SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४७२ जीवाजीवाभिगमउपाङ्गसूत्रम् ७/-३६६ त्यान्यत्रान्तर्मुहूर्त स्थित्वा भूयो नैरयिकत्वेनोत्पद्यमानस्य वेदितव्यानि, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालःप्रतिपत्तव्यः, नरकादुद्धृत्य पारम्पर्येण वनस्पतिषुगत्वाऽनन्तमपि कालमवस्थानात, अप्रथमसमयनैरयिकसूत्रेजघन्यमन्तरं समयाधिकमन्तर्मुहूर्त, तच्च नरकादुद्ध त्य तिर्यगगर्भे मनुष्यगर्भे वाऽन्तर्मुहूर्त स्थित्वा भूयो नरकेषूत्पद्यमानस्य भावनीयं, समयाधिकाच प्रथमसमयस्याधिकत्वात्, कवचिदन्तर्मुहूर्तमित्येव श्यते, तत्रप्रथमसमयोऽन्तर्मुहूर्त एवान्तर्भावित इति पृथग्नोक्तः, उत्कर्षतो वनस्पतिकालः। प्रथमसमयतिर्यग्योनकसूत्रे जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकमनुष्यभवग्रहणव्यवधानतः पुनस्तिर्यक्ष्वेवोत्पद्यमानस्यावसातव्ये, तथाहि-एकं प्रथमसमयोनं तिर्यकक्षुल्लकभवग्रहणंद्वितीयं संपूर्णमेव मनुष्यालकभवग्रहणमिति, उत्कर्षतो वनस्पतिकालः, तदतिक्रमे मनुष्यभवव्यवधानेन भूयः प्रथमसमयतिर्यक्त्वोपपत्तेः,अप्रथमसमयतिर्यग्योनिकसूत्रे जघन्येनान्तरं क्षुल्लकभवग्रहणं समयाधिकं, तत्तु तिर्यग्योनिकक्षुल्लकमवग्रहमचरमसमयस्याधिकृताप्रथमसमयत्वात्तत्रमृतस्य मनुष्यक्षुल्लकभवग्रहणेनव्यवधानेसति तिर्यक्त्वेनोत्पद्यमानस्य प्रथमसमयातिक्रमेवेदितव्यं, अप्रथमसमयान्तरस्यैतावन्मात्रत्वात्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, देवादिभवानामेतावन्मात्रकालत्वात् । मनुष्यवक्तव्यता तिर्यग्वक्तव्यतेव, नवरं तत्र तिर्यकक्षुल्लकभवग्रहणेन व्यवधानं भावनीयम् । देवसूत्रद्वयं नैरयिकसूत्रद्वयवत् । सम्प्रत्येषामेव चतुर्णाप्रथमसमयानांपरस्परमल्पबहुत्वमाह-एएसिण'मित्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसमयमनुष्याः, श्रेण्यसङ्ख्येयभागमात्रत्वात्, तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणाः, अतिप्रभूतानामेकस्मिन् समये उत्पादसम्भवात्, तेभ्यः प्रथमसमयदेवा असङ्खयेयगुणाः, व्यन्तरज्योतिष्काणामतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात्, तेभ्यःप्रथमसमयतिर्यञ्चोऽसङ्खयेयगुणाः, इहये नारकादिगतित्रयादागत्यतिर्यक्त्वप्रथमसमये ये वर्तन्ते ते प्रथमसमयतिर्यञ्चो, न शेषाः, ततो यद्यपि प्रतिनिगोदमसङ्कयेयो भागः सदा विग्रहगतिप्रथमसमयवर्ती लभ्यते तथाऽपिनिगोदानामपितिर्यक्त्वान्न ते प्रथमसमयतिर्यञ्चः ते एभ्यः सद्ध्येयगुणा एव । साम्प्रतमेतेषामेव चतुर्णामप्रथमसमयानांपरस्परमल्पबहुत्वमाह-एएसि ण'मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम ! सर्वस्तोका अप्रथमसमयमनुष्याः, श्रेण्यसवयेयभागत्वात्, तेभ्योऽप्रथमसमयनैरयिकाअसङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीय- वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावप्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावप्रमाणत्वात्, तेभ्योऽप्रथमसमयदेवाअसङ्ख्येयगुणाः, व्यन्तरज्योतिष्काणामपि प्रभूतत्वात्, तेभ्योऽप्रथम-समयतिर्यग्योनिका अनन्तगुणाः, वनस्पतीनामनन्तत्वात् । साम्प्रतमेतेषामेव नैरयिकादीनांप्रत्येकंप्रथमसमयाप्रथमसमयगतमल्पबहुत्वमाह-एएसि णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोकाः प्रथमसमयनैरयिकाः, एकस्मिन्समये सङ्ख्यातीतानामपि स्तोकानामेवोत्पादात्, तेभ्योऽप्रथमसमयनैरयिक असङ्खयेयगुणाः, चिरकालावस्थायिनांतेषामन्यान्योत्पादेनातिप्रभूतभावात्। एवं तिर्यग्योनिकमनुष्यदेवसूत्राण्यपिवक्तव्यानि, नवरं तिर्यगयोनिकसूत्रेऽप्रथमसमयतिर्यग्योनिकाअनन्तगुणा वक्तव्याः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy