________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १ /-/ ५१
पुद्गलपरावर्तेषु क्षेत्रत इति पदसांनिध्यात्क्षेत्र पुद्गलपरावर्तेषु यावत्यः संभवन्ति अनन्ता उत्सर्पिण्यवसर्पिण्यस्तावत्य इति भावः, इहासङ्घयेयमसङ्घयेयभेदात्मकमतः पुद्गलपरावर्त्तगतमसङ्कयेययत्वं निर्द्धारयति - ते ण 'मित्यादि, ते णमिति वाक्यालङ्कारे पुद्गलपरावर्त्ता आवलिकाया असङ्ख्येयो भागः, आवलिकाया असङ्घयेयतमे भागे यावन्तः समयास्तावप्रमाणा इत्यर्थः, एतच्च वनस्पतिकायस्थितिमङ्गिकृत्य वेदितव्यं, न पृथिव्यम्बुकायस्थितिव्यपेक्षया तयोः कायस्थितेरुत्कर्षतोऽप्यसङ्घयेयोत्सर्पिणीप्रमाणत्वात्, तथा चोक्तं प्रज्ञापनायाम्
'पुढविक्काइए णं भंते! पुढविक्काइ यत्ति कालओ केवच्चिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तमुक्कोसेणं असंखिज्ज्रं कालं असंखिज्जाओ उस्सप्पिणिअवसप्पिणीओ कालओ, खेत्तओ असंखिज्जा लोगा, एवं आउक्काएवि" इति, या तु वनस्पतिकायस्थिति सा यथोक्तप्रमाणा तत्रोक्ता “वणस्सइकाइए णं भंते ! वणस्सइकायत्ति काल कियच्चिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अनंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खित्तओ अणंता लोगा असंखिज्जा पुग्गलपरियट्टा आवलियाए असंखिज्जइभागे" इति ।
एषोऽपि च वनस्पतिकायस्थितिकालः सांव्यवहारिकजीवानधिकृत्य प्रोच्यते, असांव्यवहारिकजीवानां तु कायस्थितिरनादिरवसेया, तथा चोक्तं विशेषणवत्याम्|| 9 || "अत्थि अनंता जीवा जेहिं न पत्तो तसाइपरिणामो । तेवि अनंतानंता निगोयवासं अणुवसंति ॥"
साऽपि तेषामसांव्यवहारिकजीवानामनादि कायस्थिति केषाञ्चिनादिरपर्यवसाना, ये न जातुचिदसांव्यवहारिकराशेरुद्दवृत्य सांव्यवहारिकराशौ निपतिष्यन्ति, केषाञ्चिदनादि सपर्यवसाना, ये असांव्यवहारिकराशेरुद्धृत्य सांव्यवहारिकराशौ निपतिष्यन्ति ।
अथ किमसांव्यवहारिकराशेर्विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति ? येनैवं प्ररूपणा क्रियते, आगच्छन्ति, कथमवसीयते ? इति चेदुच्यते- पूर्वाचार्योपदेशात्, तथा चाह दुःषमान्धकारनिमग्नप्रवचनप्रदीपो भगवान् जिनभद्रगणि क्षमाश्रमणो विशेषणवत्याम्-
॥१॥ "सिज्झति जत्तिया किर इह संववहारजीवरासिमज्झाओ ।
६०
इंति अणाइवणस्सइरासीओ तत्तिया तंमि ॥"
इति कृतं प्रसङ्गेन । सम्प्रति त्रसकायस्य कायस्थितिमानमाह-- 'तसे णं भंते' इत्यादि, तसे 'ण' मिति पूर्ववत् ' त्रस इति' त्रस इत्यनेन पर्यायेण कालतः 'कियच्चिरं' कियन्तं कालं यावद्भवति ?, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽसङ्घयेयं कालम्, एनमेवासङ्घयेयं कालक्षेत्राभ्यां निरूपयति- 'असंखिज्जाओ' इत्यादि, असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसङ्घयेया लोका असङ्घयेयेषु लोकेषु यावन्त आकाश-प्रदेशास्तवां प्रतिसमयमेकैकापहारे यावत्योऽसङ्घयेया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इति भावः, इयं चैतावती कायस्थितिर्गतित्रसं तेजस्कायिकं वायुकायिकं चाधिकृत्यावसेया न तु लब्धित्रसं, लब्धित्रसस्य कायस्थितेरुत्कर्षतोऽपि कतिपयवर्षाधिकसागरोपमसहस्रद्वयप्रमाणत्वात्, तथा चोक्तं प्रज्ञापनायाम्
“तसकाए णं भंते ! तसकायत्ति कालतो कियच्चिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमन्भहियाई' तथा 'तेउक्काइए णं भंते! तेउक्काइएत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org