________________
प्रतिपत्ति: १,
-
कालतो केवखि होति ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं असंखेज्जाओ उस्सप्पिणी ओसप्पिणीओ कालओ, खेत्तओ असंखेज्जा लोगा, एवं वाउक्कइयावि" इति । । सम्प्रति स्थावरत्वस्यान्तरं विचिन्तयिषुराह - 'थावरस्स णं भंते! अंतर' मित्यादि सुगमं नवरमसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसङ्घयेया लोकाः, इत्येतावव्यमाणमन्तरं तेजस्कायिकवायुकायिकमध्यगमनेनावसातव्यम्, अन्यत्र गतावेतावत्प्रमाणस्यान्तरस्यासम्भवात् ।
'तसस्स णं भंते! अंतर' मित्यादि सुगमं नवरम् 'उक्कोसेणं वणस्सइकालो' इति, उत्कर्षतो वनस्पतिकालो वक्तव्यः, स चैवम् - "उक्कोसेणं अनंतमनंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अनंता लोगा, असंखेज्जा पोग्गलपरियट्टा, ते णं षोग्गलपरियट्टा आवलियाए असंखेज्जइभागो" इति एतावत्प्रमाणं वनस्पतिकायमध्यगमनेन प्रतिपत्तव्यम्, अन्यत्र गतावेतावतोऽन्तरस्यालभ्यमानत्वात् ।
सम्प्रत्यल्पबहुत्वमाह - एतेषां भदन्त ! जीवानां त्रसानां स्थावराणां च मध्ये कतरे कतमेभ्योऽल्पा वा बहवो वा कतरे कतरैस्तुल्या वा ?, अत्र सूत्रे विभक्तिपरिणामेन तृतीया व्याख्येया, तथा कतरे कतरेभ्यो (Sल्पा बहुकास्तुल्या) विशेषाधिका वा ?, भगवानाह - गौतम ! सर्वस्तोकास्त्रसाः, असङ्ख्यातत्वमात्रप्रमाणत्वात्, स्थावरा अनन्तगुणाः, जघन्योत्कृष्टधनन्ताननतसङ्ख्यापरिमाणत्वात्, उपसंहारमाह- 'सेत्तं दुविहा संसारसमावन्ना जीवा' इति ।।
प्रथमा - "द्विविधां" प्रतिपत्ति समाप्ता
मुनि दीपरत्न सागरेण संशोधिता सम्पादीता जीवाजीवाभिगम उपाङ्ग सूत्रे प्रथमा प्रतिपत्याः मलगयगिरि आचार्य विरचिता टीका परिसमाप्ता ।
६१
प्रतिपत्ति २ " त्रिविधा"
वृ. तदेवमुक्ता द्विविधे प्रतिपत्तिः, सम्प्रति त्रिविधा प्रतिपत्तिरारभ्यते, तत्र -
भू. (५२) तत्थ जे ते एवमाहंसु तिविधा संसारसभावण्णगा जीवा पन्नत्ता ते एवमाहंसु, तंजहा - इत्थि पुरिसा नपुंसका ॥
वृ. 'तत्र तेषु नवसु प्रतिपत्तिषु मध्ये ये आचार्य एवमाख्यातवन्तः - त्रिविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्त एवमाख्यातवन्तः, तद्यथा - स्त्रियः पुरुषा नपुंसकानि । इह स्त्र्यादिवेदोदयाद् योन्यादिसङ्गताः स्त्र्यादयो गृह्यन्ते, तथा चोक्तम् । “योनिर्मृदुत्वमस्थैर्यं, मुग्धताऽऽबलता स्तनौ । पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते ।
॥१॥
॥२॥
मेहनं खरता दाढर्यं, शौण्डीर्यं श्मश्रु धृष्टता । स्त्रीकामितेति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् ।
"
|| 3 ||
नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥
तत्र 'यथोद्देशं निर्देश' इति स्त्रावक्तव्यतामाह- 'से किं तमित्यादि, अथ कास्ताः स्त्रियः ?, सूरिराह - स्त्रियस्त्रिविधाः प्रज्ञप्ताः, तद्यथा-तिर्यग्योनिस्त्रियो मनुष्यस्त्रियो देवस्त्रियश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org