________________
४०६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/३००
सूर्यवरावभाससमुद्रात्परं यदस्ति तदाह--'सूरवरावभासणं समुदं देवे नाम दीवे वट्टे इत्यादि, सूर्यवरावभासंणमिति पूर्ववत् समुद्रं देवो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः समन्तात्संपरिक्षिप्य तिष्ठति । देवेणं भंते! दीवे किं समचक्कवालसंठिते विसमचक्कवालसंठिए गोयमा ! समचक्कवालसंठिए नो विसमचक्कवालसंठिए, देवेणं भंते ! दीवे केवइयं चकवालविक्खंभेणंकेवइयंपरिक्खेवणंपन्नत्ते?,गोयमा! असंखेज्जाइंजोयणसहस्साइं चक्कवालविस्खंभेणं, असंखेज्जाइंजोयणसयसहस्साइंपरिक्खेवणं पन्नत्ते, सेणंएगाएपउमवरवेइयाए एगेणं वनसंडेणं परिक्खित्ते' सुगम, नवरम् एकया पावरवेदिकयाऽष्टयोजनोच्छ्रयजगत्युपरिभाविन्येति द्रष्टव्यं, एवमेकेन वनषण्डेन च, इदंतुसूत्रंबहुषु पुस्तके नश्यतेकेषुचित् तहेवे त्यतिदेश इति लिखितं ।
___कइणं भंते!' इत्यादि, कति भदन्त ! देवस्य द्वीपस्य द्वाराणिप्रज्ञप्तानि?,भगवानाहगौतम! चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं ।। 'कहिणं भंते ! देवस्स दीवस्से'त्यादि, क भदन्त ! देवस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम् ?, भगवानाहगौतम! देवद्वीपपूर्वार्द्धपर्यन्ते देवसमुद्रस्यपूर्वा (पश्चा)द्धस्य पश्चिमदिशि 'अत्र' एतस्मिन्नवकाशे विजयं नाम द्वारं प्रज्ञप्तं, प्रमाणं वर्णकश्च जम्बूद्वीपविजयद्वारवत्, नामान्वर्धसूरमपि तथैव ॥ 'कहिणंभंते इत्यादि, कव भदन्त! विजयस्य देवस्यविजया नाम राजधानी प्रज्ञप्ता?, भगवानाहगो० विजयस्य द्वारस्यपश्चिमदिशितिर्यगसङ्घयेयानियोजनशतसहस्राण्यवगाह्यात्रान्तरेविजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता, साचजम्बूद्वीपविजयद्वाराधिपतिविजयदेवस्येव वक्तव्या
एवं वैजयन्तजयन्तापरिजिताद्वारवक्तव्यताऽपि भावनीया, ज्योतिषवक्तव्यता सर्वाऽप्यसङ्ख्येयतया वक्तव्या, नामान्वर्थचिन्तायामपि देवभद्रदेवमहाभद्रौ वक्तव्यौ, शेषं सर्वमरुणट्टीपवत्।। देवण्णं दीव'मित्यादि, देवं णमिति पूर्ववत्द्वीपं देवः समुद्रो वृत्तोवलयाकारसंस्थानसंस्थितोयावत्परिक्षिप्य तिष्ठति, अत्रापि समचक्रवालादिसूत्राणितथैव नवरं देवोदकस्य समुद्रस्य विजयद्वारं देवोदसमुद्रपूर्वार्द्धपर्यन्ते नागद्वीपपूर्वा (पश्चा) पश्चिमदिशिअत्रेति वक्तव्यं, राजधानी विजयद्वारस्यपश्चिमदिशिअत्रेति वक्तव्यं, राजधानी विजयद्वारस्यपश्चिमदिशि देवसमुद्र तिर्यगसङ्खयेयानि योजनशतसहस्राण्यवगाह्य वक्तव्या।
एवं वैजयन्तजयन्तापराजितद्वारवक्तव्यताऽपि भावनीया, नामान्वर्थचिन्तायामपि देववरदेवमहावरी देवी, शेषं तथैव यथा देवो द्वीपो, नवरं नागे द्वीप नागभद्रनागमहाभद्रौ, यथा देवः समुद्रःतथा नागः समुद्रः, नवरं नागसमुद्रे नागवरनागमहावरी, एवं यक्षादयोऽपिद्वीपसमुद्रा वक्तव्याः, नवरं यक्षे द्वीपे यक्षभद्रयक्षमहाभद्री देवी, यक्षे समुद्रे यक्षवरयक्षमहावरौ, भूते द्वीपे भूतभद्रभूतमहाभद्रौ, भूतेसमुद्रे भूतवरभूतमहावरौ, स्वयम्भूरमणे द्वीपे स्वयम्भूरमणभद्रस्वयम्भूरमणमहाभद्रौ, स्वयम्भूरमणे समुद्रे स्वयम्भूवरस्वयम्भूमहावरौ, इह देवादिषु पञ्चसु पञ्चसु द्वीपेषु पञ्चसु २ समुद्रेषु त्रिप्रत्यवतारता नास्ति, तत एकैकतयैते वक्तव्याः तथा चाह-“देवेनागे जक्खे भूए य सयम्भूरमणे अ एकेके भाणियव्वो।" मूलटीकाकारोऽप्याह
"देवादयोऽन्त्याएकाकारा" इति, चूर्णिकारोऽप्याह-"देवेनागेजक्खे भूए यसयंभूरमणे एतेऽन्तिमाः पञ्च एकैकाः प्रतिपत्तव्याः" नन्दीश्वरादिद्वीपानां स्वयम्भूरमणद्वीपपर्यवसानानामन्चर्थचिन्तायां वाप्यः पुष्करिण्यःचशब्दाद् दीर्घिकादयश्च क्षीरो(क्षोदो)दकपरिपूर्णा वक्तव्याः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org