________________
४८०
जीवाजीवाभिगमउपासूत्रम् सर्व०/१/३७०
ण्यपि भावयितव्यानि, तच्चैवम् 'अहवादुविहा सव्वजीवापन्नत्ता,तंजहा--सकाइयाचेव अकाइया चेव, एवं सजोगी चैव अजोगी चेव तहेव, एवं सलेस्सा चेव अलेस्सा चेव ससरीरा पन्नत्ता, तंजहा-सकाइया चेव अकाइया चेव,एवं सजोगी चेव अजोगी चेव तहेव, एवं सलेस्सा चेव अलेस्सा चेव ससरीराचेवा असरीरा चेव संचिट्ठणं अंतरं अप्पाबहुयं जहा सकाइयाणं ।
भूयःप्रकारान्तरेण वैविध्यमाह-'अहवेत्यादि,अथवाद्विविधाः सर्वजीवाःप्रज्ञप्तास्तद्यथासवेदकाश्च अवेदकाश्च। तत्र सवेदकस्य कायस्थितिमाह-सवेदए णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सवेदकस्त्रविधः प्रज्ञप्तस्तद्यथा-अनाद्यपर्यवसितःअनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्रानाद्यपर्यवसितोऽभव्यो भव्योवा तथाविधसामग्रयभवान्मुक्तिमगन्ता, उक्तश्च-"भव्वावि न सिझंति केइ" इत्यादि, अनादिसपर्यवसितो भव्यो मुक्तिगामी पूर्वमप्रतिपन्नोपशमश्रेणि, सादिसपर्यवसितः पूर्वं प्रतिपन्नोपशमश्रेणि, उपशमश्रेणिं प्रतिपद्य वेदोपशमोत्तरकालावेदकत्वमनुभूय श्रेणसमाप्ती भवक्षयादपान्तराले मरणतो वाप्रतिपततो वेदोदये पुनः सवेदकत्वोपपत्तेः, तत्र योऽसौ सादिसपर्यवसितोजघन्येनान्तर्मुहूर्तश्रेणिसमाप्तीसवेदकत्वे सतिपुनरन्तर्मुहूर्तेन श्रेणिप्रतिपत्ताववेदकत्वभावात्, आह-किमेकस्मिन् जन्मनि वेलाद्वयमुपशमश्रेणिलाभो भवति? यदेवमुच्यते, सत्यमेतद्भवति, तथा चाह मूलटीकाकारः
"नैकस्मिन्जन्मनि उपशमश्रेणिक्षपकश्रेणिश्च जायते, उपशमश्रेणिद्वयं तुभवत्येवे"ति, तत एवमुपपद्यते-जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽनन्तकालं, तमेवकालक्षेत्राभ्यांनिरूपयति-अनन्ता उत्सपिण्यवसर्पिण्यः एषा कालतो मार्गणा, क्षेत्रतोऽपार्द्धपुद्गलपरावर्त देशोनम्, एतावतः कालादूर्ध्वं पूर्वप्रतिपन्नोपशमश्रेणेरवश्यं मुक्त्यासन्नतया श्रेणिप्रतिपत्ताववेदकत्वभावात् ।
'अवेदए णं भंते!' इत्यादि प्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम ! अवेदको द्विविधः प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसितः [समयानन्तरं] क्षीणवेदः, सादिको वा सपर्यवसितउपशान्तवेदः, तत्र योऽसौ सादिसपर्यवसितोऽवेदकः स च जघन्येनैकं समयं, उपशमश्रेणिं प्रतिपन्नस्य वेदोपशमसमयानन्तरेऽपि मरणे पुनः सवेदकत्वोपपत्तेः, उत्कर्षतोऽन्तर्मुहूर्तमुपशान्तवेदश्रेणिकालं, तत ऊर्द्ध श्रेणेः प्रतिपतने नियमतः सवेदकत्वभावात् ।
अन्तरं प्रतिपिपादयिषुराह-सवेदगस्सणं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाहगौतम अनादिकस्यापर्यवसितस्य सवेदकस्य नास्त्यन्तरं, अपर्यवसिततया सदा तद्भावापरित्यागात्, अनादिकस्य सपरयवसितस्यापि नास्त्यन्तरं, अनादसपर्यवसितो ह्यपान्तराले उपशमश्रेणिमप्रतिपद्य भावी क्षीणवेदोनच क्षीणवेदस्य पुनः सवेदकत्वंप्रतिपाताभावात्, सादिकस्य सपर्यवसितस्य सर्वदकस्य जघन्येनैकं समयमन्तरं, द्वितीयवारमुपशमश्रेणिं प्रतिपन्नस्य वेदोपशमसमयानन्तरंमरणसम्भवात्, उत्कर्षेणान्तर्मुहूर्त द्वितीयंवारमुपशमश्रेणिं प्रतिपन्नस्योपशान्तवेदस्य श्रेणिसमाप्तेरूद्ध पुनः सवेदकत्वभावात् । ____ अवेदकसूत्रेसादिकस्यपर्यवसितस्यावेदकस्यनास्त्यन्तरं, क्षीणवेदस्यपुनः सवेदत्वाभावात्, वेदानां निर्मूलकाषंकषितत्वात्, सादिकस्य सपर्यवसितस्य जघन्येनान्तर्मुहूर्त, उपशमश्रेणिसमाप्तौसवेदकत्वे सति पुनरन्तर्मुहूर्तेनोपशमश्रेणिलाभतोऽवेदकत्वोपपत्तेः, उत्कर्षतोऽनन्तंकालं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org