SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४६२ जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-३६२ भेदभिन्नत्वादित्थं यथोत्तरमसङ्ख्येयगुणत्वं न विरुध्यते, तेभ्यो बादरवायुकायिकापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्ता अनन्तगुणाः प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यःसामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असङ्खयेयगुणा एकैकपपर्याप्तबादरवनस्पतिकायिकनिगोदनिश्रयाऽसङ्खयेयानामपर्याप्तबादरवनस्पतिकायिकनिगोदानामुत्पादात्, तेभ्यः सामान्यतो बादरा विशेषाधिकाः बादरपर्याप्ततेजस्कायिकादीनामपर्याप्तानां तत्र प्रक्षेपात्। तदेवं गतानि बादराश्रितानि पञ्चाल्पबहुत्वानि, सम्प्रति सूक्ष्मबादरसमुदायगतानि पञ्चाल्पबहुत्वान्यभिधित्सुराह-एएसि ण मित्यादि, इहप्रथमंबादरगतमल्पबहुत्वंतत्सूक्ष्मगताल्पबहुत्वपञ्चके यप्रथममल्पबहुत्वं तद्वद्भावनीयं यावत् सूक्ष्मनिगोदचिन्ता, तदनन्तरं बादरवनस्पतिकायिकाअनन्तगुणाः प्रतिबादरनिगोदमनन्तानांजीवानांभावात्, तेभ्यो बादरा विशेषाधिका बादरतेजस्कायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका असङ्खयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्खयेयगुणत्वात्, तेभ्य सामान्यतः सूक्ष्मा विशेषाधिकाः सूक्ष्मतेजस्कायिकादीनामपि तत्र प्रक्षेपात् । गतमेकमल्पबहुत्वमिदानीमेतेषामेवापर्याप्तानांद्वितीयमाह-एएसिण'मित्यादि, सर्वस्तोका बादरत्रसकायिकाअपर्याप्ताः, ततो बादरतेजस्कायिकबादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराकायिकबादरवायुकायिकाः पर्याप्ताःक्रमेण यथोत्तरमसङ्खयेयगुणाः, अत्र भावना बादरगताल्पबहुत्वपञ्चके यद्वद् द्वितीयमपर्याप्ताविषयमल्पबहुत्वंतद्वद्भावनीया, ततो बादरवायुकायिकेभ्योऽ पर्याप्तभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असङ्खयेयगुणाः, अतिप्रभूतासङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिकसूक्ष्मा कायिकसूक्ष्मवायुकायिकसूक्ष्मनिगोदा यथोत्तरमङ्ख्येयगुणाः, अत्र भावना सूक्ष्माल्पबहुत्ववद्भावनीया, पञ्चके यद्दितीयाल्पबहुत्वं तद्वत, तेभ्यः सूक्ष्मनिगोदापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवाअपर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां भावात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरत्रसकायिकापर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ताअसङ्ख्येयगुणाः, बादरनिगोदापयत्तिभ्यसूक्ष्मनिगोदापर्याप्तानामसङ्खयेयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्ता विशेषाधिकः, सूक्ष्मतेजस्कायिकापर्याप्तादीनामपि तत्र प्रक्षेपात्। गतं द्वितीयल्पबहुत्वमिदानीं तेषामेव पर्याप्तानांतृतीयमल्पबहुत्वमाह-'एएसिण'मित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्खयेयगुणाः, अत्र भावना बादरगताल्पबहुत्वपञ्चके यत्त तीयं पर्याप्तविषयमल्पबहुत्वं तद्वत्कर्तव्या, बादरपर्याप्तवायुकायिकेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ता असङ्खयेयलोकाकाशप्रदेशप्रमाणास्ततोऽसङ्ख्येयगुणाः, ततः सूक्ष्मपृथिवीकायिकसूक्ष्मा कायिकसूक्ष्मवायुकायिकाः पर्याप्ताः क्रमेण यथोत्तरं विशेषाधिकाः, ततः सूक्ष्मवायुकायिकेभ्यः पर्याप्तेभ्यः सूक्ष्मनिगोदाः पर्याप्तकाअसङ्ख्येयगुणाः, तेषामतिप्रभूततयाप्रतिगोलकंभावात, तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्तका अनन्तगुणाः,प्रतिबादरैकैकनिगोदमनन्तानां भावात्, तेभ्यः सामान्यतो बादराः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy