहितो तमापुढविनेरइएहितो पंचमाए पुढवीए नेरइया पुरथिमपच्चस्थिमउत्तरेणं असंखेज्जगुणा, दाहिणेणं असंखेनगुणा । दाहिणिल्लेहितो घूमप्पभापुढविनेरइएहितो चउत्थीए पंकप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणंअसंखेजगुणा, दाहिणेणं असंखेजगुणा। दाहिणिल्लेहितो पंकप्पभापुढविनेरइएहितो तइयाए वालुयप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा। दाहिणिल्लेहिंतो वालुयप्पभापुढविनेरइएहितो दुइयाए सक्करप्पभाए पुढवीएनेरइया पुरस्थिमपञ्चस्थिमउत्तरेणं असंखेनगुणा, दाहिणेणं असंखेनगुणा । दाहिणिल्लेहितो सक्करप्पमापुढवीनेरइएहिंतो इमीसे रयणप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेज्जगुणा" । सम्प्रति तिर्यग्योनिकनपुंसकविषयमल्पबहुत्वमाह 'एएसिणमित्यादि, सर्वस्तोकाः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः, प्रतरासङ्खयेयभागवय॑सङ्खयेश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यः स्थलचरतिर्यग्योनिकनपुंसकाः सङ्ख्येयगुणाः, बृहत्तरप्रतरासङ्खयेयभागवयसङ्घयेयश्रेणिगतनभःप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि जलचरतिर्यग्योनिकनपुंसका विशेषाधिकाः, असङ्खयेययोजनकोटीकोटीप्रमाणाकाशप्रदेशराशिप्रमाणासुघनीकृतस्यलोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तोनभःप्रदेशास्तावप्रमाणत्वात्, तेभ्यस्त्रीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि द्वीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमश्रेणिगताकाशप्रदेशराशिमानत्वात्, तेभ्यस्तेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका असङ्घयेयगुणाः, सूक्ष्मबादरभेदभिन्नानां तेषामसङ्खयेयलोकाकाशप्रदेशपरिमाणत्वात्, तेभ्यः पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूतासङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्योऽकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरासङ्घयेयलोकाकाशप्रदेशमानत्वात्, तेभ्योऽपि वायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमासङ्खयेयलोकाकाशप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात् । अघुना मनुष्यनपुंसकविषयमल्पबहुत्वमाह- ‘एएसिण'मित्यादि, सर्वस्तोका अन्तरद्वीपजमनुष्यनपुंसकाः, एते च संमूर्छनजा द्रष्टव्याः, गर्भव्युत्माक्रकमनुष्यनपुंसकानां तत्रासम्भवात्, संहृतास्तु कर्मभूमिजास्तत्र भवेयुरपि, तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसकाः सङ्खयेयगुणाः, तद्गतगर्भजमनुष्याणामन्तरद्वीपजगर्भजमनुष्येभ्यः सङ्घयेयगुणत्वात्, गर्भजमनुष्योचाराद्याश्रयेणच संमूर्छिममनुष्याणामुत्पादात्, स्वस्थाने तुद्वयेऽपि परस्परंतुल्याः, एवं तेभ्यो हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यनपुंसाः सङ्खयेयगुणाः स्वस्थाने तु द्वयेऽपिपरस्परंतुल्याः तेभ्योऽपि हैमवतहैरण्यवतवर्षाकर्मभूमकमनुष्यनपुंसकाः सङ्ग्येयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परंतुल्याः,तेभ्यो भरतैरावतवर्षकर्मभूमकमनुष्यनपुंसकाः सङ्ग्येयगुणाः, स्वस्थाने तुद्वयेऽपि परस्परंतुल्याः, तेभ्यः पूर्वविदेहापरविदेहकर्मभूमकमनुष्यनपुंसकाः सवयेयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, युक्ति सर्वत्रापि तथैवानुसतव्या । राम्प्रति नैरपिकतिग्मिनुष्यविषयमल्पबहुत्वमाह-एएसिणं भंते !' इत्यादि, सर्वस्तोका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy