SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्ति: ५, ܫܙ ४६१ अष्टासु पृथिवीषु सर्वेषु विमानभवन पर्वतादिषु च भावात्, तेभ्योऽसङ्घयेयगुणा बादराप्कायिकाः, समुद्रेषु जलप्राभूत्यात्स, तेभ्यो बादरतायुकायिका असङ्घयेयगुणाः, शुषिरे सर्वत्र वायुसम्भवात्, तेभ्योऽप बादरवनस्पत्तिकायिका अनन्तगुणाः, प्रतिबादरनिगोदमनन्तानां जीवानां भवात्, तेभ्यः सामान्यतो बादरा विशेषाधिकाः, बादरत्रसकादिकादीनामपि तत्र प्रक्षेपात् । गतमेकमौधिकमल्पबहुत्वमिदानीमेतेषामेवपर्याप्तानां द्वितीयमाह- 'एएसि णं भंते!' इत्यादि, सर्वस्तोका बादरत्रसकायिका अपर्याप्ताः, युक्तिरत्र प्रागुक्तैव, तेभ्यो बादरतेजस्कायका अपर्याप्ता असङ्खयेयगुणाः, असङ्ख्येयलोकाकाशप्रमामत्वात्, इत्येवं प्रागुक्तक्रमेणेदमप्यल्पबहुत्वं परिभावनीयम् ॥ गतं द्वितीयमल्पबहुत्वं, साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह - 'एएसि 'मित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमयवर्गस्य कतिपयसम्यन्यनैरावलिकासमयैर्गुणितस्य यावान् समयराशिर्भवति तत्वव्यमाणत्वातेषाम् उक्तञ्च - "आवलिवग्गो कमेणावलीए गुणिओ हि बायरो तेऊ' इति, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्घयेयगुणाः, प्रतरे यावन्त्यङ्गुलसङ्घयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् उक्तञ्च “पत्तेयपज्जत्तवणकाइया उ पयरं हरंति लोगस्स अंगुल असंखभागेण भाइय'' मिति, तेभ्यो बादरनिगोदपर्याप्तका असङ्ख्येयगुणाः तेषामत्यन्तसूक्ष्मावगाहनत्वात् जलाशयेषु च सर्वत्र प्रायोभावात्, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असङ्ख्येयगुणाः, अतिप्रभूतसङ्ख्येयप्रतराङ्गुत्लासह्वयेयभागखण्डमानत्वात्, तेभ्योऽपि बादरा कायिकाः पर्याप्ता असङ्खयेयगुणाः, अतिप्रभूततरासह्वयेयप्रतराङ्कुलासङ्घयेयभागखण्डमानत्वात्, तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्घयेयगुणाः, घनीकृतस्य लोकस्यासङ्ख्येयेषु प्रतरेषु सङ्घयाततमभागवर्त्तिषु यावन्त आकाशप्रदेशास्तावप्रमाणत्वात्तेषां तेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । " गतं तृतीयमल्पबहुत्वमिदानीमेतेषामेव प्रत्येकं पर्याप्तापर्याप्तगतमल्पबहुत्वमाह-एएसि ण' मित्यादि, इह बादरैकैकपर्याप्तनिश्रयाऽसङ्घयेया बादरा अपर्याप्ता उत्पद्यन्ते, "पजत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेज्जा" इति वचनात्, ततः सर्वत्र पर्याप्तेभ्योऽपर्याप्ता असङ्घयेयगुणा वक्तव्याः । बादरत्रसकायिकसूत्रं तु प्रागुक्तयुक्तया भावनीयम् । गतं चतुर्थमप्यल्पबहुत्वं, सम्प्रत्येतेषामेव समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्वमाह'एएसि ण 'मित्यादि, सर्वस्तोका बादरदेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्घयेयगुणाः, तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्ता असङ्घयेयगुणाः, तेभ्यो बादरनिगोदाः पर्याप्ता असङ्घयेयगुणाः, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असङ्घयेयगुणाः, तेभ्यो बादराप्याकियाः पर्याप्ता असङ्घयेयगुणाः, तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्घयेयेषु लोकाकाशप्रदेशेषु यावन्त आकाशप्रदेशास्तावव्यमाणाः बादरतेजस्कायिकाश्चापर्याप्ता असङ्ख्येयलोकाकाशप्रदेशप्रमाणास्ततो भवन्त्सङ्घयेयगुणाः, ततः प्रत्येकबादरवनस्पतिकायिकबादरनिगोदबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिका अपर्याप्ता यथोत्तरमसङ्घयेयगुणा वक्तव्याः । यद्यपि चैते प्रत्येकमसङ्ख्ययलोकाकाशप्रदेशप्रमाणास्तथाऽप्यसङ्ख्यातस्यासङ्ख्यात Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy