________________
३९५
प्रतिपत्तिः -३, दीव० पार्श्वयो-भित्तिषु-भित्तिसमीपेभित्तिगता-भित्तिसंबद्धा गुलिकाः-पीठिका भित्तिगुलिकास्तिन पटपञ्चा-शद्भवन्ति षट्पञ्चाशत्रिकप्रमाणा भवन्ति ।
'गोमाणसियातत्तिया' इति तावत्यएव' षट्पञ्चाशस्त्रकप्रमाणाएव गोमानस्यः' शय्याः, तथा 'नानामणिरत्नानि' नानामणिरत्नमयानि व्यालकरूपाणि लीलास्थितशालभलिकाश्च येषां तानि तथा, रजतमयाः कूटाः, कूटो-माडभागः, वज्रमयाः ‘उत्सेधाः' शिखराणितपनीयमयाः 'उल्लोकाः' उपरितनभागाः, मणयो-मणिमया वंशा येषां तानि मणिवंशकानि, लोहिताक्षाः-- लोहिताक्षमयाः प्रतिवंशा येषां तानि लोहिताक्षप्रतिवंशकानि, रजता-रजतमयी भूमिर्येषांतानि रजतभूमानि, प्राकृतत्वात्समासान्तो मकारस्य च द्वित्वं, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्नमयानि जालपअराणि गवाक्षापरपर्यायाणि येषू द्वारेषु तानि तथा, पदानामन्यथोपनिपातःप्राकृतत्वात्, अझमयाः पक्षाः पक्षबाहवश्च, पक्षाः (प्रतीताः) पक्षबाहवोऽपि तदेकदेशभूताः, ज्योतीरसामया वंशा महान्तः पूज्यवंशाः।।
___'वंसकेल्लुया य' महतां पृष्ठवंशानामुभयतस्तिर्यकस्थाप्यमाना वंशाः वंशकवेल्लुकानि प्रतीतानि रजतमयपट्टिकाः कवेल्लुकानामुपरिकम्बास्थानीयाः जातरूपमय्योऽवधाटिन्यः आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणकिलिञ्चस्थानीया वज्रमय्योऽवघाटिनीनामुपरिपुञ्छन्यो-निबिडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः सर्वश्वेतंरजतमयं पुञ्छनीनामपरि कवेल्लुकानामघआच्छादनम्, 'अंकामयकणगकूडतवणिजथूभियागा' इति अङ्कमयानिबाहुल्येनाङ्करलमयानि पक्षपक्षबाह्लादीनामङ्करलात्मकत्वात्कनकं कनकमयं कूट-शिखरं येषां तानि कनककूटानि, तपनीयाः-तपनीयमय्यः स्तूपिका-लघुशिखररूपा येषांतानि तथा, ततः पदत्रयस्य पदद्वय २ मीलनेन कर्मधारयः, एतेन यत् प्राक् सामान्यत उत्क्षिप्तं 'सेया वरकणगथूभियागा' इति तदेव प्रपञ्चतो भावितं, सम्प्रति तदेव श्वेतत्वं भूय उपसंहारव्याजेन दर्शयति-'सेया' श्वेतत्वमेवोपमया द्रढयति- 'सङ्घदलविमलनिम्मलदहिघणगोखीरफेणरययनिगरप्पसद्धचंदचित्ता' विमलं यत् शङ्खदलं-शकशकलंकचित् शङ्कतलेति पाठस्तत्रशवतलंशङ्कस्योपरितनो भागोतश्च निर्मलो दधिधनो-घनीभूतं दधि यश्च गोक्षीरकेनो यश्च रजतनिकरस्तद्वप्रकाशः-प्रतिमता येषां तानि तथाऽर्द्धचन्द्रैश्चित्राणि-नानारूपाणि आश्चर्यभूतानि वा अर्द्धचन्द्रचित्राणि,ततःपूर्वपदेन विशेषणसमासः, नानामणिमयीभिर्दामभिरलङकृतानि नानामणिमयदामालङ्कृतानि अन्तर्बहिश्च श्लक्ष्णतपनीयरुचिरवालुकानांप्रस्तटः-प्रस्तारोयेषुतानितथा, शुभस्पर्शानि सश्रीकरूपाणि प्रासादीयांनि यावत् प्रतिरूपाणि व्यक्तम्
'तेसि णंदाराणमित्यादि, तेषां द्वाराणामुभयोः पार्श्वयोरेकैकनषेधिकीभावेन 'दुहतो' इति द्विघातो-द्विप्रारायां नैषेधिक्यां नैषेधिकी-निषीदनस्थानं द्वारकुडयसमीपे नितम्ब इत्यर्थः षोडशषोडशवन्दनकलशाःप्रज्ञप्ताः, वर्णकस्तेषांवाच्यः, स चैवम्-'तेणंवंदनकलसा वरकमलपइटाणासुरभिवरवारिपडिपुण्णाचंदनकयचचागाआविद्धकंठेगुणापउमुप्पलपिहाणा सब्बरयणामया अच्छा जाव पडिरूवा महया महया इंदकुंभसमाणा पन्नत्ता समणाउसो !" व्यक्तं नवरं 'महया महया" इति अतिशयेन महान्तः 'इन्द्रकुम्भसमानाः' महाकुम्भप्रमाणकुम्भसशाः।
"एवं नेयव्वं जाव सोलस वनमालाओ पन्नत्ताओं' 'एवम्' अनेन प्रकारेण तावनेतव्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org