________________
प्रतिपत्ति:- ७,
जाव पढमसमयदेवाण य कतरे २ हिंती० ?, गो० सव्वत्थोवा पढमसमयमणुस्सा पढमसमयनेरइया असंखेजगुणा पढमसमयदेवा असंखेज्जगुणा पढमसमयतिरिक्खजोणिया असंखेज्जगुणा ।
अपढमसमयनेरइयाणं जाव अपढमदेवाणं एवं चैव अप्पबहु० नवरि अपढमसमयतिरिक्खजोणिया अनंतगुणा । एतेसिं पढमसमयनेरइयाणं अपढम० नेरतियाणं कयरे २ ?, सव्वत्थोवा पढमसमयनेरतिया अपढमसमयनेरइया असंखेज्जगुणा, एवं सव्वे ।
पढमसमयनेरइयाणं जाव अपढमसमयदेवाण य कयरे २ ?, सव्वत्थोवा पढमसमयमगुस्सा अपढमसमयमणुस्सा असंखेज्जगुणा पढमसमयनेरइया असंखिज्जगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असंखेज्जगुणा अपढमसमयनेरइया असंखेजगुणा अपढमसमयदेवा असंखेज्जगुणा अपढमसमयतिरिक्खजोणिया अनंतगुणा ।
सेत्तं अट्ठविहा संसारसमावन्नगा जीवा पन्नत्ता ॥
४७१
कृ. 'तत्थे' त्यादि, तत्र ये ते एवमुक्तवन्तः - अष्टविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा- प्रथमसमयनैरयिका अप्रथमसमयनैरयिकाः, प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः, प्रथमसमयमनुष्या अप्रथमसमयमनुष्याष, प्रथमसमयदेवा अप्रथमसमयदेवाः, तत्र प्रथमसमयनारका नारकायुः प्रथमसमयसंवेदिनः अप्रथमसमयनारका नारकायुद्धर्यादिसमयवर्त्तिनः, एवं तिर्यग्योनिकादयो भावनीयाः ।
साम्प्रतमेतेषामष्टानां क्रमेण स्थितिमाह- 'पढमसमयनेरइयस्स ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! एकं समयं द्वयादिषु समयेषु प्रथमसमयत्वविशेषणायोगात्, अप्रथमसमयप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येन दशवर्षसहस्राणि समयोनानि, समयातिक्रान्तावेवाप्रथमसमयविशेषणत्वभावात्, उत्कर्षतस्त्रयस्त्रिशत्सागरोपमाणि समयोनानि । तिर्यग्योनिकादीनां प्रथमसमयानां सर्वेषामेकं समयं, अप्रथमसमयतिर्यग्योनिकानां जघन्येन क्षुल्लकभवग्रहणं समयोनं, उत्कर्षतस्त्रीणि पल्योपमानि समयोनानि । एवं अप्रथमसमयमनुष्याणामपि । अप्रथमसमयदेवानां जघन्येन दश वर्षसम्राणि समयोनानि उत्कर्षतस्त्रयस्त्रिशत् सागरोपमाणि समयोनानि ।
अधुनैषामेव कायस्थितिमाह - 'पढमसमयनेरइया णं भंते! पढमसमयनेरइयत्ति कालतो केवचिरं होइ ?' इति प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! एकं समयं तदनन्तरं प्रथमसमयत्वविशेषणायोगात् । अप्रथमसमयसूत्रे यदेव स्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, देवनैरयिकाणां भूयो भूयस्तद्भावभावितया नैरन्तर्येणोत्पादायोगात् । प्रथमसमयतिर्यग्योनिकसूत्रं, प्रथमसमयनैरयिकसूत्रवत्, अप्रथमतिर्यग्योनिकसूत्रे जघन्येन क्षुल्लकभवग्रहणं समयोनं, समयोनता प्रथमसमयहीनत्वात्, उत्कर्षतोऽनन्तकालं, स चानन्तः कालो वनस्पतिकालः प्रागुक्तस्वरूपः । प्रथमसमयमनुष्यसूत्रं पूर्ववत्, अप्रथमसमयमनुष्यसूत्रे जघन्यतः क्षुल्लक भवग्रहणं समयोनं, तदनन्तरं मृत्वाऽन्यत्रोत्पादात्, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि समयोनानि, तानि सप्तसु भवेषु पूर्वकोटयायुष्केष्वष्टमे भवे देवकुर्वादिषूत्पद्यमानस्य वेदितव्यानि, देवा यथा नैरयिकाः साम्प्रतमेतेषामेवाष्टानामन्तरं क्रमेण चिन्तयन्नाह - 'पढमसमयनेरइयस्स णं भंते!' इत्यादि, प्रथमसमयनैरयिकस्य भदन्त ! अन्तरं कालतः कियच्चिरं भवति ?, भगवानाह - गौतम ! जघन्यतो दशवर्षसहस्राणि अन्तर्मुहूर्त्ताभ्यधिकानि तानि दशवर्षसहस्रस्थितिकस्य नैरयिकस्य नरकादुद्व -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org