________________
४२३
प्रतिपत्तिः-३, वै०-उद्देशकः १
(३) देवाधिकारे-वैमानिक उद्देशकः-१ वृ. उक्ता ज्योतिषवक्तव्यता, सम्प्रति वैमानिकवक्तव्यतामाह
म. (३२४) कहिणंभंते! वेमाणियाणंदेवाणं विमाणा पन्नता?, कहिणंभंते! वेमाणिया देवा परिवसंति?, जहा ठाणपदे तहा सव्वं भाणियव्यं नवरं परिसाओ भाणितव्वाओ जाव सुक्के,अन्नेसिं च बहूणं सोधम्मकप्पवासीणं देवाण य देवीण य जाव विहरति ।।
वृ. 'कहि णं भंते ! वेमाणियाण'मित्यादि, कव भदन्त ! वेमानिकानां देवानां विमानानि प्रज्ञप्तानि?, तथा क्व भदन्त ! वैमानिका देवाः परिवसन्ति?, भगवानाह-गौतम! अस्यारलप्रभायाः पृथिव्या बहुसमरमणीया भूमिभागाद् रूचकोपलक्षितादिति भावः ऊर्द्धचन्द्रसूर्यग्रहनक्षत्रतारारूपाणामप्युपरि बहूनि योजनानि बहूनि योजनशतानि बहूनि योजनसहमाणि बहूनि योजनशतसहस्राणि बह्वीर्योजनकोटीकोटीः ऊर्द्ध दूरमुस्लुत्य-बुद्धया गत्वा, एतच्च सार्द्धरज्जूपलक्षणं, तथा चोक्तम्॥१॥ “सोहम्मंमि दिवड्वा अदाइज्जा य रज्जु माहिंदे ।
बंभंमि अद्धपंचम छ अच्चुए सत्त लोगते॥ 'एत्थण मित्यादि, अत्र' एतस्मिन्सार्द्धरज्जूपलक्षिते क्षेत्रे ईषप्राग्भारादर्वाक् सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकशुक्रसहस्ररानतप्राणतारणाच्युतग्रैवेयकानुत्तरेषुस्थानेषु 'अत्र' एतस्मिन् वैमानिकानां चतुरशीतिर्विमानावासशतसहस्राणि सप्तनवति सहस्राणि त्रयोविंशतिविमानानि भवन्तीत्याख्यातानि, इयंच सङ्ख्या- "बत्तीसअट्ठवीसा बारसअट्टचउरोसयसहस्सा" इत्यादिसङ्घयापरिमीलनेन भावनीया 'ते णं विमाणा' इत्यादि, तानि विमानानि सर्वरलमयानि 'अच्छासण्हा लण्हाधट्टा मट्ठानीरया निम्मला निप्पंका निक्ककडच्छाया सप्पभासमिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरुवा पडिरूवा।" _ 'एत्थ णमित्यादि, एतेषु विमानेषु बहवो वैमानिका देवाः एरिवसन्ति तद्यथा-सौधर्मा ईशाना यावद्गवेयकाअनुत्तराः, एतेचव्यपदेशास्तास्थयादवगन्तव्याः, यथापञ्चालदेशनिवासिनः पञ्चालाः, कतेच कथम्भूताः? इत्याह-'ते णमित्यादि, ते सौधर्मादयोऽच्युतपर्यवसाना यथाक्रम मृगमहिषवराहसिंहच्छगलदर्दुरहयगजपतिभूवगखगवृषभाङ्कविडिमप्रकटितचिह्नमुकुटाः, मृगादिरूपाणि प्रकटितानिचिह्नानि मुकुटे येषां तेतथेति भावः, तद्यथा-सौधर्मदेवा मृगरूपप्रकटितचिह्नमुकुटाः ईशानदेवा महिषरूपप्रकटितचिह्नमुकुटाः सनत्कुमारदेवा वराहरूपप्रकटितचिह्नमुकुटाः माहेन्द्रदेवाःसिंहरूपप्ररूटितमुकुटचिह्नाः ब्रह्मलोकदेवाश्छगलरूपप्रकटितमुकुटचिह्नाः लान्तकदेवा दुर्दुररूपप्रकटितमुकुटचिह्नाः शुक्रकल्पदेवा हयमुकुटचिह्नाः सहस्रारकल्पदेवा गजपतिमुकुटचिह्नाः आनतकल्पदेवा भुजगमुकुटचिह्नाः, प्राणतकल्पदेवाः खङ्गमुकुटचिह्नाः, खगः चतुष्पदविशेष आटव्यः,आरणकल्पदेवावृषभमुकुटचिह्नाःअच्युतकल्पदेवा विडिममुकुटचिह्नाः तथा प्रशिथिलवरमुकुटकिरीटधारिणः ।।
'वरकुंडलुजोवियाणणा' इति वराभ्यां कुण्डलाभ्यामुदद्योतितं-भास्वरीकृतमाननं येषां त वरकुण्डलोदद्योतिताननाः, “मउडदित्तसिरया' मुकुटेन दीप्तं शिरो येषां ते मुकुटदीप्तशिरसः रक्ताभा-रक्तवर्णा, एतदेव सविशेषमाह-'पउमपम्हगोरा' पद्मपक्ष्यवत्-पद्मपत्रवद् गौराः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org