________________
४४०
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/वै०-२/३३२ स्पर्शेन प्रज्ञप्तानि, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनां देवानां शरीरकाणि।
साम्प्रतमुच्छ्वासप्रतिपादनार्थमाह- सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोर्देवानां कीशाः पुद्गला उच्छ्वासतया परिणमन्ति?, भगवानाह-गौतम ! ये पुद्गला इष्टाः कान्ताः प्रिया मनोज्ञा मनआपाएतेषां व्याख्यानं प्राग्वत् ते तेषामुच्छासतयापरिणमन्ति, एवं तावद्वाच्यं यावदनुत्तरोपपातिका देवाः । एवमाहारसूत्राण्यपि । सम्प्रति लेश्याप्रतिपादनार्थमाह'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त!कल्पयोर्देवानांकतिलेश्याःप्रज्ञप्ताः?, भगवानाह-गौतम ! एका तेजोलेश्या, इदंप्राचुर्यमङ्गीकृत्य प्रोच्यते,यावता पुनः कथञ्चित्तथाविधद्रव्य-सम्पर्कतोऽन्याऽपि लेश्या यथासम्भवं प्रतिपत्तव्या, सनत्कुमार- माहेन्द्रविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! एका पद्मलेश्या प्रज्ञप्ता, एवं ब्रह्मलोकेऽपि, लान्तके प्रश्नसूत्रं सुगम, निर्वचनं-गौतम ! एका शुक्ललेश्या प्रज्ञप्ता, एवं यावदनुत्तरोपपातिका देवाः, उक्तञ्च॥१॥ "किण्हानीलाकाउतेऊलेसा य भवणवंतरिया ।
जोइससोहम्मीसाण तेउलेसा मुणेयव्वा ॥ ॥२॥ कप्पे सणंकुमारे माहिदे चेव बंभलोए य।
एएसु पम्हलेसा तेण परंसुक्ललेसा उ॥ सम्प्रति दर्शनं चिचिन्तयिषुराह-'सोहम्मी त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा णमिति वाक्यालङ्कारे किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयः?, भगवानाह-गौतम ! सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यग्मिथ्याध्ष्टयोऽपि, एवं यावद् ग्रैवेयकदेवाः, अनुत्तरोपपातिनः सम्यग्दृष्टय एव वक्तव्याः न मिथ्याध्ष्टयो नापि स्यग्मिथ्याद्दष्टयः तेषां तथास्वभावत्वात् । सम्प्रति ज्ञानाज्ञानचिन्तां चिकीर्षुराह
. 'सोहम्मी'त्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम ज्ञानिनोऽप्यज्ञानिनोऽपि, त्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनस्तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽविधिज्ञानिनः, ये अज्ञानिनस्तेनियमात् त्र्यज्ञानिनस्तद्यथा-मत्यज्ञानिनःश्रुताज्ञानिनोविभङ्गज्ञानिनश्च, एवंतावद्वच्यं यावद्मवेयकाः, अनुत्तरोपपातिनो ज्ञानिन एव वक्तव्याः, योगसूत्राणिपाठसिद्धानि । सम्प्रत्यवधिक्षेत्रपरिमाणप्रतिपादनार्थमाह
मू (३३३) सोहम्मीसाणदेवा ओहिणा केवतियंखेत्तंजाणंतिपासंति?, गोयमा! जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं अवही जाव रयणप्पभा पुढवी उड्डू जाव साई विमाणाई तिरियं जाव असंखेजा दीवसमुद्दा एवंमू. (३३४) सक्कीसाणा पढमं दोघंच सणंकुमारमाहिंदा ।
तचं च बंभलंतग सुक्कसहस्सारग चउत्थी। आणयपाणयकप्पे देवा पासंति पंचमिं पुढवीं।
तंचेव आरणचुय ओहीनाणेण पासंति ।। मू. (३३६) छट्ठी हेममज्झिमगेवेचा सत्तमिं च उवरिल्ला ।
- संभिण्णलोगनालिं पासंति अनुत्तरा देवा ।। वृ. सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कियत्क्षेत्रमवधिना जानन्ति ज्ञानेन पश्यन्ति दर्शनेन ?, भगवानाह-गौतम ! जघन्येनाङ्गुलस्यासङ्खयेयभागं, अत्र पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org