________________
४९४
जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/३/३८२ यां मनोयोगो जघन्यत एकं समयं, विशिष्यमनोयोग्यपुद्गलग्रहणापेक्षमेतत्सूत्रं, ततो द्वितीये समये मरणेनोपरमतो भाषकवदेकसमयता प्रतिपत्तव्या, उत्कर्षतोऽन्तर्मुहूर्त, तथा च जीवस्वभावतया नियमत उपरमात् भाषकवत्, मनोयोगरहितवाग्योगवानेव वाग्योगी द्वीन्द्रियादि, जघन्यत एकं समयमुत्कर्षतोऽन्तर्मुहूर्त, एतदपि सूत्रं विशिष्टवाग्द्रव्यग्रहणापेक्षमवसातव्यं, काययोगी वाग्योगमनोयोगविकल एकेन्द्रियादि, जघन्यतोऽन्तर्मुहूर्त, द्वीन्द्रियादिभ्य उद्धृ त्य पृथिव्यादिष्वन्तर्मुहू स्थित्वा भूयः कस्यापि द्वीन्द्रियादिषु गमनात्, उत्कर्षतः प्रागुक्तस्वरूपो वनस्पतिकालः, अयोगी सिद्धः, सच साधपर्यवसितः ।
अन्तरचिन्त्यांमनोयोगिनोऽन्तरंजघन्येनान्तर्मुहूर्त, ततऊर्ध्वं भूयो विशिष्टमनोयोग्यपुद्गलग्रहणसम्भवात्, उत्कर्षतो वनस्पतिकालः, तावन्तं कालं स्थित्वा भूयो मनोयोगिष्वागमनसम्भवात्, एवं वाग्योगिनोऽपि जघन्यत उत्कर्षतश्चान्तरं भावनीयं, औदारिककाययोगिनो जघन्यतएकसमयं,औदारिकलक्षणंकायमपेक्ष्यैतत्सूत्र, यतो द्विसामायिक्यामपान्तरालगतावेकः समयोऽन्तरं, उत्कर्षतोऽन्तर्मुहूर्त, इदं हि सूत्रं परिपूर्णीदारिकशरीरपर्याप्तिपरिसमाप्तयपेक्षं, यतो द्विसामायिक्यामपान्तरालगतावेकः समयोऽन्तरं, उत्कर्षतोऽन्तर्मुहूर्त, इदं हि सूत्रं परिपूर्णोदारिकशरीरपर्याप्तिपरिसमाप्तयपेक्षं, तत्र विग्रहसमयादारभ्य यावदौदारिकशरीरपर्याप्तिपरिसमाप्तिस्तावदन्तर्मुहूर्त, तत उक्तमुत्कर्षतोऽन्तर्मुहूर्त, न चैतस्वमनीषिकाविजृम्भितं, यत आह चूर्णिकृत्
कायजोगिस्स जह० एकं समयं, कहं ?, एकसामायिकविग्रहगतस्य उक्कोसं अंतरं अंतोमुहत्तं, विग्रहसमयादारभ्य औदारिकशरीरपर्याप्तकस्य यावदेवमन्तर्मुहूर्तद्रष्टव्य'मिति, सूत्राणि ह्यमूनिविचित्राभिप्रायतयादुर्लक्ष्याणीति सम्यकसंप्रदायादवसातव्यानि, सम्प्रदायश्चययोक्तस्वरूप इति न काचिदनुपपत्ति, न च सूत्राभिप्रायमज्ञात्वा अनुपपत्तिरुद्भावनीया, महाशातनायोगतो महाऽनर्थप्रसक्तेः, सूत्रकृतो हि भगवन्तो महीयांसः प्रमाणीकृताश्च महीयस्तरैस्तत्कालवर्तिभिरन्यैर्विद्वद्भिस्ततो न तत्सूत्रेषुमनागप्यनुपपत्ति, केवलं सम्प्रदायावसाये यलो विधेयः, ये तु सूत्राभिप्रायमज्ञात्वा यथा कथञ्चिदनुपपत्तिमुद्भावयन्ते तेमहतो महीयस आशातयन्तीति दीर्घतरसंसारभाजः, आह च टीकाकारः
"एवं विचित्राणिसूत्राणि सम्यक्संप्रदायादवसेयानीत्यविज्ञायतदभिप्रायनानुपपत्तिचोदना कार्या, महाशातनायोगतो महाऽनर्थप्रसङ्गदिति" एवं च ये सम्प्रति दुष्षमानुभावतः प्रवचनस्योपप्लवाय धूमकेतव इवोत्थिताः सकलकालसुकराव्यवच्छिन्नसुविधिमार्गानुष्ठातृसुविहितसाधुषुमत्सरिणस्तेऽपिवृद्धपरम्परायातसम्प्रदायादवसेयं सूत्राभिप्रायमपासयोत्सूत्रं प्ररूपयन्तो महाशातनाभाजःप्रतिपत्तव्याअपकर्णयितव्याश्च दूरतस्तत्ववेदिभिरिति कृतं प्रसङ्गेन
सम्प्रत्यल्पबहुत्वमाह-एएसिण'मित्यादिप्रश्नसूत्रसुगम, भगवानाह-गौतम! सरर्वतोका मनोयोगिनो, देवनारकग्भजतिर्यकपञ्चेन्द्रियमनुष्याणामेवमनोयोगित्वात्, तेभ्यो वाग्योगिनोऽसङ्खयेयगुणाः, द्वित्रिचतुरसअिञपञ्चेन्द्रियाणा वाग्योगित्वात्, अयोगिनोऽनन्तगुणाः सिद्धानामनन्तत्वात्, तेभ्यः काययोगिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org