________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/३०
स्वार्थिकेकप्रत्ययविधा- नात्तेजस्कायिकाः, वायुः - पवनः स कायो येषां ते वायुकायास्त एव वायुकायिकाः ।
उदाराः - स्फारा उदारा एव औदारिकाः प्रत्यक्षत एव स्पष्टत्रसत्वनिबन्धना सन्धिपूर्वकगतिलिङ्गतयोपलभ्यमानत्वात्, तत्र त्रसा द्वीन्द्रियादयः 'औदारिकत्रसाः ' स्थूरत्रसा इत्यर्थः ॥ तत्र तेजस्कायिकप्रतिपादनार्थमाह
मू. (३१) से किं तं तेउकाइया ?, २ दुबिहा प० तं० सुहुमतेडक्वाइया बादर उक्वाइया य ॥ वृ. अथ के ते तेजस्कायिकाः ?, तेजस्कायिका द्विविधाः प्रज्ञप्ताः, तद्यथासूक्ष्मतेजस्कायिकाश्च बादरतेजस्कायिकाश्च चशब्दो पूर्ववत् ।
३६
मू. (३२) से किं तं सुहुमतेउक्काइया ?, २ जहा सुहुमपुढविक्काइया नवरं सरीरगा सूइकलावसंठिया, एगगइया दुआगइआ परित्ता असंखेज्जा पन्नत्ता, सेसं तं चेव, सेत्तं सुहुमतेउकाइया वृ. अथ के ते सूक्ष्मतेजस्कायिका: ?, सूरिराह-सूक्ष्मतेजस्कायिका इत्यादि सूत्रं सर्व सूक्ष्मपृथिवीकायिकवद् वक्तव्यं, नवरं संस्थानद्वारे शरीराणि सूचीकलापसंस्थितानि वक्तव्यानि, च्यवनद्वारेऽनन्तरमुद्धृत्य तिर्यग्गतावेवोत्पद्यन्ते, न मनुष्यगती, तेजोवायुभ्योऽनन्तरोद्ध तानां मनुष्यगतावुत्पादप्रतिषेधात्, तथा चोक्तम्
119 ||
“सत्तमिमहिनेरइया तेऊ वाऊ अनंतरुव्वट्टा ।
नवि पावे माणुस्सं तहेवS संखाउया सव्वे ॥"
गत्यागतिद्वारे द्वयागतयः, तिर्यग्गतेर्मनुष्यगतेश्च तेषूत्पादात्, एकगतयोऽनन्तरमुद्वृत्तानां तिर्यग्गतावेवगमनात्, शेषं तथैव, उपसंहारवाक्यं 'सेत्तं सुहुमते उक्काइया' ।
यू. (३३) से किं तं बादरतेक्वाइया ?, २ अनेगविहा पन्नत्ता, तंजहा- इंगाले जाले मुम्मुरे जाव सूरकंतमणिनिस्सिते, जे यावन्ने तहप्पगारा, ते समासतो दुबिहा पन्नत्ता, तंजहा-पजत्ता य अपजत्ताय । तेसि णं भंते! जीवाणं कति सरीरगा पन्नता ?, गोयमा ! तओ सरीरगा पन्नत्ता, तंजा - ओरालिए तेयए कम्मए, सेसं तं चेव, सरीरगा सूइकलावसंठिता, तिनिलेस्सा, ठिती जहन्त्रेणं अंतोमुहुत्तं उक्को सेणं तिनि राइंदियाइं तिरियमणुस्सेहिंतो उववाओ, सेसं तं चेव एगगतिया दुआगतिया, परित्ता असंखेज्जा पन्नत्ता, सेत्तं तेडक्काइया ||
वृ. बादरतेजस्कायिकानाह - अथ के ते बादरतेजस्कायिकाः ?, सूरिराह - बादरतेजस्कायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा - "इंगाले जाव तत्थ नियमे 'त्यादि यावत्करणादेवं परिपूर्णपाठ:- "इंगाले जाला मुम्मुरे अच्ची अलाए सुद्धागणी उक्का विजू असनि निग्धाए संघरिससमुट्ठिए सूरकंतमणिनिस्सिए, जे यावन्ने तहप्पगारा, ते समासतो दुविहा पन्नत्ता
तंजहा- पज्जत्तगा य अपज्जत्तगा य, तत्थ णं जे ते अपज्ञ्जत्तगा ते णं असंपत्ता, तत्थ णं जे ते पत्ता एएसिणं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखिज्जाई जोणिप्पमुहसयसहस्साइं पञ्जत्तगनिस्साए अपजत्तगा वक्कमंति, जत्थ एगो तत्थ निमा असंखेज्जा" इति ।
अस्य व्याख्या–‘अङ्गारः’विगतधूमज्वालो जाज्वल्यमानः खदिरादि, 'ज्वाला' अनलसंबद्धा दीपशिखेत्यन्ते, 'मुर्मुरः ' फुम्फुकाग्नौ भस्मामिश्रितोऽग्निकणरूपः 'अर्चि' अनलाप्रतिबद्धा ज्वाला, 'अलातम्' उस्मुकं, 'शुद्धाग्नि' अयःपिण्डादौ 'उल्का' चुडुली 'विद्युत्' प्रतीता, 'अशनि' आकाशे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org