SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३,दीव० ४०९ हे श्रमण ! हे आयुष्मन् !! सम्प्रति लवणादिषु मत्स्यकुलकोडिपरिज्ञानार्थमाह-'लवणे णं भंते !' इत्यादि, लवणे भदन्त! समुद्रे कति' किंप्रमाणानि जातिप्रधानानि कुलानि २ जातिकुलानां कोट्यो जातिकुलकोट्यः मत्स्यानांजातिकुलकोटयो मत्स्यजातिकुलकोटयस्तासांयोनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणिप्रज्ञप्तानि?, इहैकस्यामपियोनौ अनेकानि जातिकुलानि भवन्ति, यथा एकस्यामेव छगणयोनौकृमिकोटिकुलमिलिकाकुलं वृश्चिककुलमित्यादि तत उक्तं योनिप्रमुखसतसहस्राणीति, भगवानाह-गो० ! सप्त जलमत्स्यजातिकुलकोटीनांयोनिप्रमुखाणिशतसहस्राणि, एवं कालोदसूत्रं स्वयम्भूरमणसूत्रमपि भावनीयं, नवरंकालोदे नव मत्स्यजातिकुलकोटियोनिप्रमुखशतसहस्राणि, स्वयम्भूरमणसमुद्रेऽर्द्धत्रयोदश ।अधुना लवणादिषुमत्स्यप्रमाणमभिधित्सुराह- 'लवणे णं भंते !' इत्यादि, लवणे भदन्त समुद्रे मत्स्यानां केमहालिका' किंमहती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह-गो० जघन्येनाङ्गुलासङ्घयेयभाग उत्कर्षेण पञ्च योजनशतानि । एवं कालोदस्वयम्भूरमणसमुद्रविषये अपि सूत्रे भावनीये, नवरं कालोदे उत्कर्षतः सप्त योजनशतानि स्वयम्भूरमणे योजनसहस्रम् ॥ मू. (३०४) केवतिया णं भंते ! दीवसमुद्दा नामधेजेहिं पन्नत्ता?, गोयमा! जावतिया लोगे सुभा नामा सुभा वण्णा जाव सुभा फासा एलतिया दीवसमुद्दा नामधेजेहिं पन्नत्ता। केवतियाणंभंते! दीवसमुद्दा उद्धारसमएणंपन्नत्ता?, गोयमा! जावतिया अड्डाइजाणं सागरोवमाणं उद्धारसमया एवतिया दीवसमुद्दा उद्धारसमएणं पनत्ता।।। वृ. 'केवइया णमंते!' इत्यादि, कियनतो भदन्त ! द्वीपसमुद्रानामधेयैः प्रज्ञप्ताः?, यदि नाम सङ्ख्यातुमिष्यन्ते तदा कियन्तस्ते प्रज्ञप्ता इत्यर्थः, इयमत्र भावना-इहैकैकेन नाम्नाऽसङ्घयेया द्वीपा असङ्ख्येयाः समुद्राः प्रोच्यन्ते अन्तिमान् देवादीन् पञ्च द्वीपान् पञ्च समुद्रान् मुक्त्वा, ततः सर्वसङ्ख्यया कियन्तिद्वीपसमुद्राणां नामानि? इति, भगवानाह-गौतम! यावन्ति लोके सामान्यतः 'सुभानि नामानि' शङ्खचक्रस्वस्तिककलशश्रीवत्सादीनि 'शुभा वर्णाः शुभा गन्धाः शुभा रसाः शुभाः स्पर्शा' शुभवर्णवामानि शुभगन्धनामानि शुभरसनामानि शुभस्पर्शनामानि, एतावन्तो द्वीपसमुद्रा नामधेयैः प्रज्ञाप्ताः, एतावन्ति द्वीपसमुद्राणां नामधेयानीति भावः ।। सम्प्रत्युद्धारसागरोपमप्रमाणतो द्वीपसमुद्रपरिमाणमाह 'केवइया णं भंते!' इत्यादि, कियन्तो भदन्त! द्वीपसमुद्राः 'उद्धारेण' उद्धारपल्योपमसागरोपमप्रमामेन प्रज्ञप्ताः?, भगवानाह-हेगौतम! यावन्तोऽर्द्धतृतीयानामुद्धारसागरोपमाणां उद्धारसमयाः-एकैकेन सूक्ष्मवालाग्रापहारसमया एतावन्तोद्वीपसमुद्राउद्धारेण प्रज्ञप्ताः, उक्तञ्च॥१॥ "उद्धारसागराणं अड्डाइजाण जत्तिया समया। दुगुणादुगुणपवित्थर दीवोदहि रज्जु एवइया॥" मू. (३०५) दीवसमुद्दा णं मंते ! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पुग्गलपरिणामा?, गोयमा ! पुढविपरिणामावि आउपरिणामावि जीवपरिणामावि पुग्गलपरिणामावि । दीवसमुद्देसुणं भंते ! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववण्णपुब्बा?, हता! गोयमा ! असति अदुवा अनंतखुत्तो। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy