SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४८ जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/४४ स्फटाकरणशक्तिविकला इत्यर्थः, अत्रापिचशब्दौस्वगतानेकभेदसूचकी, 'आसीविसा' इत्यादि, आस्यो-दंष्ट्रास्तासु विषं येषां ते आसीविषाः, उक्तंच-"आसी दाढा तग्गयविसाऽऽसीविसा मुणेयव्वा” इति, दृष्टौ विषं येषां ते दृष्टिविषाः, उग्रं विषं येषां ते उग्रविषाः, भोगः-शरीरं तत्र सर्वत्र विषं येषां ते भोगविषाः, त्वचि विषं येषां त त्वग्विषाः, प्राकृतत्वाच 'तयाविसा' इति पाठः, लाला-मुखात्श्वावस्तत्र विषं येषां ते लालाविषाः, निश्वासे विषं येषां ते निश्वासविषाः कृष्णसदियो जातिभेदा लोकतः प्रत्येतव्याः। ‘से किंतं आसालिगा' इत्यादि, अथ का सा आसालिगा?,एवं शिष्येण प्रश्ने कृते सति सूत्रकृद् यदेवासालिकाप्रतिपादकं गौतमप्रश्नभगवनिर्वचनरूपं सूत्रमस्ति तदेवागमबहुमानतः पठति-'कहिणंभंते!' इत्यादि, क णमिति वाक्यालङ्कारे भदन्त! परमकल्याणयोगिन्! आसालिया संमूर्छति, एषा हि गर्भजान भवति किन्तु संमूर्छिमैव तत उक्तंसंमूर्च्छति, भगवानाह-गौतम! अन्तः-मध्ये मनुष्यक्षेत्रस्यन बहि, एतावता मनुष्यक्षेत्राद्वहिरस्या उत्पादोनभवतीतिप्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्तु अर्द्धतृतीयेषु द्वीपेषु, अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयाः, अवयवेन विग्रहः समुदायः समासार्थतेषु, एतावतालवणसमुद्रे कालसमुद्रे वा न भवतीत्यावेदितं, 'निव्याघतिन' व्याघातस्याभावो निव्या_तं तेन, यदि पञ्चसु भरतेषु पञ्चस्वैरावतेषु सुषमसुषमादिरूपोऽतिदुष्षमादिरूपश्च कालो व्याघातहेतुत्वाद् व्याघातो न भवति तदा पञ्चदशसुकर्मभूमिषु संमूर्च्छति, व्याघातं प्रतीत्य । किमुक्तं भवति ?-यदि पञ्चसु भरतेषु पञ्चस्वैरावतेषु यथोक्तरूपो व्याघातो भवति ततः पञ्चसु महाविदेहेषु संमूर्च्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायत इति प्रतिपादितं, पञ्चदशसु कर्मभूमिषु पञ्चसु महाविदेहेषु सर्वत्र न संमूर्च्छति किन्तु चक्रवर्तिस्कन्धावारेषु बलदेवस्कन्धावारेषुवासुदेवस्कन्धावारेषु माण्डलिकः-सामान्यराजाऽल्पर्द्धिकः, महामाण्डलिकः स एवानेकदेशाधिपतिस्तत्स्कन्धावारेषु, ग्रामनिवेशेषु इत्यादि, प्रसति बुद्धयादीन् गुणानिति यदिवा गम्यःशास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामः, निगमः-प्रभूततरवणिग्वर्गावासः, पांसुप्राकारनिबद्धं खेटं, क्षुल्लप्राकारवेष्टितंकर्बटम्, अर्द्धतृतीयगव्युतान्तामरहितं मडम्ब पट्टण त्ति पट्टनं पत्तनं वा, उभयत्रापिप्राकृतत्वेन निर्देशस्य समानत्वात्, तत्र यन्त्रौभिरेवगम्यंतत्पट्टनं यत्पुनः शकटै?टकै!भिर्वा गम्यं तत्पत्तनं यथा भरूकच्छम्, ऊक्तं च॥१॥ “पत्तनं शकटैगम्यं, घोटकैर्नोभिरेव च। नौभिरेवतु यद्गम्यं, पट्टनं तप्रचक्षते।।" द्रोणमुखं-प्रायेणजलनिर्गमप्रवेशम्, आकरो-हिरण्याकरादिआश्रमः-तापसावसथोपलक्षितआश्रयः, संबाधो-यात्रासमागतप्रभूतजननिवेशः, राजधनी-राजाधिष्ठानं नगरम्, 'एएसि ण मित्यादि, एतेषां चक्रवर्तिस्कन्धावारादीनामेव विनाशेषूपस्थितेषु ‘एत्थ णं'ति एतेषु चक्रवर्तिस्कन्धावारादिषु स्थानेष्वासालिका संमूर्च्छति, सा च जघन्यतोऽङ्गुलासङ्खयेयभागमात्रयाऽवगाहनया समुत्तिष्ठतीति योगः, एतच्चोत्पादप्रथमसमये वेदितव्यम्, उत्कर्षतो द्वादश योजनानि-द्वादशयोजनप्रमाणयाऽवगाहनया 'तदनुरूपं' द्वादशयोजनप्रमाणदैध्यार्नुरूपं 'विक्खंभबाहल्लेणं ति विष्कम्भश्च बाहल्यं च तेन, विष्कम्भो-विस्तारो बाहत्यं च स्थूलता, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy