SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - सर्व०, प्रतिपत्तिः ६ ५०३ सागरोवमाइं अंतोमुहुत्तम०, एवं नीललेसस्सवि, काउलेसस्सवि, तेउलेसस्स णं भंते ! अंतरं का० ?, जह० अंतो० उक्को० वणस्सतिकालो, एवंपम्हलेस्सवि सुक्कलेसस्सवि दोण्हवि एवमंतरं, अलेसरस णं भंते ! अंतरं कालओ० ?, गोयमा ! सादीयस्स अपज्जवसियस्स नत्थि अंतरं । एतेसि णं भंते! जीवाणं कण्हलेसाणं नीललेसाणं काउले ० तेउ० पम्ह० सुक्क० अलेसाण य कयरे २१०, गोयमा ! सव्वत्थोवा सुक्कलेस्सा पम्हलेस्सा संखेजगुणा तेउलेस्सा संखिज्जगुणा अलेस्सा अनंतगुणा काउलेस्सा अनंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया । सेत्तं सत्तविहा सव्वजीवा पत्रत्ता ॥ वृ. 'अहवे' त्यादि, ' अथवा ' प्रकारान्तरेण सर्वजीवाः सप्तविधाः प्रज्ञप्तास्तद्यथा - कृष्णलेश्याः नीललेश्याः कापोतले श्याः तेजोलेश्याः पद्मलेश्याः सुक्ललेश्याः अलेश्याः । साम्प्रतमेतेषां कार्यस्थितिमाह 'कण्हलेसे णं भंते !' इत्यादि, कृष्णलेश्या जघन्यतोऽन्तर्मुहूर्त, तिर्यङ्गमनुष्याणां कृष्णलेश्याया अन्तर्मुहूर्त्तावस्थायित्वात्, उत्कर्षतस्त्रियस्त्रशत्सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधिकानि, देवनारका हि पाश्चात्यभवगतचरमान्त- मुहूर्त्तादारभ्याग्रे तनभवगतप्रथमान्तर्मुहूर्त्त यावदवस्थितलेश्याकाः अधः सप्तमपृथिवीनारकाश्च कृष्णलेश्याकाः पाश्चात्याग्रेतनभवगतचरमादिमान्तर्मुहूर्ते द्वे अप्येकमन्तर्मुहूर्त, तस्यासङ्ख्यातभेदात्मकत्वात् तत उपपद्यन्ते कृष्णलेश्याकस्यान्तर्मुहूर्त्ताभ्यधिकानि त्रयस्त्रिंशत्सागरोप० । नीलेश्याको जघन्यतोऽन्तर्मुहूर्तं तच्च प्राग्वत्, उत्कर्षतो दश सागरोपमाणि पल्योपमासमयेयभागाधिकानि, धूमप्रभाप्रथमप्रस्तटनारकाणां नीललेश्याकानामेतावत्स्थितिकत्वात्, पाश्चात्याग्रेतनभवगते च चरमादिमान्तर्मुहूर्ते पल्योपमासङ्घयेयभागान्तः प्रविष्टे न पृथग्विवक्षिते, कापोतलेश्याको जघन्येनान्तर्मुहूर्तं प्राग्वत्, उत्कर्षतस्त्रीणि सागरोपमाणि पल्योपमासङ्घयेयभागाभ्यधिकानि, वालुकाप्रथमप्रस्तटगतनारकाणां कापोतलेश्याकानामेतावस्थितिकत्वात्, तेजोलेश्याको जघन्येनान्तर्मुहूर्तं तथैव उत्कर्षतो द्वे सागरोपमे पल्योपमासङ्घयेयभागाभ्यधिके, ते चेशानदेवानामवसातव्ये, पद्मलेश्याको जघन्येनान्तर्मुहूर्तं प्राग्वत्, उत्कर्षतो दश सागरोपमाणि अन्तर्मुहूर्त्ताभ्यदिकानि तानि ब्रह्मलोकवासिनां देवानामवसातव्यानि, शुक्ललेश्याको जघन्यतोऽन्तर्मुहूर्तं प्राग्वत्, उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधिकानि तानि चानुत्तरसुराणां प्रतिपत्तव्यानि तेषां शुक्ललेश्याकत्वात् ॥ अन्तरचिन्तायां कृष्णलेश्याकस्यान्तरं जघन्यतोऽन्तर्मुहूर्तं तिर्यङ्मनुष्याणामन्तर्मुहूर्तेन लेश्यापरावर्त्तनात्, उत्कर्षतस्त्रियस्त्रशत्सागरोपमाण्यन्तर्मुहूर्त्ताभ्यधिकानि, शुक्ललेश्योत्कृष्टकालस्य कृष्णले श्यान्तरोत्कृष्टकालत्वात्, एवं नीललेश्याकापोतलेश्ययोरपि जघन्यत उत्कर्षतश्चान्तं वक्तव्यं, तेजः पद्मशुक्लानामन्तरं जघन्यतोऽन्तर्मुहर्त्तमुत्कर्षतो वनस्पतिकालः, लान्तकादिदेवानां पर्याप्तगर्भव्युत्क्रान्तिककतिपयपञ्चेन्द्रियतिर्यङ्गनुष्याणांच पद्मलेश्याकत्वात्, अथ लान्तकादिदेवेभ्यः सनत्कुमारादिकल्पन्त्रयवासिनो देवा असङ्ख्यातगुणाः ततः शुक्ललेश्येभ्यः पद्मलेश्या असङ्ख्यातगुणा- प्राप्नुवन्ति, कथं सङ्घयेयेगुणा उक्ताः ? उच्यते, इह जघन्यपदेऽप्यसङ्ख्यातानां सनत्कुमारादिकल्पत्रयवासिभ्योऽसङ्घयेयगुणानां पञ्चेन्द्रियतिरश्चा शुक्ललेश्या, ततः पद्मलेश्याकाः शुक्ललेश्याकेभ्यः सङ्ख्येयगुणाः, तेजोलेश्याकाः देभ्योऽपि सङ्घयेयगुणाः, तेभ्योऽपि सङ्घयेयगुणेषु तिर्यक्पञ्चेन्द्रियमनुष्येषु भवनपतिव्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy